________________
आनन्दपूर्ण-भुवनसुन्दरसूरिकृतटीकायुतं बद्रहिववेति । एतच्छब्दगगनवृत्तेः कया अनुपपत्त्या साध्यसाधकत्वमत्राह-एतच्छब्दत्वनित्यत्वे इति ।
७ (भुवन०)-गगनं गगनेतरनित्येत्यादि । गगनेतरनित्यवृत्तित्वे सति गगनवृत्तिषु गगनेतरनित्यगगनवृत्तित्वं धर्मः । तद्रहितश्वासौ एतच्छब्दनिष्ठश्च, तदधिकरणं गगनमित्यर्थः । गगनान्यत्वमुक्तरूपं गगनातिरिक्त सर्वत्रास्तीति व्याप्तिसिद्धिः । व्याप्तिबलादेतच्छन्दगगनमात्रवृत्तिर्गगनेतरनित्यगगनवृत्तित्वरहितः सिध्यन् अनित्यत्वमेतस्य शब्दस्य साधयेदिति तात्पर्यम् । अथ प्रथमविशेषणोपपन्नं धर्मचतुष्टयमाचष्टे-तद्रहितश्च धर्म इत्यादि । १ गगनेतरनित्यमात्रवृत्तिति । आत्मत्वादिः । २ गगनमात्रवृत्तिति । गगनैकत्वादिः । ३ एतच्छब्देतरानित्यगगनवृत्तिवेति । विश्वप्रतियोगिको घटाकाशान्योन्याभावादिः । स च गगनेतरनित्येषु अवर्तनान्नित्ये गगने एव च वर्तनाद्यथोक्तयुगलावृत्तित्वेन गगनेतरनित्यगगनवृत्तित्वरहितो विद्यते एव । ४ एतच्छन्दगगनवृत्तिर्वेति । विश्वप्रतियोगिकः एतच्छब्दाकाशान्योन्याभावादिः। अन्येषामसम्भवेन चतुर्थ पक्षे साधयति-चतुर्थस्त्वेतच्छब्दानित्यत्वमित्यादि । इदमत्र रहस्यम्-गनं हि नित्यत्वेन वादिप्रतिवादिनोरुभयोरपि सम्मतम् । शब्दोऽपि यदि नित्यत्वेनाङ्गीक्रियते, तदा एतच्छब्दाकाशान्योन्याभावो गगनेतरनित्ये एतच्छब्दे गगने च वृत्तित्वेन तत्सहित एव स्यात् , न तु तद्रहितः । तस्माच्छब्दस्यानित्यत्वमेवाङ्गीकार्यम् । शब्दानित्यत्वान्तर्भावसिद्धिमेवाविर्भावयति-एतच्छन्दनित्यत्वे इत्यादि । अप्रसिद्धविशेषणत्वमित्यादि । यावता शब्दस्यानित्यत्वं सिद्धं नास्ति, तावता शब्दनिष्ठानां शब्दत्वादीनां गगनेतरनित्यवृत्तित्वेन परैर्भाहादिभिरङ्गीकृतत्वात् गगनेतरनित्यवृत्तित्वरहितत्वं न स्यात् । तन्निवृत्यर्थे गगनग्रहणम् । ___ गगनेतरनित्यवृत्तित्वरहितैतच्छन्दनिष्टाधिकरणमित्युक्ते चाप्रसिद्धविशेषणत्वम् । एतच्छब्दानित्यत्वसिद्धेः पूर्वमेतच्छन्दनिष्ठानां गगनेतरनित्यनिप्ठत्वेन परैरङ्गीकृतत्वादिति तन्निवृत्यर्थं गगनग्रहणम् । गगनेतरनित्यवृत्तित्वरहितैतच्छन्दनिष्ठाप्रसिद्धत्वेऽपि गगनेतरनित्यगगनवृत्तित्वरहितैतच्छन्दनि
ठस्य गगनान्योन्याभावादेः सुप्रसिद्धत्वात् । गगनवृत्तित्वरहितैतच्छब्दनिष्ठाधिकरणमित्युक्ते व्याघातः । तन्निवृत्यर्थं गगनेतरनित्यग्रहणम् । गगनवृत्तित्वरहितस्य गगने व्याहतत्वेऽपि गगनेतरनित्यगगनवृत्तित्वरहितस्य अव्याहतत्वात् ॥७॥
( आनं० )-शब्दनित्यत्वामीकारिमते शब्दधर्मस्य गगनेतरनित्यवृत्तित्वविरहस्याप्रसिद्धं तथापि दुष्परिहरमत्राह-गगनान्योन्याभावादेरिति । आदिशब्देन गगनमात्रनिष्ठात्यन्ताभावो गृह्यते ॥७॥
१ नित्यत्तित्वेन इति घ पुस्तकपाठः । २ गगननिष्ठत्वरहि इति थ पुस्तकपाठः । ३ अप्रसिद्धलं इति स्यात् (?)।
Aho ! Shrutgyanam