________________
५०१
महाविद्याविडम्बनम् । . ६ ( आनं० ) उत्तरमहाविद्यायामेतच्छब्देतरस्थाने शब्दत्वरहितपदं निहितम् । शेषं पूर्ववत् । कथमत्र व्याप्त्यनुगमोऽत्राह-एतयोश्चेति । शब्देतरानित्यत्वं शब्देतरनित्यत्वं शब्देतरकार्यत्वं च कथितविशेषणमनित्येषु सिद्धम् । गगनेतरानित्यशब्दानां शब्दस्य च पक्षतुल्यत्वाड्याप्त्यनुगम इत्यर्थः ॥ ६॥
६ (भुवन०)-गगनं शब्दत्वरहितेत्यादि । अस्यां महाविद्यायां पूर्वमहाविद्योक्तच्छब्देतरपदस्थाने शब्दत्वरहितपदं निदधे । शेषं पूर्ववत् । कथमेतयोक्त्यिनुगमोऽत्राह-एतयोश्चेति । पञ्चमीषष्ठयोमहाविद्ययोरित्यर्थः । एतच्छब्देतरानित्यत्वादिकमिति । एतच्छब्दादितरे ये भावास्तेपामनित्यत्वादिकं धर्ममित्यर्थः । आदिशब्देन एतच्छब्देतरकार्यत्वादिग्रहः । गगनेतरनित्यानां शब्दस्य च पक्षतुल्यत्वान्न तत्र व्याप्त्यभावेऽपि दोषः ॥ ६॥
७ गगनं गगनेतरनित्यगगनवृत्तित्वरहितैतच्छब्दनिष्ठाधिकरणं मेयत्वादिति ॥ गगनेतरनित्ये गगने च ये वर्तन्ते तेषु गगनेतरनित्यगगनवृत्तित्वं धर्मः । तद्रहितश्च धर्मः १ गगनेतरनित्यमात्रवृत्तिर्वा, २ गगनमात्रवृत्तिा , ३ एतच्छब्देतरानित्यगगनवृत्तिा, ४ एतच्छन्दगगनवृत्तिर्वा । आद्यो गगने व्याहतः। द्वितीयतृतीयौ शब्दनिष्ठग्रहणेन निरस्तौ। चतुर्थस्तु एतच्छब्दानित्यत्वमन्तर्भाव्य सिध्यति । एतच्छब्दनित्यत्वे गगनैतच्छन्दनिष्ठस्य गगनेतरनित्यगगननिष्ठत्वेन तद्रहितत्वानुपपत्तेरित्येतच्छब्दानित्यत्वसिद्धिः । एतच्छन्दनिष्ठाधिकरणमित्युक्ते मेयत्वादिभिरेतच्छन्दनित्यत्वेऽप्युपपद्यमानैरर्थान्तरता स्यात् । तन्निवृत्यर्थं गगनेतरनित्यगगनवृत्तित्वरहितग्रहणम् । गगनेतरनित्यगगनवृत्तित्वरहिताधिकरणमित्युक्ते गगननिष्ठैरेकत्वादिभिरेतच्छन्दनित्यत्वे ऽप्युपपद्यमानैरर्थान्तरता स्यात् । तेन्निवृत्यर्थमेतच्छब्दनिष्टग्रहणम् ।
७ (आनं० )-गगनेति । गगनेतरनित्यवृतित्वे गगनवृत्तिषु गगनेतरनित्यगगनवृत्तित्वं धर्मः । तद्रहितश्चासावेतच्छब्दनिष्ठश्च तदधिकरणमित्यर्थः । गगनमधिकरणमित्युक्ते शब्दाधिकरणत्वेनार्थान्तरमत उक्तम्-शब्दनिष्ठेति । पक्षतुल्ये कापि साध्यसिद्धिं व्यावर्तयितुमेतच्छन्दनिष्ठाधिकरणमित्युक्तम् । तथापि मेयत्वादिकं प्रसक्तमप्यावर्तयति-गगनवृत्तित्वरहितेति । व्याघातपरिहारार्थगगनेतरनित्यत्तित्वरहितेति । गगनेतरनित्यवृत्तित्वरहितैतच्छब्दनिष्ठाधिकरणमित्युक्तेऽप्रसिद्धविशेषणत्वं, शब्दनिष्ठस्य नित्यवृत्तित्वरहितत्वस्य शब्दानित्यत्वसिद्धेः पूर्व दुरधिगमत्वादत उक्तम्गगनेतरनित्यगगनवृत्तित्वरहितति । गगनान्यत्वमुक्तरूपं गगनातिरिक्ते सर्वत्रास्तीति साध्यसिद्धिः । व्याप्तिबलादेतच्छब्दगगनमात्रवृत्तिगगनेतरनित्यगगनवृत्तित्वरहितः सिध्यन्ननित्यत्वमेतस्य शब्दस्य साधयेदिति तात्पर्यम् । गगने तद्रहितधर्मसिद्धथा कथमेतच्छब्दानित्यत्वमत आह
१ तव्यावृत्यर्थमे' इति घ पुस्तक पाठः । २ ‘वृत्तिषु' इति स्यात् (?)। ३ प्रसक्तं व्यावर्तयति इति स्यात् (?)।
Aho! Shrutgyanam