SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ ५८ श्रीशिवराजविनिर्मितो - लग्ने साधयेत् ॥ १ ॥ वृोदये विवाहथ ध्रुवं वेश्मप्रवेशनम् । कुमारीवरणं दानं क्षेत्रारम्भादि चेष्यते ॥ २ ॥ कलाविज्ञानसंबन्धं वृषलग्नोदितं च यत् । विभूषणादिकं कर्म कर्तव्यं मिथुनोदये || ३ || वापीकूपतडागादिवारिबन्धनमोक्षणे । पौष्टिकं कर्म यत्किंचित्सर्व सिध्यति कर्किणि ॥ ४ ॥ वणिक्पथाद्यं पण्यं च कर्षणं नृपसेवनम् | परयोगथ मेषोक्तं तच्च कण्ठीरवे हितम् ॥ ५ ॥ औषधं शिल्पविज्ञानं भूषणादि चरं स्थिरम् । कर्तव्याः पौष्टिकारम्भाः कन्यालग्ने प्रसिद्धये || ६ || कृषिकर्म वणिक्सेवा यात्राकर्म तुलोदये | प्रसिध्यन्ति हि सर्वाणि तुलाभाण्डाश्रितानि च ॥ ७ ॥ साहसं दारुणोयं च राजसेवाभिषेचनम् । चौर्यकर्म स्थिरारम्भाः कर्तव्या वृश्चिकोदये ॥ ८ ॥ प्रस्थानपौष्टिकोद्वाहाः सवाहनपरिग्रहाः । चापलग्ने प्रसिद्धाः स्युश्चरकर्मप्रसिद्धये ॥ ९ ॥ क्षेत्राश्रयाण्य यात्रा बन्धमोक्षौ च वारिणाम् । दासीचतुष्पदोष्ट्रादि कर्तव्यं मकरोदये ॥ १० ॥ नौचौर्योदकयानं च कर्म ध्रुवचरं तथा । वीजसंग्रहणोप्ती च कर्तव्यं कलशोदये ।। ११ ।। विद्यालंकारशिल्पादि कृष्यम्बुपशुकर्म च । यात्रोद्वाहाभिषेकाद्यं कार्यं मनोद बुधैः ॥ १२ ॥ नारद:- मेषादिषु विलग्नेषु शुद्धेष्वेतत्मसिध्यति । क्रूरग्रहेक्षित संयुक्तेषूग्रमेव हि ॥ १३ ॥ गोयुग्मकर्किकन्यान्त्यतुलाचापधराः शुभाः । शुभग्रहास्पदत्वात्सप्तेतराः पापराशयः || १४ || सौम्योग्रतैषां राशीनां प्रकृत्या न भवत्यसौ । योगेन सौम्यपापैश्च खेचरैवक्षितेन वा ॥ १५ ॥ सौम्याश्रितत्वात्क्रूरोऽपि स राशिः शोभनः स्मृतः । सौभ्योऽपि राशिः क्रूरः स्यात्क्रूरग्रहतो यदि ॥ १६ ॥ ग्रहयोगावलोकाभ्यां राशिर्धत्ते ग्रहोद्भवम् । फलं ताभ्यां विहीनोऽसौ स्वभावमुपसर्पति ॥ १७ ॥ आदी संपूर्णफलदं मध्ये मध्यफलप्रदम् । अन्त्ये तुच्छफलं लग्नं सर्वस्मिन्नेवमेव हि ॥ १८ ॥ दैवज्ञवल्लभे--लग्ने शुभेsपि यशः क्रूरः स्यानेष्टसिद्धिदः । लग्ने क्रूरेऽपि सौम्योऽशः शुभदोंऽशो वली यतः ॥ १९ ॥ स चन्द्रराशेरशुभो नवांशः प्रोक्तः स पापस्य च लग्नसंस्थः । केन्द्रत्रिकोणेषु गुरुः सितो वा भवेत्तदाऽसावंशुभोऽपि शस्तः || २० || विवाहपटले---सचन्द्रसक्रूरनवांशकं यलनं हरत्यायुरिति ब्रुवन्ति । धीधर्मकेन्द्रो भृगुजोsraज्यो लग्नं तदेवाऽऽयुरतीव धत्ते ॥ २१ ॥ ज्योतिष्प्रकाशे - प्रोच्यते लग्नसंस्थोऽसौ ग्रहो य उदितांशगः । द्वितीयोऽनुदितांशस्थः सर्वराशिष्वयं क्रमः ॥ २२ ॥ पटलसारे – लग्नांशतुल्या विज्ञेया भावा द्वादश ते पुनः । तिथ्यंशेन युतास्तेषु प्राक्पराः सन्धयः क्रमात् || २३ || विश्वेश्वरः - गतैष्यभावफलदः संधेरूनाधिको ग्रहः । भावतुल्यं फलं पूर्ण धत्तेऽन्यत्रानुपाततः ।। २४ ।। भाव - Aho! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy