________________
प० १
महाविद्या विडम्बनम् |
गगने वर्तमानो नित्यमात्रवृतिर्भवति, तथाप्यनित्यनिष्ठत्वरूपद्वितीयविशेषणविशिष्टत्वं तस्य न स्यादिति स दूरं निरस्तः । षष्ठस्याभ्युपगमेन परिशेषाच्छन्दानित्यत्वसिद्धिमाह - षष्ठस्य तु अनित्यनित्वं गगनस्य नित्यत्वाच्छब्दानित्यत्वं विना नोपपद्यते इति अनित्यः शब्दः स्वीकर्तव्यः ॥ १ ॥
५७
२ गगनं शब्दत्वरहितानित्यनित्यवृत्तित्वरहितानित्यनिष्ठाधिकरणं मेयत्वादिति ॥ प्राचीना महाविद्या पक्षीकृतशब्दविशेषान्योन्याभावमुपादाय प्रवृत्ता पक्षीकृतशब्दविशेषेऽनित्यत्वं गमयति । इयं तु पक्षतत्तुल्यसाधारणशब्दत्वात्यन्ताभावमुपादाय प्रवृत्ता पक्षतत्तुल्यान्यतमस्मिन् शब्दे अनित्यत्वं गमयति इत्येतयोर्महान् भेदः ॥ २ ॥
२ ( आनं० ) - गगनमिति । शब्दत्वरहिते शब्दत्वात्यन्ताभाववत्य नित्ये नित्ये च ये वर्तन्ते तेषु शब्दत्वरहिता नित्य नित्यवृत्तित्वं धर्मः । तद्रहितश्चासावनित्यनिष्ठश्च तस्याधिकरणमित्यर्थः । विशेषणकृत्यं साध्यपर्यवसानं च पूर्ववत् । प्राचीनमहाविद्यायामप्ययमेवार्थः साधितः इत्यत आहप्राचीनेति । एतच्छब्देतरेतिविशेषणात्पक्षीकृतशब्द विशेषणान्योन्याभावमुपादायेत्यर्थः । इयमपि तथेति नेत्याह- इयं त्विति । पक्षः एतच्छब्दः । तत्तुल्याः अन्ये शब्दास्तेषां साधारणस्य शब्दत्वस्यात्यन्ताभावमित्यर्थः ॥ २ ॥
२ ( भुवन० ) - पूर्वामेव महाविद्यामेतच्छब्दे तरेतिपदस्थाने शब्दत्वरहितेतिपदग्रहणेन भङ्गयन्तरेणोदाहरति — गगनं शब्दत्वरहितानित्यनित्येत्यादि । शब्दत्वेन रहिताः शब्दत्वात्यन्ताभाववन्तः । ते च तेऽनित्याश्च शब्दत्वरहितानित्याः । एतावता ये शब्दत्वसहितास्तेषां सर्वेषामप्यनित्येभ्यो निष्कर्षः कृतः । शेषं पूर्ववत् । प्राचीनमहाविद्यातोऽस्या भेदमावेदयति - प्राचीनेत्यादि । प्राचीना महाविद्या एतच्छब्देतरेति भणनाद्विवक्षितस्यैव कस्यचिच्छब्दस्य अन्योन्याभावमुपादाय प्रवृत्ता सती शब्दविशेषे एवानित्यत्वं साधयति । इयं तु शब्दत्वरहितेतिभणनात्पक्षः एतच्छन्द:, तत्तुल्या अन्ये शब्दास्तेषां साधारणस्य शब्दत्वस्यात्यन्ताभावमादाय प्रवृत्ता पक्षतत्तुल्यान्यतमस्मिन् शब्देऽनित्यत्वसाधिका । सर्वशब्दानित्यत्वगमिकेयमित्यर्थः । इत्यनयोर्भेदः ॥ २ ॥
३ गगनं एतच्छब्दतरानित्यगगनवृत्तित्वरहितानित्यनिष्ठाधिकरणं मेयत्वादिति ॥ पूर्वमहाविद्या नित्यमात्रमुपादायप्रवृत्ता, इयं तु पक्षीकृतनित्यविशेषमुपादायेति विशेषः । शेषं पूर्ववत् ॥ ३ ॥
३ ( आनं० ) - एतच्छब्देत रेति । एतच्छब्देत नित्ये गगने च ये वर्तते, तेष्वेतच्छब्देतरानित्यगगनवृत्तित्वं धर्मः । तद्रहितश्चासावनित्यनिष्ठश्च तस्याश्रय इत्यर्थः । नित्यत्वतदवान्तरधर्मव्यावृत्यर्थं अनित्यनिष्ठेत्युक्तम् । मेयत्वादिव्यावृत्त्यर्थ —— गगनवृत्तित्वरहितेति । व्याघातपरिहारार्थ अनित्यगगनवृत्तित्वरहितेति । अनित्यगगनवृत्तित्वरहितो नित्यनिष्ठश्चानित्यमात्रवृत्तिरिति स्थिते गगने न संभवतीत्यत आह- शब्दतरेति । पक्षतुल्ये वापि साध्यपर्यवसानं वारयति - एतदिति । एतच्छब्दे तरवृत्तित्वरहिताधिकरणमित्युक्ते व्याघातः । एतच्छब्देतरा नित्यवृत्तित्वरहिताधिकरण८-९ महाविया ०
Aho! Shrutgyanam