________________
भुवनसुन्दरसूरिकृतटीकायुतं
किञ्च,
अथ नृतनतर्कज्ञमनःकुमुदचन्द्रमाः। महाविद्यातमःस्तोममुपाधिरुपढौकते ॥४॥ यो भङ्गिस्थनिवृत्तिमत्त्वरहितो' यदर्जिते मेयता
मेयत्वे श्रुतिगोचरत्वविरहः स स्यादुपाधि(वः । भङ्गो विनाशः । स विद्यते यस्य असौ भङ्गी । अनित्य इत्यर्थः । तत्र स्थिता निवृत्तिरत्यन्ताभावः । तद्वत्त्वं तत्प्रतियोगित्वं । तेन रहितः इत्यर्थः । तदनेन अनित्यत्ववन्निष्ठात्यन्ताभावप्रतियोगित्वरहितत्वं अश्रावणत्वादीनामनित्यत्वरूपसाध्यव्यापकत्वं दर्शितम् । यदर्जिते मेयतेति । येन अश्रावणत्वेन वर्जिते अश्रावणत्वात्यन्ताभाववति शब्दत्वादौ मेयतेत्यर्थः । तदनेन मेयत्ववन्निष्ठात्यन्ताभावप्रतियोगित्वमश्रावणत्वादीनां मेयत्वादिसाधनाव्यापकत्वं दर्शितम् । सः श्रुतिगोचरत्वविरहः श्रवणेन्द्रियग्राह्यत्वात्यन्ताभावः । मेयत्वे साधनाभिमते, उपाधिर्भवेदित्यर्थः।
( भुवन० )-असिद्धोऽपि द्वेधेति । पक्षस्य यो हेतुधर्मो न स्यात्स पक्षधर्मत्वासिद्धो, यथा अनित्यः शब्दश्चाक्षुषत्वात् घटवदिति । व्याप्यत्वासिद्धश्च साधनस्य साध्येन ययाप्यत्वं तेनासिद्धो व्याप्तिशून्य इत्यर्थः । औपाधिकव्याँप्तिकच व्याप्यत्वासिद्धः । तत्र न यद्यपीति । यद्यपि महाविद्याहे तुः मेयत्वादिः पक्षे शब्दादौ वर्तनान्न पक्षधर्मत्वासिद्धः-तथापीति । तथापि व्याप्यत्वासिद्धो व्याप्तिशून्यो भवत्येवेति द्वितीयपरिच्छेदे प्रत्यपादि । व्याप्तिशून्यो व्याप्यत्वासिद्ध इति पुरापि प्रादर्शि।
औपाधिकव्याप्तिकोऽपि व्याप्यत्वासिद्धो भवतीति तदुपपादनायाह-किंच । अथेत्यादि । उपाधिरुपढौकते । कं । महाविद्यारूपतमःस्तोमम् । किंविशिष्टः उपाधिः-नूतनेति । नूतना ये तर्कज्ञास्तेषां मनांस्येव कुमुदानि तत्र चन्द्रमाः । वादिप्रयुक्तमहाविद्यानुमानादिखण्डनाचित्ताहादक इत्यर्थः । उपाधेश्चन्द्रत्वारोपणान्महाविद्यातमःस्तोमनिराकरणं युक्तमेव ॥४॥
अथोपाधिदोषोद्भावनाय पद्यमाह-यो भङ्गिस्थेत्यादि।
पूर्वार्ध व्याचष्टे-भङ्गो विनाश इति । तद्वत्त्वं तत्पतियोगित्वमिति । नन्वत्र तद्वत्त्वं तत्प्र. तियोगित्वं कथं, यतो भङ्गिस्थनिवृत्तिमन्तोऽनित्याः पदार्थाः । कथं तर्हि तेषां प्रतियोगित्वम् । उच्यते । सर्व वस्तु हि खनिष्ठात्यन्ताभावप्रतियोगि । न हि घटे घटोऽस्ति आत्माश्रयात् । तस्माद्बटो घटनिष्ठात्यन्ताभावप्रतियोगी स्यादेवेति तद्वत्त्वं तत्प्रतियोगित्वं समीचीनमेव । तेन रहित इति। अनित्यपदार्थेषु उपाधेरत्यन्ताभावो नास्तीति परमार्थः-तदनेनेति । अनित्यत्ववन्तोऽनित्य. . १ रहिते य इति घ पुस्तकपाठः । २ धिर्धवम् । इति घ पुस्तकपाठः । ३ व्याप्तिकोऽपि व्या छ पुस्तकपाठः।
Aho ! Shrutgyanam