________________
६८
आनन्दपूर्ण-भुवनसुन्दरसूरिकृतटीकायुतं तञ्चेच्छब्दनिष्ठं जातं तदानीमनित्यः शब्दो जात एवेत्यभिप्रायः । कर्मधारयव्यावृत्तिमाह-शब्दनिष्ठस्य धर्म इति । एवमिति । अनित्यत्वमेतच्छब्दवृत्तित्वव्यतिरिक्ततद्धर्मत्वरहिताधिकरणं मेयत्वात् घटवदित्यादिमहाविद्या सर्वत्र प्रयोज्येत्यर्थः । एतद्व्याख्या । एतच्छब्दवृत्तित्वव्यतिरिक्ता ये एतद्धर्मा अनित्यत्वधर्माः । तत्त्वरहितश्च धर्मः पक्षावृत्तिा, एतच्छब्दवृत्तित्वं वा । आद्यः पक्षे व्याहतत्वादृष्टान्तोपयोगी । द्वितीयस्तु पक्षे सिद्धयन्ननित्यत्वमेतच्छब्दस्य साधयेदिति भावः । विशेषव्याख्यानं त्वस्याः पक्षपक्षीकरणप्रवृत्ततृतीयमहाविद्यावद्वोद्धव्यम् ।। १ ।।
इति साध्यं पक्षीकृत्य प्रयुक्ता महाविद्या दर्शिताः। अथ साध्याभावं पक्षीकृत्य प्रवर्तमाना महाविद्याभेदा यथा
१ अनित्यत्वात्यन्ताभावः अनित्यत्वात्यन्ताभावान्योन्याभावव्यतिरितैतच्छन्दनिष्ठाभावप्रतियोगी मेयत्वात् घटवत् इति ॥ अनित्यत्वात्यन्ताभावस्य चान्योन्याभावव्यतिरिक्तोऽभावः अत्यन्ताभाव एव । तस्य प्राप्रध्वंसाभावविरहात् । अनित्यत्वात्यन्ताभावस्य चात्यन्ताभावोऽनित्यत्वमेवेत्येतच्छब्दानित्यत्वसिद्धिः॥१॥
१ (आनं०)-एतच्छब्द निष्ठाभावप्रतियोगीत्युक्ते सिद्धसाधनम् , अनित्यत्वात्यन्ताभावान्योन्याभावस्यैतच्छब्देऽभावादत उक्तम्-अनित्यत्वात्यन्ताभावान्योन्याभावव्यतिरिक्तेति । प्रागभावादिः किं न स्यादत्राह-तस्येति । अत्यन्ताभावस्यानाद्यनन्तत्वादित्यर्थः ॥ १॥
. १ (भुवन० )-अथ साध्याभावं पक्षीकृत्य प्रवर्तमानमहाविद्याभेददिदर्शयिषया प्राहअथ साध्याभावमित्यादि । साध्यं शब्दानित्यत्वादिकं, तस्य योऽभावस्तं साध्याभावमित्यर्थः । महाविद्यां दर्शयति-अनित्यत्वात्यन्ताभावोऽनित्यत्वात्यन्ताभावेत्यादि । 'तत्तादात्म्यनिषेधान्यतत्स्थाभावविरोधिता' इति कारिकार्द्धमाश्रित्येयं महाविद्या प्रवृत्ता । अनित्यत्वात्यन्ताभावो नित्यत्वं पक्षः । अनित्यत्वात्यन्ताभावो नित्यत्वं तस्य योऽन्योन्याभावः, तस्माव्यतिरिक्तो यः एतच्छब्दनिष्ठोऽभावस्तस्य प्रतियोगीति । इदमत्र तत्त्वम् । नित्यत्वप्रतियोगिनौ एतच्छब्दनिष्ठौ द्वावभावौ सम्भवतः, अन्योन्याभावो वा, अत्यन्ताभावो वा । प्रागभावप्रध्वंसाभावौ च नित्यत्वस्य न सम्भवतः । तस्य सदा स्थायित्वेनोत्पत्तिविनाशाभावात् । तत्र चानित्यत्वात्यन्ताभावान्योन्याभावव्यतिरिक्तपदेन नित्यत्वान्योन्याभावस्यैतच्छब्दनिष्ठाभावेभ्यो निषेधात् नित्यत्वमेतच्छब्दनिष्ठात्यन्ताभावस्यैव प्रतियोगि साध्यते । तथा च नित्यत्वस्यात्यन्ताभावः शब्दे तदैव स्यात्, यद्यनित्यः शब्दः स्यादित्यर्थः । व्याख्यानं तु उक्तार्थमेव-अनित्यत्वात्यन्ताभावस्य चात्यन्ताभाव इति । 'परस्परविरोधे हि न प्रकारान्तरस्थितिः' इति न्यायादनित्यत्वात्यन्ताभावात्यन्ताभावोऽनित्यत्वमेवेत्यनित्यत्वसिद्धिरेतच्छब्दस्येति । इह च घटाकाशादयो दृष्टान्ताः सर्वेऽपि ज्ञेयाः, तद्धमांश्च । तत्र च नित्यत्वान्योन्याभावव्यतिरिक्तः एतच्छन्दनिष्ठोऽभावः स्वस्वान्योन्याभावादिः तस्य प्रतियोगित्वं धर्मो ज्ञेयः । तथात्रापि शब्दः सपक्ष एव । यतः शब्दोऽपि शब्दनिष्ठात्यन्ताभावप्रति
१ "श्रित्येवं म' इति छ द पुस्तकपाठः ।
Aho ! Shrutgyanam