________________
ज्योतिर्निबन्धः ।
अथ तिथ्यादीनां बलविचारः ।
संहितापदीपे - शास्त्रार्थतत्त्वं प्रविचार्य पूर्व सांवत्सराणां धुरमुद्दिधीर्षुः । समादिशन्सत्सु महत्त्वमेति लोके न विद्यालवलिप्तचिह्नेः ॥ १ ॥ लगं तिथिव्योमचरः शशाङ्कने नक्षत्रयोगौ करणं तथैव । एतानि लोकव्यवहारसिद्ध शास्त्रार्थशोध्यानि पदानि सप्त || २ || लग्नेन्दुतिभ्युद्गमतारकाणां दोषा गुणाश्रभिहिता बुधैर्ये । विचार्य तेषां लघुतां गुरुत्वं विनिर्णयं शास्त्रपदानि (नि ) धास्ये || ३ || तिथिः शरीरं मन इन्दुवीर्यं विलग्नमात्माऽवयवास्तु भाद्याः । शुद्धे शरीरे त्वपरेऽविचिन्त्यं न क्वापि कुडयेन विनाऽपि चित्रम् ॥ ४ ॥ सर्वत्र कार्येषु शुभाशुभेषु पृच्छन्ति लोकास्तिथिमेव पूर्वम् । न कापि योगं करणं ग्रह वा तस्मात्तिथेर्मुख्यतरत्वमिष्टम् || ५ || ज्योतिर्विवरणे - तिथेः प्रशंसा या प्रोक्ता सदैव पितृकर्मणि । ज्ञेया बुधैस्तथोद्वाहमयाणादिषु चाल्पता ।। ६ ।। वारर्क्षच - न्द्रोदयशुद्धिलाभे तिथिः सदोषोऽपि भवेददोषः । सौन्दर्यकान्त्यादिगुणैः सरोजं सकण्टकत्वेऽपि यतो गुणाढ्यम् ॥ ७ ॥ विशुद्धमृक्षं सबलं च लग्नं यथा प्रयत्नेन विलोकयन्ति । तथा न योगं करणं तिथिं वा दोषो गुणो वाऽपि तिथेर्यतोऽल्पः || ८ || इत्थं विरोधे वचसां मिथस्तु किं तु प्रमाणं कतरन्मृषेति । नाऽऽयाति वक्तुं मुनिभाषितत्वात्प्रामाण्यमेषां विषयावदोधात् ॥ ९ ॥ गुणस्य दोषस्य च तारतम्यं विचारणीयं विदुषा प्रयत्नात् । कश्चिद्गुणो दोषशतं निहन्ति दोषो गुणानामपि हन्ति लक्षम् ॥ १० ॥ पूर्वापराभ्यां सहितस्तिथिभ्य निहन्ति दर्शो निचयं गुणानाम् । तमेव हित्वाऽमृतसिद्धियोगस्तिथेरशेषानपि हन्ति दोषान् ॥ ११ ॥ स्यातामुभौ दोषगुणौ महान्तौ यदा तदा हीनतरो गुणः स्यात् । पुण्ये कृते पातकिताऽधिकेऽपि नापैति पापं हि जनापवादः ॥ १२ ॥ ज्योति:सागरे - लग्नं जीवो मनश्चन्द्रः शरीरं च तिथिस्ततः । जीवे पुष्टे फलं पुष्टं नष्टे नष्टं विदुर्बुधाः ॥ १३ ॥ गर्गः - लग्नं केनापि दोषेण दूषितं चेत्तदा गुणाः । सर्वे दुष्टाः स्युरात्मानं विना यद्वत्कलेवरम् ॥ १४ ॥ संहिताप्रदीपे - केनापि दोषेण तनौ प्रदुष्टे दुष्यन्ति तिथ्यब्जवलर्क्षवाराः । सौवर्णकान्त्यादिगुणो मुखस्य नासाविहीनस्य भवत्यसारः ॥ १५ ॥ लल:- न तिथिं न च नक्षत्रं न योगं नैन्दवं बलम् | लग्नमेकं प्रशंसन्ति गर्गनारदकश्यपाः ॥ १६ ॥ ज्योतिर्विवरणेलग्नaff विना यत्र यत्कर्म क्रियते बुधैः । तत्फलं विलयं याति ग्रीष्मे कुसरितो यथा ॥ १७ ॥ शुष्कमा दहत्येधो महादीप्तो यथाऽनलः । तिथ्यादीनां फलं तद्बल्लग्नदोषो विनिर्दहेत् । यथा निर्वाणतां याति दीपः स्नेहक्षयात्तथा ।
Aho! Shrutgyanam
६१