________________
महाविद्याविडम्बनम् ।
४९
सिध्यन्ननित्यनिष्ठत्वरहितो न सिध्यति । तेन शब्देतरा नित्यनिष्ठात्यन्ताभावप्रतियोगित्वरहितः सिभ्येत् । स चानित्यनिष्ठात्यन्ताभावप्रतियोगी सिध्यन्ननित्यत्वं शब्दस्य गमयति । शब्देतरा नित्यमात्रनिष्ठस्य तन्मात्रनिष्ठात्यन्ताभावप्रतियोगित्वादिति भावः । व्याचष्टे - ये शब्देतरेति । कृत्यमाह - अनित्यनिष्ठेति ।
२१ (भुवन० ) - अयं घटः शब्देतरानित्यनिष्ठेत्यादि । शब्दादितरे येऽनित्याः शब्देत - रानित्याः, शब्देत नित्येषु निष्ठा येषां ते शब्देतरा नित्यनिष्ठाः । शब्दादितरे येऽनित्यास्तनिष्ठचासौ अत्यन्ताभावश्च शब्देतरा नित्य निष्ठात्यन्ताभावः । तस्य प्रतियोगिनः शब्देतरानित्यनिष्ठात्यन्ताभावप्रतियोगिनः । शब्देतरा नित्यनिष्ठाश्च ते शब्देतरा नित्यनिष्ठात्यन्ताभावप्रतियोगिनश्च । एवंविधाश्च धर्मा एकैकानित्यनिष्ठाः परस्परं सर्वेऽपि पटत्वस्तम्भत्वादयो ज्ञेयाः । तेषां भावस्तत्त्वं । तेन रहिताः । शब्दत्वाकाशत्वादयः परस्परत्वविवक्षारहिता घटत्वादयोऽपि च । अनित्यनिष्ठात्यन्ताभावेति । अनित्यनिष्ठचासौ अत्यन्ताभावश्च तस्य प्रतियोगिनः अनित्यनिष्ठात्यन्ताभावप्रतियोगिनः । शब्दे - तरानित्यनिष्ठशब्देतरा नित्य निष्ठात्यन्ताभावप्रतियोगित्वरहितश्चासौ अनित्य निष्ठात्यन्ताभावप्रतियोगीच तस्याश्रयो घटइति विग्रहः । अत्र प्रथम विशेषणविचारणायामाकाशत्वशब्दत्वस्तम्भत्वमेयत्वादयः उपपद्यन्ते । तत्राकाशत्वादयो यद्यपि शब्देत नित्यनिष्ठात्यन्ताभावप्रतियोगित्वरहिता न सन्ति, तथापिशब्देत नित्यनिष्ठत्वे सति यच्छब्देतरा नित्यनिष्ठात्यन्ताभावप्रतियोगित्वं तत्त्वरहिता एवेति । ये च शब्दत्वादयस्तेऽपिच यद्यपि शब्देतरा नित्यनिष्ठात्यन्ताभावप्रतियोगित्वरहिता न सन्ति, तथापि शब्देत नित्यनिष्ठत्वे सति यच्छब्देतरा नित्यनित्यनिष्ठात्यन्ताभावप्रतियोगित्वं तत्त्वरहिता एव । ये च घटत्वस्तम्भत्वादयस्तेऽपि यद्यपि शब्देतरानित्यनिष्ठाः सन्ति, तथापि शब्देत नित्यनिष्ठत्वे सति यच्छब्दे तरा नित्यनिष्ठात्यन्ताभावप्रतियोगित्वं तत्त्वरहिता एव । मेयत्वादयोऽपि शब्देतरानित्यनिष्ठत्वे सति यच्छब्देतरानित्यनिष्ठात्यन्ताभावप्रतियोगित्वं तत्त्वरहिता एवेति । द्वितीयविशेषणस्यायमर्थः । अनित्यशब्दनिष्ठो योऽत्यन्ताभावस्तस्य प्रतियोगी पूर्वविशेषणविशिष्टश्च यो घटत्वादिधर्मस्तदाधारो घट इत्यर्थः । पूर्वविशेषणविशिष्टमपि घटत्वमनित्यनिष्ठात्यन्ताभावप्रतियोगि तदैव स्यात्, यदि शब्दोऽनित्यः स्यात् । गगनादीनां नित्यत्वेनोभयसंमतत्वात् । शब्देतरानित्यपटादिनिष्ठात्यन्ताभावप्रतियोगित्वे च घटत्वादिधर्मस्य शब्देतरानित्यनिष्ठत्वे सति शब्देतरा नित्यनिष्ठात्यन्ताभावप्रतियोगित्वेन तद्रहितत्वानुपपत्तेः, शब्दस्य चेतरशब्देन पृथक्कृतत्वात्पारिशेष्यादनित्यः शब्द एव स्यादिति भावः । आकाशत्वशब्दत्वादयो घटे व्याघातादेव साधयितुं न शक्यन्ते । प्रमेयत्वादीनां चात्यन्ताभावप्रतियोगित्वमेवाघटमानकं, तेषां सर्वपदार्थनिष्ठत्वात् । कुतस्तरामनित्य निष्ठात्यन्ताभावप्रतियोगित्वमिति । तस्मात्तेषां घटमध्ये साधने निषेधः प्रकट एव । अथाद्यविशेषणं परित्यज्य व्यावृत्तिचिन्तां करोति । अनित्यनिष्ठात्यन्ताभावेत्यादि । एवं च क्रियमाणे घटत्वादिभिः शब्दस्य नित्यत्वरूपार्थान्तरता स्यात् । तन्निवृत्यर्थे शब्दतरानित्येत्यादि । अयमाशयः । यद्यप्यनेन पूर्वविशेषणेनापि च घटत्वादय एवायान्ति, तथाप्युत्तरं विशेषणं यदि पूर्वविशेषणेन सह विचार्यते तदा शब्दस्यानित्यत्वमेव सिध्यति, न तु नित्यत्वम् । अथ द्वितीयविशेषणसाफल्यमाह — शब्देतरानित्यनिष्ठेत्यादि । एवमप्युक्ते मेयत्वादिभिः शब्दस्य नित्यत्वरूपार्थान्तरता तथैवेति तद्व्यवच्छेदाय अनित्यनिष्ठात्यन्ताभावेत्यादि । ७ महाविद्या०
पं० १
Aho! Shrutgyanam