________________
५३
ज्योतिर्निवन्धः। न्तरं कार्यवशागतोऽपि तद्देशधर्म न जहाति मर्त्यः ॥ ३३ ॥ यदा ग्रहोऽयं समुपैति राशिं तदा तदीयं स फलं ददाति । पीतादिवर्णेन समन्वितोऽपि वर्णः सितस्तन्मयतामुपैति ॥ ३४ ॥ यथा प्रदेशेषु शुभाशुभेषु गच्छञ्जलौघः सदसत्त्वमेति । स्थानप्रभावाद्युचर स्तथैव शुभाशुभं राशिफलं ददाति ॥ ३५॥ शुभाशुभस्थानभवं ग्रहाणां शुभाशुभत्वं न निसर्गसिद्धम् । स्थितिं यदा यत्र गुणे करोति मजेत्तदा तत्प्रकृतिं हि मर्त्यः ॥ ३६॥ इत्यादिसामान्यवचोभिरेतेने निश्चयः स्यादितरेतरघ्नैः । फलाप्तिराद्यादुत वर्तमानादिति भ्रमोऽपेतविरोघिवाक्यात ॥ ३७॥ निश्चयवाक्यम्-यस्मिन्गहे स्थितो दीपस्तत्र द्योतं करोति वै। एवं ग्रहोऽपि यत्र स्यात्तत्रैव फलदः स्मृतः ॥ ३८ ॥ गर्गः-चारातिचारवक्रेण यो यत्रावस्थितो ग्रहः । स तद्राशिफलं दद्याद्गोचरे: बलसाधने ॥ ३९ ॥ वसिष्ठः-ग्रहा राज्यं प्रयच्छन्ति ग्रहा राज्यं हरन्ति च । ग्रहैस्तु व्याप्तं सकलं त्रैलोक्यं सचराचरम् ॥ ४० ॥ ज्योतिष्प्रकाशे---सर्वे लागताः श्रेष्ठा गोचरे लाभदा मताः । आयुःप्रदा विलग्नाच जातके कारकास्तथा ॥ ४१॥ गर्ग:द्वादशाष्टमजन्मस्थः शनिरङ्गारको गुरुः । कुर्वन्ति प्राणसंदेहं देशत्यागं धनक्षयम् ॥ ४२॥
अथ पृथक्फलानि । ललः-स्थानं जन्मनि नाशयेदिनकरः कुर्याद्वितीये भयं दुश्चिक्ये श्रियमातनोति हिबुके मानक्षयं गच्छति । दैन्यं पञ्चमगः करोति रिपुहा पष्ठोऽध्वदः सप्तमः पीडामष्टमगः करोति वपुषः पुण्यक्षयं धर्मगः ॥ १ ॥ कर्मसिद्धिजनकस्तु कर्मगो वित्तलाभकृदयायसस्थितः । द्रव्यनाशजनितां महापदं यच्छति व्ययगतो दिवाकरः ॥२॥ जन्मन्यन्नं दिशति हिमगर्वित्तनाशं द्वितीये दद्याद्रव्यं सहजभवने कुक्षिरोगं चतुर्थे । कार्यभ्रंशं तनयगृहगो वित्तलाभं च पष्ठे यूने द्रव्यं युवतिसहितं मृत्यु संस्थोऽपमृत्युम् ॥ ३ ॥ नृपभयं कुरुते नवमः शशी दशमधामगतस्तु महत्सुखम् । विविधमायगतः कुरुते धनं व्ययगतस्तु रुजं च धनक्षयम् ॥ ४॥ ज्योतिष्प्रकाशे-शुक्लपक्षे द्वितीयस्तु चन्द्रो वित्तसुखप्रदः । पञ्चमो वरवस्त्राप्तिं कुर्याद्भोगं च पुष्यमः ॥ ५ ॥ श्रीपति:-करोति जन्मन्यरिजं भयं कुजो धनेऽर्थनाशं सहजे धनं ध्रुवम् । सुखेऽरिभीति तनयेऽर्थसंक्षयं रिपौ स्वलब्धि धनविप्लवं रमरे ॥ ६ ॥ भयं महच्छत्रुकृतं गृहेऽष्टमे शरीरपीडां नवमे पदे शुचम् । अनेक शो लाभगृहे धनागमं व्यये धराजः कुरुते पनक्षयम् ॥ ७ ॥ बन्धं बुधो दिशति जन्मगतोऽर्थगोऽर्थ दुश्चिक्यगो रिपुभयं जलगो धनाप्तिम् । धीस्थो वपुर्विलयतां स्थितिदो रिपुस्थः पीडां परां कुसुमका
Aho! Shrutgyanam