SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ ६४ श्रीशिवराजविनिर्मितोदितं किल बलाबलमुद्गमेन्दोः । चन्द्रात्तनुर्बलवतीति हि शास्त्रतत्त्वं प्रायोऽभिधेयमधिगम्य मतं बहूनाम् ॥ १४ ॥ पश्चादिभिः सत्फलदेविलग्नं पुष्टं भवेन्मध्यफलं चतुर्भिः । द्वाभ्यां त्रिभिर्वाऽप्यथ हीनमेव न कापि देयं विदुपा कदाचित् ॥१५॥ कश्यपः-- पञ्चभिरिष्टैरिष्टं पुष्टमनिष्टैरनिष्टमादेश्यम् । स्थानादिवलसमृद्धश्चतुर्मिरपि पठ्यते यवनैः ॥ १६ ॥ दैवज्ञवल्लभे—संपूर्णफलदं चाऽऽदौ मध्ये मध्यफलप्रदम् । अन्ते तुच्छफलं लग्नं यदि वर्गोत्तमं न चेत ॥ १७ ॥ संहिताप्रदीपेअन्त्ये स्मृतं तुच्छफलं विलग्नं न चेत्षडादिग्रहवीर्ययुक्तम् । वर्गोत्तमांशोपगतं गुणैर्वा प्रोटैस्तदा पुष्टफलप्रदं स्यात् ॥१८॥ असत्फलस्थानगतो ग्रहः स्याच्छुभप्रदः सौन्यसितेज्यमित्रैः । बलान्वितो दुष्टयुतो न पापैर्गत्यन्तराभाव इदं विचिन्त्यम् ॥ १९ ॥ बादरायणः-निषिद्धभवनस्थोऽपि लग्नात्पादो न दोषकृत् । वुधभागवजीवैस्तु दृष्टः केन्द्रत्रिकोणगैः ॥ २० ॥ गर्गः-उच्चस्वगेहमित्रस्था उदिताः फलदा ग्रहाः । अस्तंगताश्च नीचारिराशिस्था विफलाः स्मृताः ॥२१॥ शौनकः-नीचस्था ग्रहविजिताः शिख्यभिभूता विरश्मयो ह्रस्वाः । भुजगा इव मन्त्रहता न स्युः कार्यक्षमा लग्ने ॥ २२ ॥ माठरः-लग्ने चन्द्रबलं बीजं फलपाककरा ग्रहाः । बीजे पुष्टे फलाप्तिः स्यात्तस्माद्धीजमिहेष्यते ॥ २३ ।। लल्ल:सौन्यभावगतो मृदुता क्रूरोपि याति संयोगात् । न हि चन्द्रकराश्लिष्टात्सूर्यमणेः संभवति वह्निः ॥ २४ ॥ क्रूरांशगतः सौम्यो न शुभं दातुं क्षमः प्रयुक्तोऽ पि । न तु चन्द्रकान्तस्तावत्सूर्यकरालिङ्गितः स्रवति ॥२५॥ न सकलगुणसंपल्लभ्यतेऽल्परहोभिर्वहुतरगुणयुक्तं योजयेन्मङ्गलेषु । प्रभवति न हि दोषो भूरिभावे गुणानां सलिलमिव हि वह्नौ संप्रदीप्लेन्धनस्य ॥ २६ ॥ गुणशतमपि दोषः कश्चिदेकोऽपि वृद्धः क्षपयति यदि नान्यस्तद्विरोधी गुणोऽस्ति । घटमिव परिपूर्ण पञ्चगव्यस्य शक्त्या मलिनयति सुराया विन्दुरेकोऽपि सर्वम् ॥ २७ ॥ श्रीपतिः- उच्चादिस्थोऽपि नो हन्ति फलं भावकृतं ग्रहः । अनिष्टं कुरुते पापी नीचादिस्थस्त्वशोभनम् ॥ २८ ॥ गर्ग:-योकभावगौ तुल्यशुभाशुभफलौ ग्रहौ । स्यात्तदा निष्फलो भावो यो बली स फलप्रदः ॥ २९ ॥ सप्तर्षिमते-- तोयालयादिभिक्षा यथा भूरिफलमदाः । तथा स्थानादिवीर्याढ्या लग्ने कार्यक्षमा ग्रहाः ॥ ३० ॥ लल्ल:---फलं वारस्य संपूर्ण स्वहोरायां जगुव॒धाः । तथा लग्नफलं चांशे संपूर्ण मिश्रमन्यथा ॥ ३१॥ माण्डव्यः--लग्नं सर्वगुणोपेतं दिनरल्न लभ्यते । ततो गुणाधिक देयं दोपाल्पं बहु संमतम् ।। ३२ ॥ इति चन्द्रलग्नयोबलनिर्णयः । Aho ! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy