________________
भुवन सुन्दरसूरिकृत टीकायुतं
( भुवन० ) - केवलान्वयिनि विपक्षाभावः किमप्रयोजकः प्रयोजको वा । आक्षे यत्पूर्वमविद्यमान विपक्षत्वे सतीत्यादिलक्षणमभ्यधायि, तस्य लक्षणत्वासम्भवः । द्वितीयेऽतिप्रसङ्गः, तमेव दर्शयति- किश्च विपक्षेति । यदि विपक्षाभावोऽनुमानाङ्गं तदानीं केवलव्यतिरेकिणोऽन्वयव्यतिरेकिणञ्च हेतोर्विपक्षसत्त्वेनानुमितिजनकत्वं न स्यात् । अनन्तरोक्तव्याप्यत्वलक्षणेऽविद्यमानविपक्षत्वं दूषयित्वा सपक्षे सत्त्वमपि दूषयति- सपक्षे इति । ननु यथान्वयव्यतिरेकिणि सपक्षसत्त्वस्य प्रयोजकत्वं, तथा केवलान्वयिन्यपि सपक्षसत्त्वस्य प्रयोजकत्वं भविष्यतीति पराभिप्रायमाशङ्कयाह – एतेनेत्यादि । एतावतान्वयव्यतिरेकिण्यपि हेतौ सपक्षसत्त्वापरपर्यायस्यावयस्य यदनुमितिजनकत्वं तन्निरस्तम् । इदमत्र तत्रम् | अन्वयव्यतिरेकिणि सपक्षसत्त्वस्य प्रयोजकत्वाभावात्केवलान्वयिन्यपि तस्य न प्रयोजकत्वम् । एतेन व्याप्यत्वलक्षणे सपक्षे सत्त्वमपि व्युस्तं मन्तव्यम् ।
९८
1
तस्मात्साध्याभाववद्वृत्तित्वविरहो व्यतिरेकापरपर्यायो व्याप्यत्वमनुमानबीजमिति स्थिते केवलान्वयिनो व्याप्यत्वासिद्धिदुर्वारेति । तदिदं यथेष्टचारिण्या महाविद्यया संसर्गमनुभवतः केवलान्वयिनः प्राणान्तिकं प्रायश्चिउत्तम् । न च वैशेषिकादीनां केवलान्वयिनं निराकुर्वतामपसिद्धान्तः । सूत्रकारभाष्यकाराभ्यां कचिदपि तदव्युत्पादनात् । टीकाकारादीनां चास्माभिरनादरणात् । आदरणे वा तदीयकेवलान्वथिव्युत्पादनस्य परमतत्वेन व्याख्यानात् ॥
इति श्री हरकिङ्करन्यायाचार्यपरमपण्डित भट्टवादीन्द्रविरचिते महाविद्याfast केवलान्वभिङ्गो नाम द्वितीयः परिच्छेदः ॥ २ ॥
( भुवन० ) - परमतनिरासेन सिद्धं स्वमतमुपसंहरति - तस्मात्साध्याभावेति । साध्याभाववद्वृत्तित्त्रविरहो विपक्षवर्तनाभावो व्याप्यत्वं व्यतिरेकव्याप्तिरित्यर्थः - केवलान्वयीति केवलान्वयिनो हेतोर्व्याप्यत्वं व्याप्तिस्तस्या असिद्धिर्दुर्वारेत्यर्थः तदिदं यथेष्टेति । अत्रानुक्तोऽपि रूपकालङ्कारो यथेष्टचारिण्येतिविशेषणेन महाविद्याया अकुलस्त्रीत्वमारोपयति । तस्याश्च संग प्राणत्यागरूपं प्रायश्चित्तं समञ्जसमेत्र । सूत्रकारादिपूर्वाचार्यव्युत्पादित केवलान्वयिनो भङ्गे कथं न सिद्धान्तविरोधोऽत्राह — न च वैशेषिकेति । प्रन्थकर्ता हि वैशेषिकः, तत्र वैशेषिकादीनां केवला. 1 न्वयिनं निराकुर्वतामपसिद्धान्त इति न च वाच्यमित्यर्थः - तदव्युत्पादनादिति । तस्य केवला - न्कथित्वस्याव्युत्पादनात् — टीकाकारादीनामिति । टीकाकाराः कन्दलीकिरणावल्यादिटीकाकर्तारः । ननु तैर्युत्पादिताः समवायादय आद्रियन्ते, कथं तर्ह्यनादरणमित्याह - आदरणे वेति । वदीयं यत्केवलान्वयिन्युत्पादनं तस्य परमतत्वेन व्याख्यानादित्याशयः । इति श्रीजिनशासनश्री सोमसुन्दरसूरिशिष्यश्रीभुवनसुन्दरसूरिविरचितायां महाविद्याविडम्बनवृत्तौ व्याख्यानदीपिकायां केवलान्वयिभङ्गव्याख्यानो नाम द्वितीयः परिच्छेदः समाप्तः ॥
Aho! Shrutgyanam