________________
ज्योतिर्निबन्धः ।
५१
यदीन्दुः कलावशेषोऽपि । ताराऽप्यशुभा शुभदा भवति तदानीं न संदेहः ॥ २ ॥ राजमार्तण्डे - सौम्यसुहृन्निजभवने चन्द्रे तुङ्गे त्रिकोणसंस्थे च । अणुतामपि संप्राप्ते तारादौष्टयं न दोपाय ॥ ३ ॥ च्यवनः - तगरुसरोरुहपत्रै रजनीसिद्धार्थलोध्रसंयुक्तैः । स्नानं जन्मर्क्षगते रविसंक्रान्तौ नृणां शुभदम् ॥ ४ ॥ अस्यार्थः- यस्य वै जन्मनक्षत्रं भौमादियुक्तं भवति । तस्य सर्वोषधिस्नानं गुरुविप्रसुरार्चनम् | सौरारयोर्दिने मुक्ता देया धिष्ण्ये तु काञ्चनम् ॥ ५ ॥ वाग्भटः-सुरामांसी वचा कुष्ठं शैलेयं रजनीद्वयम् । सटा चम्पकमुस्तं च सर्वोषधिगणः स्मृतः ॥ ६ ॥ गर्गः - विपदि प्रत्यरे चैव नैधने च यथाक्रमम् । प्रथमान्त्यतृतीयाः स्युर्वर्जनीयाः प्रयत्नतः ॥ ७ ॥ विपसारे गुडं दद्याच्छाकं द्यात्रिजन्मसु । प्रत्यरे लवणं दद्यान्नैधने तिलकाञ्चने ॥ ८ ॥ इतिः दुष्टतारापवादः ।
अथ गोचरप्रकरणम् ।
भूपाल:- फलं न गोचरं दत्ते शुभोऽपि ग्रहवेधतः । ग्रहवेधविधानं तद्ययनोक्तं प्रकाश्यते ॥ १ ॥ ज्योतिष्प्रकाशे - गणयेज्जन्मभाच्चन्द्रं जन्मधिष्ण्याच्च तारकम् । जन्मराशेः शशाङ्काद्वा गणयेद्वेधकं ग्रहम् ॥ २ ॥ कश्यपः - हिमाद्रिविन्ध्ययोर्मध्ये वैधजं तद्ग्रहालयात् ॥ ३ ॥ वैद्यनाथः - जन्मभाद्गणयेच्चन्द्रं जन्मभाद्वेधकं ग्रहम् । स तु वैर्धक्रमो युक्तः कथितः शौनकादिभिः ॥ ४ ॥ चन्द्रमित्युपलक्षणम् । नारद:- - शुभोऽक जन्मतस्त्रयायदशषट्सु न विध्यते । जन्मतो नवपञ्चाम्बुव्ययणैर्व्याकिंभिर्ग्रहैः ॥ ५ ॥ विध्यते जन्मतो नेन्दुर्द्यनाद्यायतुदि
त्रिषु । स्वेष्वष्टान्त्याम्बुधर्मस्थेर्विबुधैर्जन्मतः शुभः ॥ ६ ॥ ययारिषु कुजः श्रेष्ठो जन्मराशेर्न विध्यते । अन्त्येष्वग्रहैः सौरिपि सूर्येण संमतः ॥ ७ ॥ ज्ञः खान्ध्यर्यष्टखायेषु जन्मतश्चेन्न विध्यते । धीत्र्यङ्कन ट्रान्त्यखेटैर्हि जन्मतो वीक्षितः शुभः ॥ ८ ॥ जन्मतः स्वायगोऽध्यस्तेष्वन्त्याष्टखलजत्रिगैः । जन्मराशेर्गुरुः श्रेष्ठो ग्रहैर्यदि न विध्यते ॥ ९ ॥ जन्मभादासुताष्टाङ्कान्त्यायेविष्टो न विध्यते । जन्मभान्मृत्युसप्ताद्यखाङ्केष्वायरिपुत्रिगैः ॥ १० ॥ शार्ङ्ग • धरः- राहुकेतुफलं सर्वं मन्दवत्कथितं बुधैः । विलोsर्कयुतो मन्दचन्द्रयुक्तो बुधस्तथा ॥ ११ ॥ भूपाल:- यादृशेन ग्रहेणेन्दुर्युतः सोऽपि तथाविधः । यतो वृत्तिसमायोगाद्विकारो वदनस्य तु ॥ १२ ॥ नारद:- न ददाति
०
१. लंगो । २. घग्रहो । ३ ग. गैव्यक्तिभि । ४ व अथा । ५ क. ख. य. 'रप्यसूर्येणजन्मतः ।
Aho! Shrutgyanam