________________
प०१ महाविद्याविडम्बनम् ।
६९ योग्येव । न हि शब्दे शब्दोऽस्ति । शब्दे शब्दत्वादिधर्माणामेव भावात् । शब्दत्वादौ च शब्दनिष्ठो ऽभावः शब्दत्वाद्यन्योन्याभावादिः, तत्प्रतियोगित्वं च शब्दत्वादीनां व्यक्तमेवेति तेषामपि सपक्षता, इति न केवलान्वयित्वभङ्गशङ्कापि विधेयेत्यर्थः ॥ १॥ ____ यावत्यश्च महाविद्या मूलानुमानपक्षं पक्षीकृत्य प्रवृत्ताः, तावत्यः साध्याभावमपि पक्षीकृत्य प्रयोक्तव्याः । यथा
१ अनित्यत्वात्यन्ताभावः स्वस्वेतरवृत्तित्वरहितैतच्छब्दानिष्ठधर्मवान् मेयत्वात् घटवदिति ॥१॥
१ (आनं०)-एतच्छब्दनिष्ठो न भवतीत्येतच्छब्दानिष्ठस्तस्य धर्मस्तद्वानित्यर्थः । अनित्यत्वात्यन्ताभावस्यैतच्छब्दनिष्ठत्वे तद्धर्मस्यैतच्छब्दनिष्ठधर्मत्वात् एतच्छब्दनिष्ठधर्मवत्त्वायोगात् अनित्यत्वात्यन्ताभावः एतच्छब्दनिष्ठो न भवतीत्येतच्छब्दानित्यत्वसिद्धिरिति भावः । मेयत्वादिनार्थान्तरं व्यावर्तयितुं स्वेतरवृत्तित्वरहितग्रहणम् । अप्रसिद्धविशेषणत्वपरिहाराय स्वस्वेतरेत्युक्तम् । पक्षान्योन्याभावमादाय साध्यानुगमः ॥१॥
(भुवन०)-पक्षपक्षीकरणप्रवृत्तमहाविद्यानामत्राप्यतिदेशं कुर्वाणः प्रथमां साध्याभावं पक्षीकृत्य प्रवृत्तामाह यथा-अनित्यत्वात्यन्ताभावः स्वस्वेतरेत्यादि । स्वं नित्यत्वं, स्वेतरत् नित्यत्वान्यद्विश्वं तद्वत्तित्वरहितः। एतच्छब्दे निष्ठो न भवतीत्येतच्छब्दानिष्ठः, तस्य धर्मः एतच्छब्दानिष्ठधर्मः । स्वस्वेतरवृत्तित्वरहितश्चासौ एतच्छब्दानिष्ठधर्मश्च, स विद्यते यत्रासौ तद्वान् । नित्यत्वं स्वस्वेतरवृत्तित्वरहितैतच्छब्दानिष्ठधर्माश्रयः इत्यर्थः । अत्र नित्यत्वे पक्षे पक्षान्यान्यत्वं धर्मः । स च पक्षे एव वर्तनात्, अन्यत्र चावर्तनात् स्वस्वेतरवृत्तित्वरहितोऽस्ति । स चैतच्छब्दानिष्ठस्य धर्मस्तदैव स्यात् , यदि नित्यत्वमेतच्छब्दानिष्ठं स्यात् । नित्यत्वं च यदि नैतच्छब्दनिष्ठं, तदैतच्छब्दस्यानित्यत्वं जातमेवेत्येतच्छब्दस्य अनित्यत्वसिद्धिरिति । अत्र च दृष्टान्ते सर्वत्र पक्षान्यत्वं धर्मः । स च पक्षेऽवर्तमानत्वेन पक्षादन्यत्र सर्वत्र वर्तमानत्वेन च स्वस्वेतरवृत्तित्वरहितो घटत्वाकाशत्वादौ वर्तमानत्वेन चैतच्छब्दानिष्ठस्य घटत्वादेरपि धर्म एवेति घटाकाशशब्दादौ सर्वत्रापि तेन धर्मेण साध्यप्रसिद्धिष्टव्येति तत्त्वार्थः।
___ एवमनित्यत्वात्यन्ताभावः सम्प्रतिपन्नैतद्धर्मत्वानाक्रान्ताधिकरणं मेयत्वाद्धटवदित्यादयोऽपि महाविद्याः यथा सम्भवमुदाहर्तव्याः । अत्र च सम्प्रतिपन्नतद्धर्मत्वानाक्रान्तो धर्मः पक्षावृत्तिर्वा विप्रतिपन्नमेतच्छब्दानिष्ठत्वं वा । आद्यः पक्षे व्याहत इति तेन सर्वत्र दृष्टान्ते साध्यसिद्धिः । द्वितीयस्तु विप्रतिपन्नतच्छब्दानिष्ठत्वरूप: पक्षे सिद्धयन्ननित्यत्वमेतच्छब्दस्य गमयेदिति तात्पर्यम् ॥ १ ॥
इति साध्याभावपक्षीकरणप्रवृत्तमहाविद्योपायः प्ररूपितः । अथ पक्षनिष्ठधर्म पक्षीकृत्य प्रवर्तमाना महाविद्याभेदा यथा- .
१ शब्दत्वं शब्दत्वव्यतिरिक्तैतच्छब्दनिष्ठत्वरहितशब्दत्वव्यतिरिक्तानित्यत्वात्यन्ताभावव्यतिरिक्तत्वरहितान्यत् मेयत्वादिति ॥ ये शब्दत्वव्यति
१ साध्यात्यन्ताभाव इति ज पुस्तकपाठः ।
Aho ! Shrutgyanam