________________
५६
श्रीशिवराजविनिर्मितोसर्पिः । कास्यं दन्तः कुञ्जरस्याथ मेपो रौप्यं सर्व पुप्पजात्यादिकं च ॥२७॥ अश्वः सुवर्ण शुभपीतवस्त्रं सपीतधान्यं लवणं सुपुष्पम् । सशर्करं तद्रजनीप्रयुक्तं दुष्टाय शान्त्यै गुरवे प्रणीतम् ॥ २८ ॥ चित्रवस्त्रमपि दानवार्चिते दुष्टगे मुनिवरैः परिणीतम् । तण्डुला घृतसुवर्णरूप्यकं वनक परिमला शवला गौः॥२९॥ नीलकं महिषी वस्त्रं कृष्णं लोहं सदक्षिणम् । तैलमापकुलित्थाश्च शनेष्टियप्रशान्तये ॥ ३० ॥ राहोर्दानं बुधैर्मेपो गोमेदो लोहकम्बलौ । सौवर्ण नागरूपं च सतिलं ताभ्रभाजनम् ॥ ३१ ॥ केतौ वैडूर्यकं शस्त्रं तैलं मृगमदं तथा । ऊर्णा तिलैश्च संयुक्तां दद्यात्क्लेशापनुत्तये ॥ ३२ ॥ नवग्रहहोमस्तु स्वशाखोक्तो ग्राह्यः।
इति गोचरापवादः।
अथानिष्ट चन्दापवादः । गर्गः-अनिष्टस्थानसंस्थोऽपि गोचरे शुभदः शशी । सौम्यक्षगोऽधिमित्रेण गुरुणा च विलोकितः ॥ १ ॥ वैद्यनाथ:-निपिद्धस्थानसंस्थोऽपि शुभमित्रगृहांशके । स्थितोऽधिमित्रसंदृष्टश्चन्द्रमाः शुभदः स्मृतः ॥ २ ॥ ज्योतिःसागरेअनिष्टस्थानगोऽपीन्दुर्लग्नाद्राशेश्च शोमनः । भवेत्सौम्यांशगः स्वामिमित्रेण वलिनेक्षितः ॥ ३ ॥ स्वोच्चेऽथवा स्वभवने स्फुटरश्मिजालः सौन्यालये हितगृहे शुभवर्गयोगे । जामित्रवेधयुतिपूर्वकदोपरााशं हित्वा ददाति बहुशः सुखमेव चन्द्रः॥ ४ ॥ प्राप्तोदयः प्राप्तवलैश्च सौम्यैर्विलोकितो वा शुभराशिसंस्थः। निहन्त्यनिष्टं सकलं स्वकीयं फलं विधत्ते शुभमेव चन्द्रः ॥ ५ ॥ ज्योतिप्रकाशे-यात्रादावशुभे चन्द्रे यदि पक्षवलं भवेत् । तदा फलं शुभं कर्यात्तथा लग्नाच्छुभेक्षितः॥६॥ वैद्यनाथ:-ऋक्षं दग्धं तिथिं रिक्ता चन्द्रमष्टमगं तथा । तत्सर्वं नाशयेत्तारा षट्चतुर्नवमी ध्रुवम्।।७॥वसिष्ठः- उशीरं च शिरीपं च चन्दनं पद्मकं तथा । शखे न्यस्तमिदं स्नानं चन्द्रदोषनिवारणम् ॥ ८ ॥ दानखण्डेशुक्लाक्षतैः पूरयित्वा पात्रं वेणुमयं शुभम् । तस्योपरि पयःपूर्ण कांस्यपात्रं समौक्तिकम् ॥ ९॥ सरौप्यं शुक्लगन्धाद्यैर्वस्त्रयुग्मेण संयुतम् । दद्याज्ज्योतिर्विदे तच्च चन्द्रारिष्टप्रशान्तये ॥१०॥ गदिता दक्षिणा तत्र शङ्वो मौक्तिकगर्भितः । घृतदीपश्चतुर्वत्तिः कुम्भो वा पयसान्वितः ॥ ११ घतकुम्भः सितं वस्त्रं सितो वा वृषभस्ततः । सुवर्ण रजतं वाऽपि चन्द्रारिष्टप्रशान्तये ॥ १२ ॥
इत्यनिष्टचन्द्रापवादः ।
Aho! Shrutgyanam