________________
अथ तृतीयः परिच्छेदः।
नमस्यामो दूरीकृतभवनभङ्गं भगवतो
वपुर्विश्वारम्भस्थितिलयनिदानं पुररिपोः। यदस्पृष्टं भोगैरपि दलितकामं करुणया
भवानीभ्रूभङ्गप्रणयकलहेभ्यः स्पृहयति ॥१॥ (भुवन०)-कृतादिमध्यमङ्गलद्वयश्चरममङ्गलमाचष्टे-नमस्याम इत्यादि । वयं नमस्यामो नमस्कुर्मः । किं, वपुः । कस्य, पुररिपोः श्रीमहादेवस्य । किंभूतं वपुः-दूरीकृतेत्यादि । भवनमुत्पत्तिः, भजो विनाशः । तो दूरीकृतौ येन तत्तथा । एतावता शाश्वतमित्यर्थः । पुनः कीदृशं वपुःविश्वारम्भेत्यादि । विश्वारम्भो निर्माणम् । स्थितिरवस्थानम् । लयो विनाशः । तेषां निदानं कारणम् । यद्वपु गैरस्पृष्टं दलितकाममपि भवानीभ्रूभङ्गप्रणयकलहेभ्यः स्पृहयति । ननु यद्येवंविधं वपुस्तदा भवानीकटाक्षरागो विरुद्ध इत्याह-करुणयेति । एतावता नीरागोऽपि सन्करुणयेव गौरीमाद्रियत इत्यर्थः ॥ १॥
उपाधिव्याधिनिधूतमन्वयव्यतिरेकिणम् ।
मत्वोद्भिन्नमहाविद्याः शिवादित्यादितार्किकाः ॥२॥ ( भुवन०)-महाविद्याप्रवर्तकानां निराकरणं श्लोकद्वयेन प्रस्तावयति-उपाधीति । अन्वयव्यतिरेकिणं प्रयोगमुपाधिरूपव्याधिना कम्नं मत्वा ज्ञात्वा उद्भिन्नाः अन्तर्भूतण्यर्थत्वाप्रकटिता महाविद्या यैस्ते उनिन्नमहाविद्याः शिवादित्यादितार्किकाः । अजायन्तेति क्रियाध्याहारः । अन्वयव्यतिरेकिणमुपाधिकर्थितं ज्ञात्वा शिवादित्यादितार्किकैः केवलान्वयित्वेन महाविद्याः श्रिता इत्यर्थः ॥ २॥ .
तेषामेष विशेषेण निराकरणसंभ्रमः ।
श्रीसिंहधर्माध्यक्षेण वादीन्द्रेण विधीयते ॥३॥ (भुवन०)-तेषामिति । तेषां शिवादित्यादितार्किकाणां वादीन्द्रेण श्रीसिंहनरेश्वरस्य धर्माधिकारिणा निराकरणं क्रियते इति संटङ्कः ॥ ३ ॥
असिद्धविरुडानैकान्तिकसत्प्रतिपक्षकालात्ययापदिष्टाः पञ्च हेत्वाभासाः सूत्रकारादिभिर्युत्पादिताः।
असिद्धोऽपि वेधा, पक्षधर्मत्वासिद्धो व्याप्यत्वासिद्धश्च । तत्र न यद्यपि महाविद्याहेतुः पक्षधर्मत्वासिद्धः, तथापि व्याप्यत्वासिद्धो भवत्येवेति व्युत्पादितं द्वितीयपरिच्छेदे।
१ कृतभुवनभङ्ग इति घ पुस्तकपाठः । २ 'कृतादिमध्यमङ्गलेत्यादि चरममङ्गलमाचष्टे इत्यन्तो प्रन्यांशः छ द पुस्तकयो स्ति । ३ विरच्यते इति घ पुस्तकपाठः ।
Aho ! Shrutgyanam