________________
६०
श्री शिवराजविनिर्मिती
est मन्दः षष्ठे शुक्रेन्दुलग्नपाः । रन्ध्रेऽब्जात्पञ्च पापास्ते विवाहे पापकर्तरी ॥ ४६ ॥ चन्द्रनेत्रयुगसप्तदितथा सूर्यपटुवसुनन्दरुद्रकाः । रामवाणमितभानि जन्मभाद्धातलग्नमिति संत्यजेद्बुधः ॥ ४७ ॥
इति लग्नबलप्रकरणम् ।
अथ षड्वर्गप्रकरणम् ।
ज्योतिष्प्रकाशे गृहं होरा च दृकाणी नवांशो द्वादशांशकः । त्रिंशांशश्चेति षडुर्गः स सौम्यग्रहणः शुभः ॥ १ ॥ भौमः शुक्रो बुधः सोमो रविः सौम्यो भृगुः कुजः । गुरुर्मन्दः शनिर्जीवो मेषादीनामधीश्वराः || २ || भास्करः- होरेशे विषमेऽर्केन्द्रोः समभे चन्द्रसूर्ययोः । स्वपञ्चनवमेशाः स्युर्हकाणा भवने त्रयः ॥३॥ सिंहाजधन्विनोऽजायाः कर्काद्याः कलिर्झपः । तुलायास्तौलियुवकुन्भा मृगाया मृगगोवलाः ॥ ४ ॥ भागास्त्रमा दशहृता लब्धा थुक्तनवांशकाः । द्विभैः पञ्चहृतैर्भागैः स्वस्थानाद्द्वादशांशकाः ॥ ५ ॥ भागाः पञ्चविभावक्षास्त्रिंशांशा विषमे गृहे । कुजाकयज्ञशुक्राणां व्यस्तास्ते समभे तथा ॥ ६ ॥ व्यासः - पड्वर्ग पञ्चवर्गे च चतुर्वर्ग शुभावहम् । त्रिवर्ग वाऽपि सद्योगे व्येकवर्ग तनुं त्यजेत् ॥ ७ ॥
इति षड्वर्गशुद्धिः ।
अथानिष्टवर्गापवादः ।
वसिष्ठः -- इष्टश्च वेदाहिबलोपपनैश्चतुर्भिरप्यभ्वर गैर्वि लग्नम् | अनिष्टषड्वर्गमपीमाहुः स्वेरीक्षितं गौतमगालवाद्याः || १ || माण्डव्य:- - पड्वर्गं पञ्चवर्गे च चतुवर्ग शुभावहम् | लग्नं नन्द्यादियोगेषु त्रिवर्गमपि शस्यते ॥ २ ॥ शुभवर्गैः शुभं लग्नं नेतरैश्चापि तत्र तु । स्वमित्रजः शुभः प्रोक्तो वर्गः शत्रुभवो न सन् ॥ ३ ॥ ज्योतिष्प्रकाशे - जातिशक्राम्बुदव्यालत्यष्टिजिनभानवः । घनेन्द्रोत्कृत्तिनागांशा मेषादेः कार्यकारकाः ॥ ४ ॥ अत्यष्टिर्मनवचैव जिनाथ मुनयस्तथा । मेषसिंहाश्वपूर्वाणां पुष्फलांशाः प्रकीर्तिताः ॥ ५ ॥
Į
इत्यनिष्टवर्गापवादः ।
१. 'टपोमन्दात् । २ व. नैश्वराः । ३ व. भुक्तान । ४ व वैश्विमाक्षा ॥ ५. घ. 'हुः स्वैशेक्षि' । ६ घ 'त्यष्टजि । ७ ख सिंहाश्वषु । घ. सिंहवपु
Aho! Shrutgyanam