________________
प० २
महाविद्याविडम्बनम् |
वा । प्रमेयत्वादिधर्मो वेत्यर्थः । आद्यं पक्षं दूषयति-नाद्य इत्यादि । हेतुस्वरूपादधिकं यब्यायत्वं तदनङ्गीकारे व्याप्यत्वं व्याप्तिः तस्या असिद्धिरेव । अयमभिप्रायः -- साधनस्य हि व्याप्यत्वं साध्येन स्यात् । तत्र यदि साधनमात्रस्वरूपमेव व्याप्यत्वं स्वीक्रीयेत, तर्हि हेत्वाभासस्यापि व्याप्यत्वं भवेदिति व्याप्यत्वस्यासिद्धिरेव । द्वितीयं पक्षं दूषयति-न द्वितीय इति । प्रमेयत्वादिव्यतिरिक्तस्य यत्तच्छब्दार्थस्य विचारासहत्वेन निर्वक्तुमशक्यत्वात् ।
यत्तच्छब्दार्थो मेयत्वादिकमेव । तस्य भावः तत्त्वं व्याप्यत्वमित्यपि न तस्य भावः किं तस्य धर्ममात्रं धर्मविशेषो वा । आद्ये मेयत्वस्य सर्वव्याप्यतापत्तिः । द्वितीये तदनिरुक्तिरिति ।
I
( भुवन० ) - यत्तच्छब्दार्थः इति । यत्तच्छन्दार्थो मेयत्वादिकमेव नापरं किमपीत्यर्थः । परोक्तं विकल्पयति — तस्य भाव इति । तस्य मेयत्वादेर्भावः । आद्यविकल्पमुत्थापयति-आधे मेयत्वस्येति । यदि मेयत्वस्य तद्भावो व्याप्यत्त्ररूपो धर्ममात्रमभिवीयते, तदा मेयत्वस्य सर्वध र्व्याप्यतापत्तिः स्यात् । अयं भावः -- तस्य भावो व्याप्यत्वमित्युक्तम् । तत्र यदि व्याप्यत्वं मेयत्वस्यः धर्म:, तर्हि मेयत्वं व्याप्यं जातमेव । यच्च व्याप्यं तद्धि व्यापकेन व्याप्यते एवेति मेयत्वस्य: व्याप्यरूपत्वेन त्वपटत्वादिसर्वधमैव्र्याप्यता प्रसज्येत । नास्ति च मेयत्वस्य व्याप्यत्वम् । तस्य व्यापकरूपत्वात् । तस्मान्न प्राच्यः पक्षः क्षोदक्षमः । द्वितीयं निरस्यति - द्वितीय इति । तस्य मेयत्वादिसंबन्धिनो विशेषधर्मस्य निर्णीतस्य अप्रतिपादनादनिरुक्तिः ।
अथ अविद्यमानविपक्षत्वे सति सपक्षे सत्त्वं मेयत्वादीनामभिधेयत्वादिव्याप्यत्वमिति मन्यसे । तन्न । अविद्यमानविपक्षत्वं नाम विपक्षाभावः । तथा च किं केवलान्वयिनि विपक्ष: प्रमितो न वा । आद्ये विपक्षाभावप्रतीतेर्बाधितत्वेन: व्याप्यत्वासिद्धि: । द्वितीयेऽपि विपक्षाप्रमितौ तदभावप्रमितेर्व्याप्यत्वासिद्धि: ।
( भुवन० ) - भूषणसंमतं मतं शङ्कते - अथाविद्यमानेति । विपक्षाभावे सति सपक्षे सत् यत्तदेव मेयत्वादिहेतूनामभिधेयत्वादिसाध्येन व्याप्यत्वम् । असंभवेन निराकुरुते - तन्नेत्यादि ॥ विकल्पयेऽपि दोषं दर्शयति — आधे विपक्षेति । यदि विपक्षः प्रभितस्तर्हि विपक्षस्याभावप्रतीतिर्बाधिता । यतो यो हि मानेन गृहीतः कथं तस्याभावः कर्तुं शक्यः । तस्माद्विपक्षाभावप्रतीतेरभावाद्व्याप्यत्वं व्याप्तिः, तस्या असिद्धिः । द्वितीयेऽपीति । यदि विपक्षो न प्रमितः, तदा प्रतियोगिप्रतीतेरभावाद्विपक्षाभावस्य अप्रमितेर्व्याप्यत्वासिद्धिः ।
किञ्च विपक्षाभावस्यानुमित्यङ्गत्वे केवलव्यतिरेक्यन्वयव्यतिरेकिणोविंद्यमानविपक्षयोरनुमितिजनकत्वाभावप्रसङ्गः । सपक्षे सत्वस्य चानुमितिजनकत्वे सपक्षरहितस्य केवलव्यतिरेकिणोऽनुमितिजनकत्वाभावप्रसङ्गः । एतेन अन्वयव्यतिरेकिण्यपि सपक्षसत्स्वापरपर्यायस्यन्वयस्यानुमितिजनकत्वं निरस्तम् ।
१ ययस्यानु इति घ पुस्तक पाठः । १३-१४ महाविद्या ०
Aho! Shrutgyanam