________________
श्री शिवराजविनिर्मितो
लग्नवीर्यक्षयादेव तिथ्यादेः सदसत्फलम् ॥ १९ ॥ मन्त्रौषधवशाद्यद्वद्भक्षितं जीर्यते विषम् । तद्वद्ग्रहबलेनैव जीर्यते दोपसंचयः ॥ २० ॥ ज्योतिष्प्रकाशे– न लिप्यते यथाऽम्भोभिस्तत्रस्थं पद्मिनीदलम् । तथा तिथ्यादिजैर्दोषैर्लग्नं खेटबलान्वितम् ॥ २१ ॥ संहिताप्रदीपे - - नक्षत्रलग्नतिथयः प्रथमार्धवीर्या वारश्व योगसहितो बलवानशेषः । ऋक्षं दिवा निशि तिथिर्विवलत्वमेति तिथ्यर्धमंत्र तिथिवत्परिचिन्तनीयम् ॥ २२ ॥ वृद्धगर्गः - तिथिरेकगुणः प्रोक्तो बलेन द्विगुणः क्षणः । चतुर्गुणं तु नक्षत्रं वारश्राष्टगुणः स्मृतः || २३ || चन्द्रः शतगुणो लग्नं सहस्रगुणमुच्यते । लग्नाद्धोरादयो भेदा बलिनः स्युर्यथोत्तरम् ॥ २४ ॥ राजमार्तण्ड : - तिथिरेकगुणा प्रोक्ता नक्षत्रं च चतुर्गुणम् । वारश्वाष्टगुणश्चैव चन्द्रः शतगुणः स्मृतः || २५ || लग्नं कोटिगुणं विद्याद्ग्रहवीर्यसमन्वितम् । तस्मात्सर्वेषु कार्येषु लग्नवीर्यं विलोकयेत् ॥ २६ ॥ ज्योतिः सागरे - लग्नं पुष्पसमं ज्ञेयमंशः फलसमस्तथा । नष्टे पुष्पे फलं नास्ति तस्माल्लग्ने प्रधानता || २७ ॥ तिथ्या - दिकानामिति तारतम्यं शास्त्रार्थतत्त्वं मुनिभिः प्रदिष्टम् । तथैव लोकव्यवहारदृष्टं मतं बहूनामपि चिन्तनीयम् ॥ २८ ॥
इति तिथ्यादीनां बलविचारः ।
६२
अथ लग्नबलप्रशंसा ।
संहिताप्रदीपे - प्रायेण कार्याणि करोति लोको बलेन चन्द्रस्य तथोदयस्य । चन्द्रस्य कीदृक्कियतां ग्रहाणां लग्ने वलं चेति तदुक्तिरेषा ॥ १ ॥ प्राधान्यमत्रो - दयशीतभान्वोः स्थितं द्वयोरेव जगत्प्रसिद्धम् । तत्रापि केचिद्वलवद्विलग्नं व्याचक्षते शैतकरं तथाऽन्ये ॥ २ ॥ यदा विलग्नं गुणवर्जितं स्यात्तदा बलीयानपि किं मृगाङ्कः । यतो नितान्तं गुणवानपीह दैवेन हीनः पुरुषो न किंचित् ॥३॥ दोषैर्महद्भिर्निहतं विलग्नं निहन्ति वीर्यं शिशिरत्विषोऽपि । चित्तं हि दुःखोपहतं नराणां शरीरमानोति सुखं न किंचित् ॥ ४ ॥ बलेन लग्नस्य बली शशाङ्को बलेन हीने सति दुर्बलः स्यात् । यतो हृषीकं मनसा समेतमर्थ न गृह्णाति न तेन हीनम् ॥ ५ ॥ यो लग्नदोषोपहतो मुहूर्तस्तत्रेन्दुवीर्यादि कथं विचिन्त्यम् । विषाम्बुसिद्धस्य किमोदनस्य शुद्धं भवत्येकमपीह सिक्थम् ॥ ६ ॥
इति लग्नबलप्रशंसा |
Aho! Shrutgyanam