________________
श्रीशिवराजविनिर्मितो
I
पञ्चाङ्ग शुद्धिरीरिता ॥ ११ ॥ यस्मिन्पञ्चाङ्गदोषोऽस्ति तस्मिनं निरर्थकम् त्यजेत्पश्चेष्टिकं वाऽपि विषसंयुक्तदुग्धवत् ॥ १२ ॥ पञ्चाङ्गापवादः -३ :- योगस्य हेम करणस्य च धान्यमिन्दोः शङ्खं च तण्डुलमणी तिथिवारयोश्च । ताराबलाय लवणं वसु गां च राशेर्दद्याद्विजाय कनकं शुचि नाडिकायाः ॥ १३ ॥ लग्नलग्नांशको स्वस्वपतिना वीक्षितौ युतौ । नचेद्वाऽन्योन्यपतिना शुभमित्रेण वा तथा || १४ || वरस्य मृत्युः स्यात्ताभ्यां सप्तसप्तोदयांशकौ । एवं तौ न युतौ मृत्युर्वध्वा कर ॥ १५ ॥ कश्यपः - त्रिप्रकारेण सा शुद्धिर्न चेलनं च निन्दितम् । अपि पञ्चेष्टकं लग्नमनेकगुणसंयुतम् ॥ १६॥ त्यजेद्यथा शुना घ्रातं. तथा हव्यं घृतप्लुतम् ॥ नारदः - त्याज्याः सूर्यस्य संक्रान्तेः पूर्वतः परतः सदा । विवाहादिषु कार्येषु नाड्यः षोडश षोडश ॥ १७ ॥ कश्यपः - यत्कृतं मङ्गलं तत्र नाशमायात्यसंशयम् || १८ || सापवादः षड्वर्गः षड्वर्गप्रकरणस्थो ज्ञेयः । नारद:- भृगुपष्टाइयो दोषो लग्नात्पष्टगते सिते । उच्चगे शुभसंयुक्ते तलनं सर्वदा त्यजेत् ॥ १९ ॥ कश्यपः- नीचगे तत्तुरीये वा शत्रुक्षेत्रगतेऽपि वा । भृगुषष्टादयो दोषो नास्ति तत्र न संशयः ॥ २० ॥ नारदः - कुजाष्टमो महादोषो लग्नादष्टमगे कुजे । शुभययुतं लग्नं त्यजेत्तत्तङ्गगे यदि ॥ २१ ॥ कश्यपः - अस्तगे नीचगे भौमे शत्रुक्षेत्रगतेऽपि वा । कुजाष्टमोद्भवो दोषो न किंचिदपि विद्यते ॥ २२ ॥ गण्डान्तविचारः -पूर्णानन्दाख्ययोस्तिथ्योः संधिर्नाडीद्वयं सदा । गण्डान्तं मृत्युदं जन्मयात्रोद्वाहत्रतादिषु ||२३|| कुलीरसिंहयोः कीटचापयोमनमेषयोः । गण्डान्तमन्तराले स्याद्घटिका मृतिप्रदम् ॥ २४ ॥ सार्पेन्द्र पौष्णभेष्वन्त्यषोडशांशाभसंधयः । तदग्रभेष्वाद्यपादा भानां गण्डान्तसंज्ञिताः ॥ २५ ॥ उग्रं च संधित्रितयं गण्डान्तत्रितयं महत् । मृत्युप्रदं जन्मयानविवाहस्थापनादिषु ॥२६॥ सूर्यसिद्धान्ते- सार्पेन्द्र पौष्णधिष्ण्यानामन्त्य पादाभसंधयः । तदग्रभेषु पादार्धं गण्डान्तं नाम कीर्त्यते ।। २७ ।। रत्नकोशे - आद्यः पितृमूलाश्विषु पौष्णेन्द्रभुजङ्गभेषु चान्त्यभवः । षोडशभागो नेष्टस्तावत्कालस्तु गण्डान्तः ॥ २८ ॥ मूलाश्विनीमघानां प्रथमांशे संस्थिता तु यमदंष्ट्रा । भुजगेन्द्र रेवतीनामन्त्ये सेवापरा घोरा ॥ २९ ॥ लल्लः- -अन्त्यः सार्धेन्द्र पौष्णानामाद्यः पित्राश्विमूलजः । जन्मोद्वाहप्रयाणेच मृत्यवेऽमी षडंशकाः ॥ ३० ॥ ज्योति: सागरे - अश्विनीपौष्णमूलादौ त्रिवेदनवनाडिकाः ३ । ४ । ९ । रेवतीशाक्रसार्पान्ति मासशक्रशिवास्त्यजेत् १२ । १४ । ११ ॥ ३१ ॥ राजमार्तण्ड: - - यामं यवनाधिपतिस्तदर्धभागं च मारिः प्राह । दण्डप्रमितं गण्डं पूर्व परतोऽङ्गिरामीशः ॥ ३२ ॥ मूले
७०
---
Aho ! Shrutgyanam