________________
ज्योतिर्निबन्धः ।
७१
मधाश्विचरणे प्रथमे च नूनं पौष्णेन्द्रयोश्च फणिनश्चरणे चतुर्थे । मातुः पितुः स्ववपुषोऽपि करोति नाशं जातो यदा निशि दिनेऽप्यथ संध्ययोश्च ॥ ३३ ॥ रत्नमालायां -- पौष्णाश्विन्योः सार्वपित्राख्ययोश्च यच्च ज्येष्ठामूलयोरन्तरालम् । गण्डान्तं स्याच्चतुर्नाडिकं हि यात्राजन्मोद्वाहकालेष्वनिष्टम् ||३४|| ज्योतिर्विवरणेइह सर्वत्र कालादेरपकर्षो य ईरितः । स एव दोषाधिकताकथनार्थस्तु केवलम् ॥ ३५ ॥ गर्गः -- मघायाः प्रथमे पादे मूलस्य प्रथमे तथा । रेवत्याश्च चतुर्थेऽशे विवाहः प्राणनाशनः || ३६ || भिन्नवाक्यव्यवस्थावचनं ज्योतिः सागरे - कथयति वराहमिहिरो विलोक्य वाक्यानि गण्डविषये च । गण्डं दण्डप्रमितं पूर्व पश्चात्तयोर्मध्यात् ॥ ३७ ॥
अथ गण्डान्तापवादः ।
च्यवनः - तिथ्यादीनां संधिदोषं तथा गण्डान्तसंज्ञितम् । हन्ति लाभगतश्चन्द्रः केन्द्रगा वा शुभग्रहाः ॥ १ ॥
इति गण्डान्तापवादः ।
अथ कर्तरीविचारः ।
ज्योतिः सागरे-पापमध्यगते चन्द्रे पापसंपर्कगेऽपि वा । शुभकर्म न कर्तव्यं तथा लग्ने कदाचन ॥ १ ॥ भवति यदा तुहिनांशुः क्रूरद्वयमध्यगो विलग्ने वा । यात्रादीनि तदानीं नोपदिशेदिष्टकर्माणि ॥ २ ॥ भास्करव्यवहारे – क्रूरयोः सौम्ययोर्वाऽन्तर्लनं वा यदि वा शशी । विवाहे कर्तरी ज्ञेया शुभकूरान्तरे तथा ॥ ३ ॥ फलप्रदीपे -- क्रूरयोः कर्तरी नेष्टा महाविघ्नप्रदा ध्रुवम् । सौम्ययोर्नातिदुष्टा स्यान्मध्यमा पापसौम्ययोः ॥ ४ ॥ ललः -- क्रूर योरितरयोश्च कर्तरी नो शुभा तनुशशाङ्कयोर्न तत् । लग्नमाह शुभयोश्च कर्तरी पापयोश्च शुभमध्यवर्तिनी ॥ ५ ॥ नारदः- लग्नाभिमुखयोः पापग्रहयोऋजुवक्रयोः । सा कर्तरीति विज्ञेया दंपत्योर्मलकर्तरी ||६|| कर्तरीदोपदुष्टं यद्धनं तत्परिवर्जयेत् । अपि सौम्यग्रहैर्युक्तं गुणैः सर्वैः समन्वितम् ॥ ७ ॥
अथ कर्तर्यपवादः ।
विधौ धनोपमे शुभग्रहेऽथ चान्त्यगे गुरौ । न कर्तरी भवत्यो जगाद बादरायणः ॥ १ ॥ क्रूरद्वयस्यान्तरगं विलनं मृतिमदं चन्द्रमसं च रोगदम् । शुभै स्थैरथ वाऽन्त्य गुरौ न कर्तरी स्यादिह भार्गवा विदुः || २ || बृहस्पतिः - लग्नद्विरिप्फगौ क्रूरौ त्रयमेतत्समागम् । तदा कर्तरिजो दोषो
Aho! Shrutgyanam