________________
४८
आनन्दपूर्ण-भुवनसुन्दरसूरिकृतटीकायुतं २१ अयं घटः शब्देतरानित्यनिष्ठशब्देतरानित्यनिष्ठात्यन्ताभावप्रतियोगित्वरहितानित्यनिष्ठात्यन्ताभावप्रतियोग्यधिकरणं मेयत्वदिति । ये शब्देतरानित्यनिष्ठाः शब्देतरानित्यनिष्ठात्यन्ताभावप्रतियोगिनश्च तेषु शब्देतरानित्यनिष्ठत्वे सति शब्देतरानित्यनिष्ठात्यन्ताभावप्रतियोगित्वं धर्मः । तद्रहिहितश्चासौ अनित्यनिष्ठात्यन्ताभावप्रतियोगीच, तद्धिकरणं तदाश्रय इत्यर्थः। उभयत्र अनित्यनिष्ठश्चासौ अत्यन्ताभावश्चेति समासः। अनित्यनिष्ठात्यन्ता. भावप्रतियोग्यधिकरणमित्युक्ते स्तम्भाद्यनित्यनिष्ठात्यन्ताभावप्रतियोगिभिर्घटत्वादिभिरेतद्धटनिष्ठैः प्रकृतशब्दनित्यत्वेऽप्युपपद्यमानैरर्थान्तरता स्यात् । तन्निवृत्यर्थं शब्देतरानित्यनिष्ठशब्देतरानित्यनिष्ठात्यन्ताभावप्रतियोगित्वरहितग्रहणम् । शब्देतरानित्यनिष्ठशब्देतरानित्यनिष्ठात्यन्ताभावप्रतियोगित्वरहिताधिकरणमित्युक्ते मेयत्वादिभिरेतद्धटनिष्ठैः प्रकृतशब्दनित्यत्वेऽप्युपपद्यमानैरर्थान्तरता स्यात्। तन्निवृत्त्यर्थमनित्यनिष्ठात्यन्ताभावप्रतियोगिग्रहणम् ।
२१ (आनं०)-शब्देतरानित्यनिष्ठेति । शब्देतरानित्यनिष्ठश्वासावत्यन्ताभावश्च शब्देतरानित्यनिष्ठात्यन्ताभावः, तत्प्रतियोगित्वरहितः शब्देतरानित्यनिष्ठश्चासौ शब्देतरानित्यनिष्टात्यन्ताभावप्रतियोगित्वरहितश्च, स चायमनित्यनिष्ठात्यन्ताभावस्य प्रतियोगी, तस्याधिकरणमित्यर्थः । अधि करणमित्युक्ते वाच्यत्वेनार्थान्तरं वारयति-अत्यन्ताभावप्रतियोगीति । अत्यन्ताभावप्रतियोग्यधिकरणमित्युक्ते नित्यनिष्ठात्यन्ताभावस्य प्रतियोगिकार्यत्वेन अर्थान्तरमत उक्तम्-अनित्यनिष्ठात्यन्ताभावेति । अनित्यनिष्ठात्यन्ताभावप्रतियोग्यधिकरणमित्युक्ते स्तम्भनिष्ठात्यन्ताभावप्रतियोगिघटत्वेन अर्थान्तरमत उक्तम्-नित्यनिष्ठात्यन्ताभावप्रतियोगित्वरहितति । अनित्यनिष्ठात्यन्ताभावप्र. तियोगित्वरहितानित्यनिष्ठात्यन्ताभावप्रतियोग्यधिकरणमित्युक्ते व्याघातोऽत उक्तम्-शब्देतरेति । शब्देतरानित्यनिष्ठात्यन्ताभावप्रतियोगित्वरहितानित्यनिष्ठात्यन्ताभावप्रतियोग्यधिकरणमित्युक्ते व्यात्यसिद्धिः । नित्यमात्रनिष्ठानां शब्देतरानित्यनिष्ठात्यन्ताभावप्रतियोगित्वेन तद्रहितत्वाभावात्, अत उक्तम्-अनित्यनिष्ठेति । अनित्यनिष्ठत्वे सति यच्छन्देतरानित्यनिष्ठात्यन्ताभावप्रतियोगित्वं तन्नित्यमात्रनिष्ठं धर्मेषु नास्तीति साध्यसिद्धिः । नित्येष्वनित्येष्वपि स्तम्भत्वकुम्भादीनां स्वाश्रयनिष्ठात्यन्ताभावप्रतियोगित्वरहितत्वात्कार्यान्तरनिष्ठात्यन्ताभावप्रतियोगित्वात्साध्यसिद्धिः । अनित्यनिष्ठशब्देतरानित्यनिष्ठात्यन्ताभावप्रतियोगित्वरहितानित्यनिष्ठात्यन्ताभावप्रतियोग्यधिकरणमित्युक्तेऽपि प्रकारान्तरेण व्याप्तिभङ्गः । शब्दानित्यत्वसिद्धः पूर्व शब्दमात्रनिष्ठानामनित्यनिष्ठत्वासिद्धेः, शब्देतरानित्यनिष्ठात्यन्ताभावप्रतियोगित्वरहितत्वासिद्धेश्च । तत उक्तं शब्देतरानित्यनिष्ठेति। शब्दमात्रधर्मस्य शब्देतरानित्यनिष्ठत्वे सति यच्छब्देतरानित्यनिष्ठात्यन्ताभावप्रतियोगित्वं तन्नास्तीति साध्यानुगमः। घटे च शब्देतरानित्यनिष्ठशब्देतरानित्यनिष्ठात्यन्ताभावप्रतियोगित्वरहितः
१शब्दे तसिहनिष्ठा इति घ पुस्तक पाठः।
Aho ! Shrutgyanam