________________
५९
५०१
महाविद्याविडम्बनम् । - ५ गगनं एतच्छब्देतरानित्यनित्यवृत्तित्वरहितानेकनित्यवृत्तित्वरहितानेकनिष्ठाधिकरणं मेयत्वादिति ॥ एतच्छब्देतरानित्यनित्यवृत्तिरहितानेकनिष्ठाधिकरणमित्युक्ते नित्यत्वतवान्तरैरनेकनिष्ठुरन्तरता स्यात् । तन्निवृत्त्यर्थमनेकनित्यनिष्ठत्वरहितग्रहणम् । एतच्छब्देतरानित्यनिष्ठत्वरहितानेकनित्यनिष्ठत्वरहिताधिकरणमित्युक्ते गगनमात्रनिष्ठैरेकत्वादिभिरेतच्छन्दमात्रनित्यत्वेऽप्युपपद्यमानैरर्थान्तरता स्यात् । तन्निवृत्त्यर्थमनेकनिष्ठग्रहणम् । अनेकनित्यवृत्तित्वरहितानेकनिष्ठाधिकरणमित्युक्ते घटाकाशान्यतरत्वादिना अर्थान्तरता स्यात् । तन्निवृत्यर्थमेतच्छब्देतरानित्यनित्यवृत्तित्वरहितग्रहणम् । ___५ (आनं० )-गगनमिति । शब्देतरानित्यनित्यवृत्तित्वरहितश्वासावनेकनित्यवृत्तित्वरहितोऽनेकनिष्ठश्च । तस्याधिकरणमित्यर्थः । गगनमात्रनिष्ठैकत्वादिव्यावृत्त्यर्थमनेकनिष्ठग्रहणम् । नित्यत्वव्यावृत्त्यर्थमनेकनित्यवृत्तित्वरहितग्रहणम् । नित्यवृत्तित्वरहितानेकनिष्ठाधिकरणमित्युक्ते व्याघातोऽत उक्तम्-अनेकनित्येति । अनेकनित्यवृत्तित्वरहितानेकनिष्ठाधिकरणमित्युक्ते गगनसंयोगयोः संबन्धे. नार्थान्तरत्वमत उक्तम्-नित्यवृत्तित्वरहितेति । व्याघातपरिहारार्थमेवैतच्छब्देतरानित्यग्रहणम् । अत्रैतच्छब्दगगनमात्रवृत्तिः सिध्यन्ननेकनित्यवृत्तित्वरहितः एतच्छब्दस्यानित्यत्वं गमयेदिति भावः । ५ (भुवन०)-" अपक्षसाध्यवद्वृत्तिविपक्षान्वयवर्जितः ।
नानाविपक्षवृत्त्यन्यभिन्नधर्मोऽस्ति पक्षिते ॥" एतां कारिकामाश्रित्य विपक्षपक्षीकरणेन प्रवृत्तामाह-गगनमेतच्छब्देतरानित्यनित्यत्तित्वरहितानेकनित्यवृत्तित्वरहितानेकनिष्ठाधिकरणमिति । अनेके च ते नित्याश्च अनेकनित्याः तद्वृत्तित्वरहितः । एकस्मिन् गगनादौ निष्ठा यस्य असावेकनिष्ठः । न एकनिष्ठोऽनेकनिष्ठः । अनेकनित्यवृत्तित्वरहितश्चासावनेकनिष्ठश्च स तथा । एतच्छब्देतरानित्यनित्यवृत्तित्वरहितश्वासावनेकनित्यवृत्तित्वरहितानेकनिष्ठश्च तस्याधारो गगनमित्यर्थः । एवंविधश्च धर्मः पक्षे विश्वप्रतियोगिकः शब्दाकाशान्योन्याभावादिज्ञेयः । स च गगन एव नित्ये वर्तनादेतच्छब्दादितरस्मिंश्च कस्मिंश्चिदप्यनित्ये अवर्तनात् एतच्छब्देतरानित्यनित्यवृत्तित्वरहितः एव । तथा शब्दाकाशयोर्द्वयोरपि वर्तनादनेकनिष्ठश्चाप्यस्त्येव । स चानेकनित्यवृत्तित्वरहितस्तदैव, यदि शब्दोऽनित्यः स्यादिति पारिशेष्याच्छब्दानित्यत्वसिद्धिरिति । अत्र च पूर्वोक्तविशेषणोपपन्नमेतच्छब्देतरानित्यत्वैतच्छन्देतरकार्यत्वादिकमुपादाय अनित्येषु साध्यप्रसिद्धिर्द्रष्टव्या । गगनेतरनित्यानां शब्दस्य च पक्षतुल्यत्वान्न तेषु साध्याभावः कलङ्कपङ्कशङ्काकरः । एवमुत्तरमहाविद्यायामपि ज्ञेयम् । नित्यत्वतदवान्तरैरिति । नित्यत्वं च तदवान्तरधश्चि व्यापकत्वादयः तैः । मनःपरमाण्वादौ नित्यत्वसद्भावेऽपि व्यापकत्वादीनामभावात्तेषामवान्तरत्वम् । गगनमात्रनिष्ठरेकत्वादिभिरिति । गगनैकत्वादिभिरित्यर्थः । घटाकाशान्यतरत्वादिनेति । घटाकाशयोरन्यतरत्वं हि घटेऽप्याकाशेऽपि च वर्तते एव, उभयानुगतधर्मत्वात् । यथा चैत्रमैत्रयोरन्यतरः इत्युक्ते चैत्रोऽपि वा लभ्यते मैत्रोऽपि वेति । तेनैकस्मिन्नेव नित्ये वर्तमानत्वेन अनेकनित्यत्तित्वरहितेन घटाकाशद्वयेऽपि वर्तमानत्वेन चानेकनिष्ठेन नित्यत्वरूपार्थान्तरता । तद्व्यवच्छेदायैत
Aho! Shrutgyanam