________________
ज्योतिर्निबन्धः ।
अथ चन्द्रबलप्रशंसा |
शार्ङ्गविवाहपटले- लग्नं देहोऽङ्गानि पड़र्गकाच प्राणश्चन्द्रो धातवः खेचरेन्द्राः । प्राणे नष्टे देहधात्वङ्गनाशस्तस्मात्सर्वत्रेन्दुवीर्य प्रधानम् ॥ १ ॥ संहिताप्रदीपे - आदौ हि चन्द्रस्य बलं विचिन्त्यं लग्नस्य पश्चादथ सप्तवर्गः । किं चन्द्रवीर्येण विनेतराणि कुर्वन्ति सत्यायुषि लक्षणानि ॥ २ ॥ श्रीपतिः- आधारमिन्दोर्बलमुक्तमार्यैराधेयमन्यद्द्महजं च वीर्यम् । आधारशक्तौ परिनिष्ठितायामाधेयवस्तूनि हि वीर्यवन्ति ||३|| अमृतकिरणवीर्याद्वीर्यमाश्रित्य सर्वे विदधति फलमेते खेचराः साध्वसाधु । निजनिजविषयेषु व्याप्रियन्ते यथाऽमी फलमिह मनसैवा1 धिष्ठितानीन्द्रियाणि ॥ ४ ॥
इति चन्द्रबलप्रशंसा |
६३
अथ चन्द्रलग्नयोर्बलनिर्णयः ।
इत्थं विवादे विदुषां बहूनां परस्परं भिन्नमतं वचोभिः । प्राधान्यमस्येति न वक्तुमेति शास्त्राणि विज्ञाय पुरातनानि ॥ १ ॥ संहिताप्रदीपे - प्रायेण सर्वत्र विलोकयन्ति चान्द्रं बलं गोचरतो विशुद्धम् । लोकेषु यच्चन्द्रबलं प्रधानं शास्त्रेषु मुख्यं खलु लग्नमेव ॥ २ ॥ यत्रोदितं लग्नबलं प्रधानं विलोक्यमिन्दोरपि तत्र वीर्ये । दुष्टं फलं स्यादुभयोरभावे लग्नाब्जयोरन्यतमस्य मध्यम् ||३|| अत्राऽऽह् माण्डव्यमुनिर्विशेषं प्रायेण चन्द्रस्य वलं विलोक्यम् । समुत्सुके कर्मणि लग्नवीर्य तात्कालिकादप्यनयोरभावे ॥ ४ ॥ यदुक्तं कैश्चिदाचार्यैः प्राधान्यं शीतगोर्बले । लग्ने न सदसद्यस्मान्नैतद्गर्गादिसंमतम् ॥ ५ ॥ गर्गः - कल्पादावसृजत्स्रष्टा भचक्रं ग्रहसंयुतम् । मूर्तिमत्संनिबद्धं तद्राशिचक्रे त्वमूर्तके ॥ जातकतिलके - - अमूर्तिराशिचक्रस्य स्थिरत्वं युज्यते पुनः । ज्योतिश्चक्रस्य मूर्तस्य स्थिरत्वे नैव कारणम् ॥ ७ ॥ सोमसिद्धान्ते - नित्योऽमूर्तो ह्यनाद्यन्तः कालो द्वादशधा भवेत् । स्वयं स्वाङ्गविभागेन राशयस्तेऽत्र कल्पिताः || ८ || ज्योतिर्विवरणे - अनित्यं मूर्तिमत्सर्वममूर्त नित्यमुच्यते । तस्मादल्पफलं मूर्त परं भूरिफलप्रदम् ॥ ९ ॥ अमूर्तमूर्तयोः कास्ति साम्यं नित्यादिभेदतः । तस्माल्लने प्रधानत्वं त्रिस्कन्धज्ञैः किल स्मृतम् ॥ १० ॥ पितामहः – ज्योतिःशास्त्रफलं सर्व लग्नाधीनं बुधैः स्मृतम् । स्फुटखेटाश्रयं तत्तु तस्मात्प्राधान्यमेतयोः ॥ ११ ॥ प्रधानं चिन्तयेपूर्व ततोऽङ्गं च तयोर्यदि । मुख्याभावेऽङ्गनाशः स्यात्सर्वत्रैवं विनिश्वयः ॥१२॥ ज्योतिर्विवरणे--चन्द्रः प्राण इति प्रोक्तं यद्वच्च फलनिर्णयः । तल्लग्नवीर्यमीमांसाविषयं न तु गोचरम् || १३|| संहिताप्रदीपे - इत्थं पुराणमुनिनिर्मित संहितार्थान्बुध्द्धो
-
Aho ! Shrutgyanam