________________
महाविद्याविडम्बनम् |
६७
मस्ति । ततो यथा शब्दत्व श्रावणत्वादयः शब्दधर्मास्तथा अनित्यत्वमपि शब्दधर्मत्वेन स्वीकर्तव्यम् । तथा च परिशेषादनित्यत्वं शब्दस्यायातमेवेत्येतच्छब्दानित्यत्वसिद्धिरिति । अनित्यत्वान्योन्याभावमिति । अनित्यत्वस्य योऽन्योन्याभावोऽन्यत्वं तस्य घटात्मादौ नित्यानित्ये तद्धर्मेषु च सर्वत्र सद्भावाद्व्याप्तिसिद्धिर्ज्ञेयेत्यर्थः ॥ १ ॥
प० १
२ अनित्यत्वं अनित्यत्वान्योन्याभावव्यतिरिक्तशब्दनिष्ठात्यन्ताभाव-प्रतियोगिनिष्ठत्वरहिताधिकरणं मेयत्वादिति । ईयं च महाविद्या यत्र वचन शब्देऽनित्यत्वं गमयति, पूर्वा च निष्कृष्य शब्दविशेषे इति भेदः ॥ २ ॥
२ ( भुवन० ) अनित्यत्वमित्यादि । व्याख्यानं पूर्ववद्बोद्धव्यम् । प्राच्यमहाविद्यातो-Sस्या भेदमुद्भावयति - इयं चेत्यादि ॥ २ ॥
यावन्तश्च मूलानुमानपक्षं पक्षीकृत्य प्रवृत्ता महाविद्याभेदाः, तावन्तः साध्यमपि पक्षीकृत्य प्रयोक्तव्याः । यथा
अनित्यत्वं स्वस्वेतरवृत्तित्वरहितैतच्छन्दनिष्ठधर्मवत् मेयत्वादिति । शब्दनिष्ठस्य धर्मः शब्दनिष्ठधर्मः । एवं महाविद्या प्रयोज्या सर्वत्र ॥ १ ॥
१ ( आनं० ) - स्वेति । स्वस्मिन्नितरस्मिंश्च ये वर्तन्ते तेषु स्वस्वेतरवृत्तित्वं धर्मः । तद्रहि-तश्चासावेतच्छब्द निष्ठधर्मश्च, तद्वत्त्वस्याधिकरणमित्यर्थः । अनित्यत्वमेतच्छदनिष्ठधर्मवदित्युक्ते शब्दनिष्टं शब्दत्वं, तस्य धर्मो ज्ञेयत्वं, तदधिकरणमर्थान्तरमित्यनित्यत्वमत उक्तम्- स्वेतरवृत्तित्वरहितेति । अप्रसिद्धविशेषणत्वपरिहाराय स्वस्वेतरेत्युक्तम् | पक्षान्योन्याभावमादाय व्याप्तिसिद्धिः । स्वस्वेतरवृत्तित्वरहितशब्दनिष्ठधर्मः स्वेतरमात्रशब्द निष्ठवृत्तिर्वाऽनित्यत्वमात्रवृत्तिर्वा । आद्यो व्याहतः । द्वितीयः शब्दनिष्ठधर्मः सिध्यन्ननित्यत्वस्यैतच्छब्दधर्मत्वं गमयेदित्येतच्छब्दानित्यत्वसिद्धिरिति भावः । एवं सर्वत्रेति । अनित्यत्वमनित्यत्वान्योन्याभावाव्याप्यैतच्छन्द निष्ठधर्मवन्मेयत्वाद्भटवदित्यादावित्यर्थः ॥ १ ॥
1
1
१ ( भुवन० ) - यावन्त इति । यावन्तो महाविद्याभेदा: मूलानुमानपक्षं शब्द पक्षीकृत्य प्रवृत्तास्तावन्तः साध्यमनित्यत्वरूपमपि पक्षीकृत्य प्रयोक्तव्याः । यथा - अनित्यत्वं स्वस्वेतरेत्यादि । स्वमनित्यत्वं, स्वेतरदनित्यत्वादन्यद्विश्वमपि । तयोः स्वस्वेतरवृत्तित्वं धर्मः, तद्रहितश्वासौ एतच्छब्द-निष्ठस्य धर्मश्च । तद्वत्तस्याधिकरणमित्यर्थः । अनित्यत्वमेतच्छब्दनिष्ठधर्मवदित्युक्ते एतच्छब्दनिष्ठमे -- तच्छब्दत्वं, तस्य धर्मो ज्ञेयत्वं, तदधिकरणमनित्यत्वमित्यर्थान्तरम् । अत उक्तं स्वेतरवृत्तित्वरहितेति । अप्रसिद्धविशेषणत्वपरिहाराय स्वेत्यूचे | पक्षान्योन्याभावमादाय व्याप्तिसिद्धिः । स च पक्षादन्यत्र सर्वत्र वर्तमानत्वेन शब्दनिष्ठेष्वपि वर्तनाच्छन्दनिष्ठस्य शब्दत्व श्रावणत्वादेर्धर्म एवेति । अत्र च पक्षे साध्यो धर्मोऽनित्यत्वमात्रवृत्तिरनित्यत्वभिन्नविश्वान्यत्वादिः । स चानित्यत्वे एव वर्तनादन्यत्र चावर्तनात्स्वस्वेतरवृत्तित्वरहित एव । स च शब्दनिष्ठस्य धर्मस्तदैव स्यात्, यद्यनित्यत्वं शब्दनिष्ठं स्यात् ।
१ इयं सर्वस्मिन् शब्दे इति ग पुस्तकपाठः । २ साध्यनित्य' इति छ द पुस्तकपाठः । ३ 'निष्ठधर्म इति छ 'द' पुस्तक पाठः ।
Aho! Shrutgyanam