________________
आनन्दपूर्ण-भुवनसुन्दरसूरिकृतटीकायुतं भावो नित्येषु सिद्ध इति व्याप्तिसिद्धिः । नित्यानां पक्षतुल्यत्वाद्गगनैतच्छब्दमात्रवृत्तिरनेकनित्यवृत्तित्वरहितो गगने भवन्नेतच्छब्दानित्यत्वं गमयेदिति भावः । अनेकनित्यवृत्तिवरहिततच्छब्दनिष्टः किं गगनवृत्तिरुत एतच्छब्दवृत्तित्वरहितः, उत गगनैतच्छन्दमात्रवृत्तिरिति विकल्प्याद्यौ निरस्यतिगगनेत्यादिना । तृतीयमङ्गीकृत्याह-गगनैतच्छन्दनिष्ठस्येति । शेषं स्पष्टम् ।। ९ ॥
९ (भुवन०)-गगनमनेकनित्यत्तित्वरहितेत्यादि । अनेकनित्यवृत्तित्वरहितश्चासौ एतच्छब्दनिष्ठश्च तस्याधिकरणमित्यर्थः । अनेकनित्यवृत्तित्वरहितः एतच्छब्दनिष्ठः एतच्छब्देतरनित्यत्वात्यन्ताभावादिरेतच्छब्दानित्येषु सिद्धः इति व्याप्तिसिद्धिः । गगनेतरनित्यानां च पक्षतुल्यत्वम् । तेन न तेषु साध्याभावो दोषपोषकः । गगनैतच्छब्दमात्रवृत्तिर्गगनैतच्छब्दान्यतरत्वादिरनेकनित्यवृत्तित्वरहितो गगने भवन्नेतच्छब्दानित्यत्वं गमयेदिति भावः । अनेकनित्यवृत्तित्वरहितैतच्छब्दनिष्ठः किं, १ गगनावृत्तिः, २ उत एतच्छब्दवृत्तित्वरहितः, ३ उत गगनैतच्छब्दमात्रवृत्तिरिति त्रेधा विकल्प्य आद्यौ निरस्यति-गगनवृत्तित्वेत्यादिना । तृतीयमङ्गीकृत्याह-गगनैतच्छन्दनिष्ठस्येति । एतच्छन्देतरेति । शब्दस्य नित्यत्वमद्यापि विवादास्पदीभूतम् । तेनैतस्माच्छब्दादितरेषामात्मादीनां यन्नित्यत्वं तदत्यन्ताभावमुपादायेत्यर्थः । यतः शब्देतरनित्यत्वात्यन्ताभावः एतच्छब्दे घटादौ चाप्यस्ति । यदि च शब्देतरेतिपदेन नित्येभ्यः शब्दो बहिः कर्षितो न स्यात् , तदा भाट्टैनित्यत्वात्यन्ताभावस्य शब्देऽनङ्गीकृतत्वात् शब्दस्य दृष्टान्तत्वं न स्यात् । तस्माच्छब्दस्य दृष्टान्तत्वाथै शब्देतरपदग्रहणम् ॥ ९॥ ___ १० गगनं अनेकनित्यनिष्ठत्वरहितशब्दनिष्ठाधिकरणं मेयत्वादिति ॥ इयं च महाविद्या यत्र कचन शब्देऽनित्यत्वं गमयतीति पूर्वमहाविद्यातो भिद्यते ॥१०॥
१० ( भुवन०)-गगनमनेकनित्येति । अस्या व्याख्यानं पूर्ववदेव बोद्धव्यम् । प्राचीनमहाविद्यातोऽस्या भेदाभावशङ्कामपाकर्तुमाह-इयं चेति ॥ १०॥ ... ११ गगनं गगनैतच्छब्दवृत्तित्वरहितनित्यत्वव्यतिरिक्तनित्यत्वव्याप्यत्वरहितनित्यत्वाव्याप्यनित्यनिष्ठत्वरहिताधिकरणं मेयत्वात् घटवदिति ॥ अत्र च नित्यत्वव्यतिरिक्तनित्यत्वव्याप्यत्वरहितं नित्यत्वं, तदेव च नित्यत्वाव्याप्यनित्यनिष्टत्वरहितं, नित्यत्वस्य नित्यनिष्ठत्वेऽपि नित्यत्वव्याप्यत्वेन नित्यत्वाव्याप्यत्वरहितत्वात् । नित्यत्वस्य च गगनैतच्छब्दनिष्ठत्वरहितत्वं तर्देव स्यात्, यद्येतस्मिन् शब्देऽनित्यत्वं स्यादित्येतच्छब्दानित्यत्वसिद्धिः । इयं च महाविद्या पूर्वमेव व्याख्याता ॥ ११॥
११ (आनं०)-गगनमिति । गगन एतस्मिन् शब्दे च ये वर्तन्ते तेषु गगनैतच्छब्दवृत्तित्वं धर्मः । तद्रहितश्च नित्यत्वव्यतिरिक्तत्वे सति नित्यत्वव्याप्यत्वरहितश्च, नित्यत्वाव्याप्यत्वे सति नित्य
१ शब्दे नित्यत्वं न स्या' इति घ ज पुस्तकपाठः ।
Aho ! Shrutgyanam