________________
प० १
महाविद्याविडम्बनम् |
५३
प्रतियोगी च घटत्वरूपो यो धर्मस्तस्याधिकरणमाधारो घट इत्यक्षरार्थः । भावार्थस्त्वयम् । एतदैतच्छब्दव्यतिरिक्तनिष्ठात्यन्ताभावप्रतियोगिनौ हि द्वावेव धर्मों स्याताम् । एतद्वटमात्रनिष्ठो घटत्वादिर्वा एतच्छब्दमात्रनिष्ठः शब्दत्वादिर्वा । एतद्भटै तच्छन्दद्वयादन्येषां सर्वपदार्थानां व्यतिरिक्तपदेन सङ्गृहीतत्वात् । तत्र साध्यधर्मपक्षे एतद्भद्वैतच्छन्दव्यतिरिक्तनिष्ठात्यन्ताभावप्रतियोगी शब्दत्वादिरेक एवैतच्छन्दमात्रनिष्ठो विवक्ष्यते न त्वेतद्बटमात्रनिष्ठो घटत्वादिः । एतद्वद्वैतच्छब्दव्यतिरिक्तनिष्ठात्यन्ताभावप्रतियोगित्वेन रहितस्तु एतद्घटनिष्ठो घटत्वादिरेव । तत्प्रतियोगित्वरहिता यद्यपि स्तम्भत्वाकाशत्वादयोऽपि भवन्ति, तथापि ते पक्षिते घटे विरोधेन साधयितुं न शक्यन्ते । तस्माटत्वादिरेव तत्र साध्यः । स चानित्यनिष्ठात्यन्ताभावप्रतियोगी तदैव स्यात्, यदि शब्दोऽनित्यः स्यात् । एतद्वदैतच्छन्दद्वयान्यसर्वपदार्थनिष्ठात्यन्ताभावप्रतियोगित्वस्य आद्यविशेषणेन निषिद्धत्वात् । अवशिष्टस्य घटस्य शब्दस्यैव च सद्भावात्तत्र घटत्वं घटरूपानित्यनिष्ठात्यन्ताभावप्रतियोगीति व्याहतम् । तस्माच्छब्दरूपो यः अनित्यस्तन्निष्टो यः अत्यन्ताभावस्तत्प्रतियोगि घटत्वं, तस्याश्रयो घटः । तथा च शब्दानित्यत्वसिद्धिरिति । दृष्टान्तधर्मपक्षे त्वेतद्वैतच्छब्दव्यरिक्तनिष्ठात्यन्ताभावप्रतियोगि घटत्वम् | तत्त्वरहितास्तु शब्दत्वा काशत्वादयः । ते चैतदरूपो योऽनित्यस्तन्निष्ठात्यन्ताभावप्रतियोगिन एव । तेषामधिकरणं दृष्टान्तीभूताः शब्दाकाशादय इत्यर्थः । मेयत्वादिव्यावृत्त्यर्थमनित्यनिष्ठात्यन्ताभावप्रतियोगीत्युपात्तम् । स्तम्भाद्यनित्यनिष्ठात्यन्ताभावप्रतियोगिघटत्वेन सिद्धसाधनताव्यावृत्यर्थमेतच्छन्दव्यतिरिक्तनिष्ठात्यन्ताभावप्रतियोगित्वरहितग्रहणम् । अयं घटः एतच्छन्दव्यति - रिक्तनिष्ठात्यन्ताभावप्रतियोगित्वरहितानित्यनिष्ठात्यन्ताभावप्रतियोग्यधिकरणभित्येतावत्येव चोच्य - मानेऽप्रसिद्धविशेषणत्वम् । एवंविधस्य धर्मस्योभयसिद्धस्य शब्दानित्यत्वसिद्धेः प्राग् दृष्टान्तेऽनुपपद्यमानत्वादत उक्तमेतद्धटेति । इति व्यावृत्तिचिन्ता ॥ अथैतदनुमानस्यार्थं व्याचष्टे - एतद्भद्वैतच्छदेत्यादि । शब्दानित्यत्वसिद्धिप्रदर्शनाय द्वेधा विकल्पयति — तद्रहितचैतद्धटमात्र निष्ठात्यन्ताभा
1
योगी वेत्यादि । पक्षीकृतघटमात्रनिष्ठश्वासौ अत्यन्ताभावश्च तस्य प्रतियोगी । एतद्वटमात्रनिष्टान्धर्मान्विना शब्दस्तम्भात्मादिसर्वपदार्थसार्थनिष्ठः शब्दत्वस्तम्भत्वात्मत्वादिः सर्वोऽपि धर्मसमूहो ज्ञातव्यः । एतच्छन्दमात्रेत्यादि । एतच्छब्दमात्रनिष्ठश्वासौ अत्यन्ताभावश्च तस्य प्रति । एतच्छब्दमात्रनिष्ठान् शब्दत्वादिधर्मान् विना नित्यानित्यसर्वपदार्थधर्मो घटत्व पटत्वा काशत्वादिकः सर्वोऽपि ज्ञातव्यः । तत्राद्यस्य पक्षे व्याघातं ब्रूते - आद्य इत्यादि । आद्य एतद्बट मात्र निष्ठात्यन्ताभावप्रतियोगिरूपधर्मः पक्षे घटे व्याहतः । न हि शब्दत्वपटत्वाकाशत्वादिको धर्मों घटे साधयितुं शक्यते । घटस्य स्वरूपहानिप्रसङ्गादिति स्फुट: एव व्याघातः । द्वितीयस्य पक्षे सिद्धिमाह - द्वितीयस्येत्यादि । द्वितीयस्य एतच्छन्दमात्रनिष्ठात्यन्ताभावप्रतियोगिलक्षणस्य घटत्वादिधर्मस्य । अनित्यनिष्ठश्चासौ अत्यन्ताभावञ्च, तस्य प्रतियोगित्वं द्वितीयविशेषणविशिष्टत्वमित्यर्थः । एतच्छन्दानित्यत्वमनधिगम्येत्यादि । एतच्छब्दानित्यत्वं विना द्वितीयस्य धर्मस्य अनित्यनिष्ठा - त्यन्ताभावप्रतियोगित्वं न स्यात् । शब्दव्यतिरिक्तपदार्थात्यन्ताभावप्रतियोगित्वस्य आद्यविशेषणेन निरस्तत्वात् । तस्माच्छन्द एवानित्योऽङ्गीकार्यः । तथा च शब्दानित्यत्वसिद्धिरिति । एतासु महाविद्यासु अष्टादशमहाविद्या आद्यमहाविद्योतामेव कारिकामाश्रित्य नवनवभङ्गयतरेण प्रवृत्ताः । अपर
Aho! Shrutgyanam