________________
५१
प०१
महाविद्याविडम्बनम् । (भुवन०)-अथाचं शब्देतरानित्यनिष्ठेतिपदं मुक्त्वा व्यावृत्तिं करोति-शब्देतरानित्य. निष्ठात्यन्ताभावप्रतियोगित्वेत्यादि । इत्युक्ते अप्रसिद्धविशेषणत्वमाह-अप्रसिद्धविशेषणत्वमिति । अस्मिन्विशेषणद्वये विचार्यमाणे एवंविधधर्माणां सपक्षे अनुपपद्यमानत्वमित्यर्थः । कथमप्रसिद्धविशेषणत्वमित्याह-नित्यमात्रनिष्ठधर्माणामित्यादि । नित्यत्वाकाशत्वाइयो धर्मा नित्यमात्रनिष्ठास्तेषामित्यर्थः । एवं शब्दमात्रनिष्ठानामिति । शब्दमात्रनिष्ठाः शब्दत्वश्रावणत्वादयो धर्मास्तेषाम् । शब्दनित्यमात्रनिष्टानां चेति । शब्दनित्यमात्रनिष्ठा धर्माः शब्देतरानित्यान्यत्वादयः । तेषामपि च शब्देतरानित्यनिष्ठात्यन्ताभावप्रतियोगित्वेन तद्रहितत्वानुपपत्तेरिति पूर्वेण संबन्धः । तर्खेतद्धटव्यतिरिक्तशब्देतरानित्येषु दृष्टान्तीक्रियमाणेषु साध्यप्रसिद्धिः कथं भविष्यतीत्याशङ्कयाह-एतद्धटव्यतिरिक्तेत्यादि । एतद्धटः पक्षीकृतो घटः, शब्देतरेति पदेन वर्जितत्वान्मूलानुमानपक्षश्च शब्दः, तो मुक्त्वा अपरे ये भावा अनित्याः पटादयस्ते सर्वेऽपि पक्षतुल्याः । यथा पक्षः सन्दिग्धसाध्यः, तथा तेऽपि सन्दिग्धसाध्या इत्यर्थः । इति न तन्मात्रनिष्ठेष्विति । एतद्बटशब्दव्यतिरिक्तानित्यमात्रेषु पूर्वोक्तविशेषणोपपन्नानां धर्माणामसंभवेन न साध्यप्रसिद्धिरन्वेषणीया । अतोऽप्रसिद्धविशेषणत्वव्यवच्छेदाय शब्देतरा नित्यनिष्ठपदोपादानम् । यद्यपि शब्देतरानित्यनिष्ठात्यन्ताभावप्रतियोगित्वरहितेति विशेषणेन केवलेन आकाशत्वादयो धर्मा नोपपद्यन्ते, तथापि शब्देतरानित्यनिष्ठपदे प्रक्षिप्ते एतद्विशेषणद्वययोगे उपपद्यन्ते एव । तथैव चाह-यद्यपि नित्यमात्रनिष्ठा धर्मा इत्यादि । एवं च नित्यमात्रनिष्ठाकाशत्वादिना शब्दमात्रनिष्ठशब्दवादिना च साध्यप्रसिद्धौ सिद्धायामाकाशादयः शब्दश्वात्र दृष्टान्तीकार्याः । एवं च मूलानुमानपक्षं शब्दमेव पक्षीकृत्य प्रवृत्ता महाविद्याः परित्यज्य अन्यासु सर्वास्वपि शब्दोऽपि यथायोगं दृष्टान्तीकार्यः इति व्यञ्जयति-एवं शब्दत्वादिष्वपीति । एवं शब्दे दृष्टान्तीक्रियमाणे शब्दत्वादिना धर्मेण साध्यप्रसिद्धिद्रष्टव्येति भावार्थः । अनित्यनिष्ठशब्देतरानित्यनिष्ठात्यन्ताभावप्रतियोगित्वरहितानित्यनिष्ठात्यन्ताभावप्रतियोग्यधिकरणमित्युक्त च वादिमतेन शब्दे अप्रसिद्धविशेषणत्वं स्यात् । वादिमतेन शब्दमात्रनिष्ठानामनित्यनिष्ठत्वेन शब्देतरानित्यनिष्ठात्यन्ताभावप्रतियोगित्वेन च तद्रहितत्वासिद्धेः । तदर्थ शब्देतरेति पदं ज्ञेयम् । तथा च शब्दमात्रनिष्ठधर्मस्य शब्देतरानित्यनिष्ठत्वे सति यच्छब्देतरा नित्यनिष्ठात्यन्ताभावप्रतियोगित्वं तद्रहितत्वमेवेति तेन साध्यानुगमः शब्दे द्रष्टव्य इति । घटस्यैवंभूतधर्माधिकरणत्वेऽपि कथं शब्दानित्यत्वमित्यत्राह-शब्देतरानित्यनिष्ठेत्यादि । आद्यः पक्षे व्याहत इति । आद्यः शब्देतरानित्यनिष्ठत्वरहितो धर्मः पक्षे घटे यः शब्देतरसर्वानित्येषु न वर्तते सोऽनित्ये घटे कथं वर्तते इति व्याघा. तेनं बाधितः । सपक्षे चासौ प्रयोजकः । यतः स धर्मः आकाशत्वशब्दत्वादिरूपः शब्देतरानित्यनिष्ठत्वरहितत्वेन शब्देतरानित्यनिष्ठात्यन्ताभावप्रतियोगित्वरहितोऽस्ति । तथा अनित्यस्तम्भादिनिष्ठात्यन्ताभावप्रतियोगी चेति । द्वितीयस्य तु शब्देतरानित्यनिष्ठात्यन्ताभावप्र. तियोगित्वरहितत्वरूपैधर्मस्य अनित्यनिष्ठात्यन्ताभावप्रतियोगित्वरूपान्त्यविशेषणविशिष्टत्वं तदैव
१ रूपस्य धर्म' इति च पुस्तकपाठः ।
Aho ! Shrutgyanam