________________
प० २
महाविद्याविडम्बनम् |
व्यापको यः उपाधित्वेनाभिमतः, स प्रमितः प्रमाणेन गृहीतो न वा । विकल्पद्वयमपि निर्लोडयतिआधे तदभावेति । यदि स उपाधिः प्रमितस्तर्हि तदभावप्रतीतिर्बाधिता । प्रमाणगृहीतस्य असद्रूपत्वेन कर्तुमशक्यत्वात्। द्वितीये इति । यद्युपाधिरप्रमितः, कथं तर्हि तदभावप्रतीतिः कर्तुं शक्या । प्रतियोगिनः उपाधेरप्रतीतेः । 'प्रतियोगिज्ञानाधीनज्ञानोऽभावः' इति वचनात् । अथ पुनरप्याशङ्कते - यावन्त इत्यादि अनौपाधिकत्वसिद्धिरित्यन्तेन । अयमर्थः- : -- यः उपाधिरभिधेयत्वादिसाध्यव्यापको भवति स प्रमेयत्वादिसाधनाव्यापको न भवति । यश्च मेयत्वादिसाधनाव्यापकः सोऽभिधेयत्वादिसाध्यव्यापको न भवतीत्युपाधेः साधनाव्यापकसाध्यव्यापकत्वरूपसंपूर्णलक्षणाभावादत्रानुमानेषु अनोपाधिकसंबन्धत्वसिद्धिः । अथ आचार्य उत्तरयति — इत्यपि न युक्तमिति । हेतुमाहप्रकृतसाध्येत्यादि । प्रकृतमभिधेयत्वादिसाध्यं तस्य व्यापकः, प्रकृतं मेयत्वादिसाधनं तस्याव्यापer यो धर्मः उपाधिलक्षणः, तस्याप्रतीतौ प्रतियोगिज्ञानाभावात् तदभावस्य उपाधिलक्षणधर्माभावस्य भङ्गिसहस्रेण प्रकारसहस्रेणाप्यधिगन्तुं परिज्ञातुमशक्यत्वात् ।
९५
एवं सति धूमानुमानादिष्वपि अनौपाधिकत्वमशक्याधिगममिति चेत् । एवमस्तु । न नः काचित्क्षतिः ।
( भुवन० ) — अथैवमभिहिते परोऽतिप्रसङ्गमुपपादयति — एवं सति धूमानुमानेत्यादि । अनौपाधिकः संबन्धो व्याप्तिरित्यस्माभिरस्वीकरणान्नायं प्रसङ्ग इत्याह - एवमस्त्विति ।
अथ नियमो व्याप्यत्वम् । नियमश्चायोगव्यवच्छेदः । स चाभिधेयत्वादिसाध्यस्य मेयत्वादिसाधनवन्निष्ठात्यन्ताभावप्रतियोगित्वाभावः शक्योऽधिगन्तुमिति मन्यसे । तदपि न | अभिधेयत्वादिसाध्यनिष्ठस्य मेयत्वादिसाधनवन्निष्ठात्यन्ताभावप्रतियोगित्वविरहस्य व्यापकत्वेन मेयत्वाद्यनिष्ठतया मेयत्वादीनां व्याप्यत्वभङ्गस्य दुरपन्हवत्वात् ।
( भुवन ० ) - अथ प्रकारान्तरेण व्याप्तिविषयामाशङ्कां कुरुते - अथ नियमः इति । यत्र साधनं तत्र साध्येन भाव्यमेवेति यो नियमः, तदेव साधनस्य साध्येन व्याप्यत्वम् । अयोगव्यवच्छेद इति । साधनस्य साध्येन सह अयोगो न किन्तु योग एव । स चाभिधेयेति । स च अयोगव्यवच्छेदोऽभिधेयत्वादिसाध्यस्य मेयत्वादिसाधनवन्तो घटात्मादय:, तेषु निष्ठो योऽत्यन्ताभावः, तस्य यत्प्रतियोगित्वं, तदभावः शक्यो ज्ञातुम् । अयमाशयः - मेयत्वादिसाधनवत्सु अभिधेयत्वादिसाध्यस्य अभावो नास्तीत्येतावता यत्र हेतुः तत्र साध्येन भाव्यमेवेत्येवं व्याप्तिरस्तीत्यर्थः । दूषयति - तदपि नेत्यादि । मेयत्वादिसाधनवत्सु निष्ठो योऽत्यन्ताभावः तस्य यत्प्रतियोगित्वं तद्विरहस्य अभिधेयत्वादिसाध्यनिष्ठस्य । व्यापकत्वेनेति । अभिधेयत्वादिकं साध्यं व्यापकं, तन्निष्ठो यो मेयत्वादिवन्निष्ठात्यन्ताभावप्रतियोगित्वाभावः सोऽपि व्यापकनिष्ठत्वेन व्यापक एवेत्यर्थः । मेयत्वाद्यनिष्ठतयेति । अयमर्थः -यो हि गेयत्वादिवन्निष्ठात्यन्ताभावप्रतियोगित्वाभावोऽभिधेयत्वादिसाध्यनिष्ठो व्यापकः स मेयत्वादिहेत्वनिष्ठ एव । मेयत्वादिव्याप्यनिष्ठस्य व्याप्यत्वेन
Aho! Shrutgyanam