________________
भुवनसुन्दरसूरिकृतीकायुतं
व्यापकत्वाभावात् । यथा यैव घटे सत्तास्ति न सैव पटे इति । व्याप्यत्वभङ्गस्येति । पूर्वाभि धेयत्वादिसाध्यस्य मेयत्वादिसाधनवनिष्ठात्यन्ताभावप्रतियोगित्वाभावो व्याप्तिरुक्ता । सा च साध्यसाधनोभयनिष्ठा स्यात् । मेयत्वादिवन्निष्ठात्यन्ताभावप्रतियोगित्वविरहश्च यः साध्यनिष्ठः स साधननिष्ठ इति मेयत्वादीनां यद्व्याप्यत्वं व्याप्तिः, तस्य भङ्गो दुरपन्हव एवेत्यर्थः ।
९६
अथ मेयत्वादिसाधनवन्निष्ठात्यन्ताभावप्रतियोगित्वविरहोऽभिधेयत्वादिसाध्यनिष्ठो व्याप्यत्वमनुमानाङ्गमिति ब्रूषे । तन्न । साध्यस्यैवंरूपव्याप्यत्वावगमेऽपि पक्षधर्मत्वानवगमात् । अवगमे वा अनुमानवैयर्थ्यात् । न च साध्यगतं व्याप्यत्वं साधनगतं च पक्षधर्मत्वमनुमानाङ्गमिति युक्तम् । व्यासिपक्षधर्मतयोः समानाधिकरणयोरनुमितिजनकत्वस्योभयवादिसिद्धत्वात् ।
( भुवन ० ) - अस्मन्मते साध्यगतं व्याप्यत्वं, न तु साधन गतमिति पराभिप्रायं प्रकटयतिअथ मेयत्वादिति । मेयत्वादिसाधनवन्निष्ठात्यन्ताभावप्रतियोगित्वविरहो यः एवाभिधेयत्वादिसाध्यनिष्ठः तदेव साधनस्य साध्येन व्याप्यत्वमिति भावार्थः । ग्रन्थकारः परिहरति — तन्न । साध्यस्येत्यादि । साध्यस्य अभिधेयत्वादेर्यद्यप्येवंरूपं केवलसाध्यगतं व्याप्यत्वमत्रगतं, परं तथापि पक्षधर्मत्वमवगतं नास्ति । पक्षधर्मता च विलोक्यते । यतोऽनुमानस्य द्वे रूपे व्याप्यत्वं पक्षधर्मता च । तन्त्रान्यतररूपानवगमेऽनुमानमेव न स्यात् । अवगमे वेति । साध्यस्य यदि पक्षधर्मता अवगता तदा अनुमानवैयर्थ्यम् । साध्यस्य पक्षधर्मताव्यवस्थापनार्थमेवानुमानकरणात् । न च साध्येत्यादि । साध्यगतं हि व्याप्यत्वं, पक्षधर्मत्वं च साधनगतमिति भिन्नाधिकरणे व्याप्यत्वपक्षधर्मते अनुमानाङ्गमिति न च युक्तम् । हेतुमाह-व्याप्तिपक्षेति । व्याप्तिपचधर्मतयोः समानाधिकरणयोरेकाधि - करणयोरित्यर्थः । अथ
निष्ठात्यन्ताभावप्रतियोगित्वविरहः साध्यस्य तत्त्वं व्याप्यत्वम् । तच्च प्रमेयत्वादीनां घटते इति ब्रूषे । तन्न । यद्वन्निष्ठेत्यत्र यच्छब्देन, तत्त्वमित्यत्र च तच्छब्देन किं प्रमेयत्वादिस्वरूपं विवक्षितं, तद्धर्मो वा कश्चित् । नाद्यः । हेतुस्वरूपातिरिक्तव्याप्यत्वानङ्गीकारे व्याप्यत्वासिद्धेर्दुर्वारत्वात् । न द्वितीयः प्रमेयत्वादिव्यतिरिक्तस्य यत्तच्छब्दार्थस्य निर्वक्तुमशक्यत्वात् ।
(भुवन० ) महाविद्यावादी शङ्कते - अथ यद्वनिष्ठेति । यच्छब्देन प्रमेयत्वादिहेतवः, तद्वत्सु निष्ठो योऽत्यन्ताभावः तस्य यत्प्रतियोगित्वं तद्विरहो यः साध्यस्य । तत्त्वमिति । तस्य साध नस्य भावः तत्त्वं व्याप्यत्वम् । साधनस्य साध्यवन्निष्ठत्वं व्याप्यत्वमित्यर्थः । विकल्पैः परिहरतितन्न । यदित्यादि । यद्वन्निष्ठेत्यत्र यच्छन्देन, तत्त्वं व्याप्यत्वमित्यत्र च तच्छब्देन च किं प्रमेयत्वादिस्वरूपं विवक्षितं तद्धर्मो वा । प्रमेयत्वादिधर्मो वेत्यर्थः । आद्यं पक्षं दूषयति-नाद्य इत्यादि । यद्वनिष्ठेत्यत्र यच्छब्देन, तत्त्वं व्याप्यत्वमित्यत्र च तच्छब्देन किं प्रमेयत्वादिस्वरूपं विवक्षितं तद्धमों
१ वैयर्थ्यम् । न इति पुस्तक पाठः ।
Aho! Shrutgyanam