________________
आनन्दपूर्ण-भुवनसुन्दरसूरिकृतटीकायुतं मित्यपि नित्यत्वेनार्थान्तरमित्यादि स्वयमूह्यम् । एतच्छब्देतरानित्यगगनवृत्तित्वरहितो नित्यनिष्ठश्च धों गगनान्यत्वं पक्षातिरिक्त सर्वत्रास्तीति व्याप्त्यनुगमः । गगने त्वेतच्छब्देतरानित्यगगनवृत्तित्वरहितः एतच्छब्दगगनमात्रवृत्तिरनित्यनिष्ठः सिध्यन्ननित्यत्वमेतच्छब्दस्य गमयतीति भावः । प्रथममहाविद्यातोऽस्या भेदमाह-पूर्वेति । ३ (भुवन०)-अथ
“अपक्षसाध्यवद्वृत्तिविपक्षे पक्षिते न यत् ।
साध्यववृत्तितायुक्तं साध्यते तद्विपक्षगम् ॥" इति कारिकामाश्रित्य या प्रवर्तते तां ब्रूते-गगनमतच्छब्देतरानित्यगगनवृत्तिवेत्यादि । एतच्छब्देतरानित्याश्च गगनं च, तत्र वृत्तिर्येषां, तेषां भावस्तत्त्वं धर्मः, तद्रहितश्चासावनित्यनिष्ठश्चतस्याश्रयो गगनभित्यर्थः । नित्यत्वतवान्तरधर्मव्यावृत्त्यर्थमनित्यनिष्ठेत्युक्तम् । मेयत्वादिव्यावृत्त्यर्थमेतच्छब्देतरानित्यगगनवृत्तित्वरहितेत्युपात्तम् । गगनवृत्तित्वरहितानित्यनिष्ठाधिकरणमित्युक्ते व्याघातः, तन्निवृत्त्यर्थमनित्येति । अनित्यगगनवृत्तित्वरहितोऽनित्यनिष्ठश्चानित्यमात्रवृत्तिरनित्यत्वादि. गंगने नित्ये न सम्भवतीत्युक्तं शब्देतरेति । पक्षतुल्ये यत्र कापि शब्दे साध्यपर्यवसानवारणाय एतदिति । इति व्यावृत्तिचिन्ता ।। एतच्छब्देतरानित्यगगनवृत्तित्वरहितोऽनित्यनिष्ठश्च धर्मो गगनान्यत्वं पक्षातिरिक्ते सर्वत्रास्तीति व्याप्त्यनुगमः । गगने तु एतच्छब्देतरानित्यगगनवृत्तित्वरहितः एतच्छब्दगगनमात्रवृत्तिरेतच्छब्दगगनान्यतरत्वा दिरनित्यनिष्ठः सिध्यन् अनित्यत्वमेतच्छब्दस्य साधयतीत्याशयः । प्रथममहाविद्यातोऽस्या भेदं प्रदर्शयति-पूर्वमहाविद्या नित्यमात्रमित्यादि । पूर्वमहावियायां नित्येतिभणनात्सर्वे नित्यपदार्थाः स्वीकृताः । अत्र तु नित्यपदस्थाने पक्षीकृतं गगनमेव न्यस्तमित्यनयोर्विशेषः ॥ ३॥
४ गगनं शब्दत्वरहितानित्यगगनवृत्तित्वरहितानित्यनिष्ठाधिकरणं मेयत्वादिति ॥ एतस्मिंश्च महाविद्याचतुष्टये गगनेतरनित्यानां प्रकृतशब्दादेश्च पक्षतुल्यत्वम् ॥४॥
४ ( आनं०)-चतुर्थमहाविद्या द्वितीयमहाविद्यावढ्याख्येया । अनित्यनित्यवृत्तित्वरहितानित्यनिष्ठः पक्षतत्तुल्यशब्देषु गगनातिरिक्तनित्यपदार्थे च नास्तीति व्याप्तिभङ्ग इत्यत आहएतस्मिनिति । तृतीयचतुर्थमहाविद्ययोर्गगनान्यत्वं गगनातिरिक्त सर्वत्रास्तीति व्याप्तिसिद्धेरेतस्मिन्प्रकरणमहाविद्याचतुष्टये प्रथमद्वितीयमहाविद्याद्वये वक्ष्यमाणमहाविद्याद्वये चेत्यर्थः ।
. ४ (भुवन०)-गगनं शब्दत्वरहितानित्यगगनेत्यादि । शब्दत्वरहिताः शब्दत्वात्यन्ताभाववन्तः । ते च तेऽनित्याश्च शब्दत्वरहितानित्याः । ते च गगनं च, तत्र वृत्तिर्येषां ते तथा । शेष तृतीयमहाविद्यावढ्याख्येयम् । एतच्छब्देतरानित्यनित्यत्तित्वरहितानित्यनिष्ठादिधर्मः शब्देषु गगनातिरिक्तनित्यपदार्थेषु च नास्तीति व्याप्तिभङ्ग इत्यत आह-एतस्मिश्चेति । तृतीयचतुर्थमहाविद्ययोगगनान्यत्वं पटादौ शब्दे च सर्वत्रास्तीति व्याप्तिसिद्धेः, प्रथम द्वितीयमहाविद्याद्वये वक्ष्यमाणमहाविद्याद्वये चेत्यर्थः ॥ ४॥
१ प्रवर्तयति इति द छ पुस्तकपाठः । २ 'प्रकृते' इति स्यात् (?)
Aho ! Shrutgyanam