________________
५०१
महाविद्याविडम्बनम् । (भुवन०) तथापि अप्रसिद्धविशेषणत्वपरिहारः कथमत आह-गगनेतरनित्यत्तित्वे त्यादि । गगनान्योन्याभावादेरिति । आदिपदेन गगनमात्रनिष्ठस्यात्यन्ताभावो गृह्यते । ततो गगनान्यत्वादेर्गगनेऽवर्तनाद्गगनेतरनित्येषु च वर्तनायुगलावृत्तित्वेन गगनेतरनित्यगगनवृत्तित्वरहितत्वं, एतच्छब्दे वर्तमानत्वादेतच्छब्दनिष्ठत्वं च विद्यते एव । तस्माद्गगनान्यत्वादेर्दृष्टान्ते सुप्रसिद्धत्वमित्यर्थः । व्याघात इति । यो गगनवृत्तित्वरहितः स गगनवृत्तिः कथं साध्यत इति व्याघातः प्रकट एव । तन्निवृत्यर्थ गगनेतरनित्यग्रहणम् । तथा च कथं तव्यवच्छेद इत्यत आह-गगनवृत्तित्वरहितस्येत्यादि । न्यूनविशेषणविशिष्टस्य व्याघातेऽपि, सम्पूर्णविशेषणविशिष्टस्य न व्याघात इत्यर्थः ॥७॥
८ गगनं गगनेतरनित्यगगनवृत्तित्वरहितशब्दनिष्ठाधिकरणं मेयत्वादिति । पूर्वमहाविद्यायां निष्कृष्य एतस्मिन् शब्देऽनित्यत्वसिद्धिः । अस्यां तु यत्र कापि शब्देऽनित्यत्वसिद्धिरिति भेदः । एवमन्यत्रापि निष्कृष्य शब्दविशेषानित्यत्वसाधकत्वयत्किश्चिच्छब्दानित्यत्वसाधकत्वाभ्यां महाविद्याभेदो द्रष्टव्यः ॥८॥
८ (आनं०)-प्राचीनमहाविद्यातो भेदनास्तित्वशङ्कां वारयितुमाह-पूर्वेति ॥ ८॥
८(भुवन०)-गगनं गगनेतरनित्यगगनवृत्तित्वरहितेत्यादि । पाश्चात्यानुमाने एतच्छब्दनिष्ठेत्युक्तेरेक एव विशिष्टः शब्दो गृहीतः । अत्र तु शब्दनिष्ठेतिभणनात् सामान्येन यः कश्चिच्छब्दः इति पूर्वस्या अस्या महान्भेदः, तथैव चाभिदधाति–पूर्वमहाविद्यायामित्यादि ॥८॥
९ गगनं अनेकनित्यवृत्तित्वरहितैतच्छब्दनिष्ठाधिकरणं मेयत्वादिति । अनेकनित्यवृत्तित्वरहितः गगनवृत्तित्वरहितो वा एतच्छब्दवृत्तित्वरहितो वा उभयवृत्तिर्वा । गगनवृत्तित्वरहितो गगने व्याहतः । एतच्छन्दवृत्तित्वरहितश्च एतच्छब्दनिष्ठग्रहणेन निरस्तः । गगनैतच्छन्दनिष्ठस्य च अनेकनित्यनिष्ठत्वरहितत्वं तथैव स्यात्, यद्ययं शब्दो नित्यो न स्यात् । एतच्छब्दनित्यत्वे गगनैतच्छन्दनिष्ठस्य अनेकनित्यनिष्ठत्वेन तद्रहितत्वानुपपत्तेरेतच्छब्दानित्यत्वसिद्धिः । एतच्छब्देतरनित्यत्वात्यन्ताभावमुपादाय एतच्छब्दघटादौ साध्यप्रसिद्ध्या सपक्षत्वं, गगनव्यतिरिक्तनित्यादीनां च पक्षतुल्यत्वम् ॥९॥
९ (आनं०) अनेकेति । अनेकनित्यवृत्तित्वरहितश्चासावनेतच्छब्दनिष्ठश्च तस्याधिकरणमित्यर्थः। एतच्छब्दनिष्ठाधिकरणमित्युक्ते मेयत्वादिनार्थान्तरं व्यावर्तयति-नित्यत्तित्वरहितेति । व्याघातं परिहरति-अनेकनित्यवृत्तित्वरहितेति । तथापि गगननिष्ठैकत्वादिनार्थान्तरत्वमत आह-एतच्छब्दनिष्ठेति । अनेकनित्यवृत्तित्वरहितः एतच्छब्दनिष्ठः एतच्छब्देतरनित्यान्योन्या
१ °धिः । एतस्यां तु इति घ ज पुस्तकपाठः । २ ° रिति महान् भे' इति ज पुस्तकपाठः।।
Aho! Shrutgyanam