________________
प०१
महाविद्याविडम्बनम् । निष्ठत्वरहितश्च । तस्याधिकरणमित्यर्थः । अधिकरणमित्युक्ते मेयत्वादिसक्तिं व्यावर्तयति-नित्यनिष्ठत्वरहितेति । नित्यनिष्ठत्वरहिताधिकरणमित्युक्ते व्याप्त्यसिद्धिः, नित्यपदार्थेषु तदसम्भवादत उक्तम्-नित्यत्वाव्याप्येति । नित्यत्वस्य नित्यनिष्ठत्वेऽपि नित्यत्वव्याप्यत्वेन तदव्याप्यत्वे सति यन्नित्यनिष्ठत्वं (तत् ? ) नास्तीति नित्येषु साध्यसिद्धिः । नित्यत्वाव्याप्यनित्यनिष्ठरहिताधिकरणमिति च नित्यत्वेनार्थान्तरमत उक्तम्-नित्यत्वव्याप्यत्वरहितेति । नित्यत्वस्य नित्यत्वव्याप्यत्वेऽपि नित्यत्वव्यतिरिक्तत्वे सति तद्वयाप्यत्वाभावात्पुनरपि तेनैवार्थान्तरं व्यावर्तयति-गगनैतच्छब्दत्तित्वरहितेति ॥ ११ ॥
११ ( भुवन० )-गगनं गगनैतच्छब्देत्यादि । गगने एतस्मिन् शब्दे च ये वर्तन्ते तेषु गगनैतच्छब्दवृत्तित्वं धर्मः । तद्रहितश्चासौ नित्यत्वव्यतिरिक्तत्वे सति नित्यत्वव्याप्यत्वरहितश्च, स चासौ नित्यत्वाव्याप्यत्वे सति नित्यनिष्ठत्वरहितश्च, तस्याधिकरणं गगनमित्यर्थः । अत्र साध्यो धर्मः पक्षे नित्यत्वम् । तस्य च द्वितीयतृतीयविशेषण विशिष्टस्यापि नित्ये शब्देऽङ्गीक्रियमाणे नित्ये गगने नित्ये च शब्दे वर्तनाद्गगनैतच्छब्दवृत्तित्वमेव स्यात्, न तु गगनैतच्छब्दनिष्ठत्वरहितत्वम् । तस्मान्नित्यत्वस्याविशेषणविशिष्टत्वानुपपत्तेः शब्दस्यानित्यत्वमङ्गीकार्यम् । दृष्टान्ते च घटपटादौ घटत्वादिरनित्यत्वादिर्वा धर्मोऽवबोध्यः । अत्र च शब्दो गगनेतरनित्याश्च पक्षतुल्या इति न तेषु साध्यप्रसिद्धिः । सङ्केपेण व्याचष्टे-अत्र च नित्यत्वेत्यादि । इयं च महाविद्या पूर्वमेव पक्षपक्षीकरणप्रवृत्तमहाविद्योदाहरणावसरे सविस्तरं व्याख्यातेत्यतिदिशति-इयं चेति ॥ ११ ॥
१२ गगनं गगनशब्दवृत्तित्वरहितनित्यत्वव्यतिरिक्तनित्यत्वव्याप्यत्वरहितनित्यत्वाव्याप्यनित्यनिष्ठत्वरहिताधिकरणं मेयत्वादिति ॥ १२॥
१२ (भुवन०)-गगनं गगनशब्दवृत्तित्वेत्यादि । एतस्याः पाश्चात्यायाश्च महाविद्यायाः पृथगुपादानकारणं पूर्ववदेव वेदनीयम् । इति विपक्षं पक्षीकृत्य प्रवृत्ता द्वादशमहाविद्या उदाह्रियन्त॥१२॥ - अथ साध्यं पक्षीकृत्य प्रवर्तमाना महाविद्याभेदा दयन्ते यथा-...
१ अनित्यत्वं अनित्यत्वान्योन्याभावव्यतिरिक्तैतच्छन्दनिष्ठात्यन्ताभावप्रतियोगिनिष्ठत्वरहिताधिकरणं मेयत्वात् घटवदिति । अनित्यत्वान्योन्याभावव्यतिरिक्तश्चासौ एतच्छब्दनिष्ठात्यन्ताभावप्रतियोगिनिष्ठश्च । तस्य धर्मः अनित्यत्वान्योन्याभावव्यतिरिक्ततच्छन्दनिष्ठात्यन्ताभावप्रतियोगित्वम् । तद्रहितश्च अनित्यत्वान्योन्याभावो वा स्यात्, एतच्छन्दनिष्ठात्यन्ताभावप्रतियोगिनिष्ठत्वरहितो वा । आद्यो व्याहतः । न हि अनित्यत्वमनित्यत्वव्यतिरिक्तमिति संभवति । एतच्छन्दनिष्ठात्यन्ताभावप्रतियोगिनिष्ठत्वरहितश्च अनित्यत्वे तर्येव स्यात्, यद्यनित्यत्वमेतच्छब्दनिष्ठात्यन्ताभावप्रतियोगि न स्यात् इत्य. १ महाविद्याविडम्बनादर्शपुस्तकेषु च्छब्दनिष्ठत्वर' इति पाठो विद्यते । २ योगिनिष्ठत्वम् । इति ज पुस्तकपाठः।
Aho! Shrutgyanam