________________
५२
आनन्दपूर्ण - भुवन सुन्दरसूरिकृतटीकायुतं
स्यात्, यद्यनित्यः शब्दः स्यादिति । आकाशादिनिष्ठात्यन्ताभावप्रतियोगित्वेन द्वितीयस्यानि - त्यनिष्ठात्यन्ताभावप्रतियोगित्वं किं न स्यादित्याह -- गगनादीनां नित्यत्वादिति । गगनादयो हि नित्यत्वेनोभयोरपि वादिप्रतिवादिनोः संमताः । अतस्तन्निष्ठात्यन्ताभावप्रतियोगित्वेऽपि द्वितीयधर्मस्यानित्यनिष्ठात्यन्ताभावप्रतियोगित्वं न स्यादित्यर्थः । तर्हि स्तम्भादिनिष्ठात्यन्ताभावप्रतियोगित्वेन अनित्य निष्ठात्यन्ताभावप्रतियोगित्वं भविष्यतीत्याशङ्कय ब्रूते - शब्देत नित्यमात्रवृत्तेचेत्यादि । शब्दा दितरे ये अनित्याः पदार्थास्तन्मात्रवृत्तेर्घटत्वादेर्धर्मस्य । शब्देतरानित्येति । शब्देत नित्यनिष्ठश्वासौ अत्यन्ताभावश्च तस्य यत्प्रतियोगित्वं तस्यानुपपत्तेः शब्देतरा नित्यनिष्ठात्यन्ताभावप्रतियोगित्वरहितस्य तद्वत्त्वं व्याहतमित्यर्थः । परिशेषाच्छब्दानित्यत्वसिद्धिमभिधत्तेनेत्यादि । तेन कारणेन द्वियीयधर्मस्य शब्दानित्यत्वं विना अनित्यनिष्ठात्यन्ताभावप्रतियोगित्वान्यथानुपपत्तेः शब्दस्यानित्यत्वमङ्गीकार्यमिति शब्दानित्यत्वसिद्धिरित्यर्थः ॥ २१ ॥
२२ अयं घटः एतद्वंद्वैतच्छन्दव्यतिरिक्तनिष्ठात्यन्ताभावप्रतियोगित्वरहितानित्यनिष्ठात्यन्ताभावप्रतियोग्यधिकरणं मेयत्वादिति ॥ एतद्वंद्वैतच्छन्दव्यतिरिक्तनिष्ठात्यन्ताभावप्रतियोगिषु एतद्भद्वैतच्छब्दव्यतिरिक्तनिष्ठात्यन्ताभावप्रतियोगित्वं धर्मः । तद्रहितश्च एतद्वदमात्रनिष्ठात्यन्ताभावप्रतियोगी वा एतच्छब्दमात्र निष्ठात्यन्ताभावप्रतियोगी वा । आद्यः पक्षे व्याहतः । द्वितीयस्य तु अनित्यनिष्ठात्यन्ताभावप्रतियोगित्वमेतच्छब्दानित्यत्वमनधिगम्य दुरधि - गममित्येतच्छब्दानित्यत्वसिद्धिः ॥ २२ ॥
२२ ( आनं० ) – अयमिति । एतद्धटचैतच्छब्दचैतद्धटैतच्छन्दौ, ताभ्यां व्यतिरिक्तनिष्ठोऽत्यन्ताभावः, तस्य प्रतियोगित्वरहितः, स चायमनित्यनिष्ठात्यन्ताभावप्रतियोगी, तस्याधिकरणमित्यर्थः । मेयत्वादिव्यावृत्त्यर्थम नित्य निष्ठात्यन्ताभावप्रतियोगीत्युक्तम् । स्तम्भाद्यनित्य निष्ठात्यन्ताभावप्रतियोगिघटत्वव्यावृत्त्यर्थमेतद्घटव्यतिरिक्तैतन्निष्ठात्यन्ताभावप्रतियोगित्वर हितग्रहणम् । एतच्छब्दव्यतिरि
क्तनिष्ठात्यन्ताभावप्रतियोगित्वरहितानित्यनिष्ठात्यन्ताभावप्रतियोग्यधिकरणत्वमेतच्छब्दनित्यत्वसिद्धेः प्रागप्रसिद्धमित्यत उक्तम्- - एतद्धटेति । घटव्यतिरिक्तनिष्ठात्यन्ताभावप्रतियोगित्वरहितः एतदादन्यनिष्ठः एतदनित्यघटनिष्ठात्यन्ताभावप्रतियोगी च तदधिकरणत्वं घटादन्यत्र सर्वत्रास्तीति व्यायनुगमः । एतस्मिन्घटे एतच्छन्दव्यतिरिक्तनिष्ठात्यन्ताभावप्रतियोगित्वरहितो नित्यनिष्ठात्यन्ताभावप्रतियोगी सिध्यन्ननित्यत्वं शब्दस्य साधयेदित्याशयः ॥ २२ ॥
२२ ( भुवन० ) – अयं घटः एतद्वद्वैत च्छन्दव्यतिरिक्तनिष्ठात्यन्ताभावप्रतियोगित्वरहितानित्यनिष्ठात्यन्ताभावप्रतियोग्यधिकरणमिति । एतद्वदच एतच्छन्दश्च एतद्वै तच्छब्दौ । ताभ्यां व्यतिरिक्तमेतद्व्यरहितं सर्वै विश्वम् । तन्निष्टश्चासौ अत्यन्ताभावश्च, तस्य प्रतियोगी एतवटै तच्छब्दव्यतिरिक्तनिष्ठात्यन्ताभावप्रतियोगी । तद्भावस्तत्त्वं । तेन रहितो वियुतः अनित्यनिष्ठो यो ऽत्यन्ताभावस्तस्य प्रतियोगी । एतद्वै तच्छन्द व्यतिरिक्तनिष्ठात्यन्ताभावप्रतियोगित्वरहितश्चासौ अनित्यनिष्ठात्यन्ताभाव
1
Aho! Shrutgyanam