________________
आन्दपूर्ण -भुवनसुन्दरसूरिकृतटीकायुतं
रिक्ता एतच्छन्दनिष्ठाश्च तेषु शब्दत्वव्यतिरिक्तत्वे सति एतच्छब्दनिष्ठत्वं धर्मः । ये च शब्दत्वव्यतिरिक्तत्वे सति अनित्यत्वात्यन्ताभावव्यतिरिक्ताः, तेषु शब्दत्वव्यतिरिक्तत्वे सति अनित्यत्वात्यन्ताभावव्यतिरिक्तत्वं धर्मः । शब्दत्वव्यतिरिक्तैतच्छब्दनिष्ठत्वरहितश्चासौ शब्दत्वव्यतिरिक्तानित्यत्वात्यन्ताभावव्यतिरिक्तत्वरहितश्च । ततोऽन्यत् भिन्नमित्यर्थः ।
१ ( आनं० ) - शब्दत्वमिति । शब्दत्वव्यतिरिक्तत्वे सत्येतच्छन्दनिष्ठरहितश्चासौ शब्दत्वव्यतिरिक्तत्वे सति अनित्यत्वात्यन्ताभावव्यतिरिक्तत्वरहितश्च ततोऽन्यद्भिन्नमित्यर्थः । शब्दत्वमन्यदित्युक्ते यतः कुतंञ्चिदन्यत्वेनार्थान्तरमत उक्तम् — अनित्यत्वात्यन्ताभावव्यतिरिक्तत्वरहितेति । तथापि व्याप्तिभङ्गः, अनित्यत्वात्यन्ताभावे एतदभावादत उक्तम् - शब्दत्वव्यतिरिक्तेति । एवमपि न प्रकृतसाध्यसिद्धिः, अनित्यत्वात्यन्ताभावाद्यत्किञ्चिन्निष्ठान्यत्वोपपत्तेरत उक्तम् - एतच्छन्दनिष्टत्वरहितेति । तथापि व्याप्तिभङ्गः, नित्यत्वात्यन्ताभावे कथितरूपसाध्याभावादत उक्तम् — शब्दत्वव्यतिरिक्तैतच्छन्दनिष्ठत्वरहितेति । पक्षान्योन्याभावमादायैव साध्यानुगमः । अनेतन्निष्ठादनित्यत्वात्यन्ताभावादन्यत्वं सिध्यदेतस्मिन्ननित्यत्वं गमयेदिति भावः । व्याचष्टे – ये शब्दत्वेति ।
१ (भुवन ० ) - इदानीं “ की चित्साध्याभावमित्यादि" इत्यत्रादिपदेन व्यञ्जितमहाविद्यान्तरप्रकारप्ररूपणाय प्राह- अथ पक्षनिष्ठं धर्ममित्यादि । पक्षः शब्दः, तन्निष्ठं शब्दत्वादिधर्ममि - त्यर्थः । महाविद्यामुदाहरति---यथा, शब्दत्वं शब्दत्वव्यतिरिक्तेत्यादि । शब्दत्वव्यतिरिक्ता ये एतच्छब्दनिष्ठाः श्रावणत्वादयः, तत्त्वरहितश्चासौ शब्दवत्र्यतिरिक्तत्वे सत्यनित्यत्वात्यन्ताभावो नित्यत्वं, तद्व्यतिरिक्ता ये घटत्वाकाशत्वादयः तत्त्वरहितश्च । तस्मादन्यद्भिन्नं शब्दत्वमित्यर्थः । शब्दत्वमन्यदित्युक्ते यतः कुतश्चिदन्यत्वेनार्थान्तरत्वम् । अत उक्तम् - अनित्यत्वात्यन्ताभावव्यतिरिक्तत्वरहितेति । तथापि नित्यत्वान्यत्वेनार्थान्तरता व्याप्तिभङ्गश्च नित्यत्वे नित्यत्वान्यत्वाभावात् । अत उक्तम् — शब्दव्यतिरिक्तेति । एवमपि न प्रकृतसाध्यसिद्धिः, नित्यत्वाद्यत्किञ्चिन्निष्ठादन्यत्वोपपत्तेः । अत उक्तमेतच्छब्दनिष्ठत्वरहितेति । तथापि व्याप्तिभङ्गः, नित्यत्वे एव कथितरूपसाध्याभावात् । अत उक्तं शब्दत्वव्यतिरिक्तैतच्छन्दनिष्ठत्वरहितेति । पक्षान्योन्यभावमुपादाय साध्यानुगमो द्रष्टव्यः । पक्षे त्वेतच्छब्दनिष्ठत्वरहितानित्यत्वान्यत्वं सिद्धयत् एतच्छब्देऽनित्यत्वं गमयतीति भावः । अथैनां महाविद्यां व्याचष्टे – ये शब्दत्वव्यतिरिक्ता इत्यादि ।
190
शब्दत्वव्यतिरिक्तैतन्निष्ठत्वरहितश्च शब्दत्वं वा स्यात्, एतच्छन्दनिष्ठत्वरहितो वा । आद्येऽन्यत्वं व्याहृतम् । न हि शब्दत्वं शब्दत्वान्यदिति संभवति । तेन पक्षनिष्ठत्वरहितान्यत्वं सिध्यति । स च पक्षनिष्ठत्वरहितः, अनित्यत्वात्यन्ताभावव्यतिरिक्तो वा, अनित्यत्वात्यन्ताभावो वा । आद्यव्यावृत्त्यर्थं शब्दत्वव्यतिरिक्तानित्यत्वात्यन्ताभावव्यतिरिक्तत्वरहितग्रह१ एतद्वाक्यं अस्मिन्नेव महाविद्याविडम्बनग्रन्थे ५ पृष्ठे ३२ पङ्कौ द्रष्टव्यम् । २ आयनिट इति ग पुस्तकपाठः ।
Aho! Shrutgyanam