________________
४८
श्री शिवराजविनिर्मितो
पूर्णा सिद्धियोगाः प्रकीर्तिताः ।। २५ । सुधासिद्धी रवौ हस्तो बुधे मैत्र कुजेsश्विनी । शनौ ब्राह्मं सिते पौष्णं गुरौ पुष्यो विधौ मृगः ॥ २६ ॥ मृत्यु योगोऽनुराधार्के वैश्वं चन्द्रे गुरौ मृगः । शुक्रे सार्प शनौ हस्तो ज्ञेऽश्विनी वारुणं कुजे ।। २७ ।। मघाद्विदैवतं शैवं मूलं कार्शानवद्वयम् । हस्तथेत्यर्कवा - रादौ यमघण्टाः प्रकीर्तिताः ॥ २८ ॥ गुरुपुष्यो विवाहे च प्रयाणे शनिहिणी । भौमाश्विनी प्रवेशे च गृहारम्भे न शोभना ॥ २९ ॥ गर्गः - चतुर्थी चोत्तरायुक्ता मघायुक्ता तु पञ्चमी । तृतीययाऽनुराधा च नवया सह कृत्तिका ॥ ३० ॥ अष्टम्या रोहिणी युक्ता योगो ज्वालामुखाभिधः | त्याज्योऽयं शुभकार्येषु गृह्यते त्वशुभे पुनः ॥ ३१ ॥ नारदः- - आदित्यभौमयोर्नन्दा भद्रा शुक्रशशाङ्कयोः । जया सौम्ये गुरौ रिक्ता शनौ पूर्णेति नो शुभाः ॥ ३२ ॥ एकादश्यामिन्दुवारो द्वादश्यामर्कवासरः । षष्ठयां बृहस्पतेर्वारस्तृतीया बुधवासरे ॥ ३३ ॥ अष्टमी शुक्रवारे तु नवमी शनिवासरे । पञ्चमी भौमवारे च दग्धयोगः प्रकीर्तितः ॥ ३४ ॥ दग्धयोगाश्च विज्ञेयाः पङ्गुयोगाभिधा अमी । विशाखादिचतुर्वर्गमर्कनारादिषु क्रमात् ॥ ३५ ॥ उत्पातमृत्युकाणाख्यसिद्धियोगाः प्रकीर्तिताः । सूर्यभात्सार्पपित्र्यर्क्षत्वष्ट्रमित्रान्त्यभेषु च । सविष्णुभेषु क्रमशो दस्रभाच्चन्द्रसंयुते || ३६ || धिष्ण्ये तावतिथे ह्यत्र दुष्टयोगः पतत्यसौ । चण्डीशचण्डायुधाख्यस्तस्मिन्नेवाऽऽचरेच्छुभम् ॥ ३७ ॥
इत्युपग्रहप्रकरणम् ।
अथोपग्रहदोषापवादः ।
गर्ग:- यावदंशस्थिते सूर्ये तावदंशे निशाकरे | वर्जयेत्सूर्यजो दोषः शेषं कर्म शुभं भवेत् ॥ १ ॥ पूर्वाह्णे दण्डदोपः स्यादपराह्णे तु मोधक: । उल्का स्यादर्धरात्रे तु कम्पोsहारात्रदूषकः || २ || || कम्पोल्कादण्डमोघानां स्वरमासदशतत्रः ।। ७|१२|१०|६ ।। आदितो घटिकास्तेषु व्यपनीयाः पराः शुभाः ॥ ३ ॥ उपग्रहेषु लत्तायां तथा चण्डायुधादिषु । ग्रहोऽस्ति यत्प्रमाणांशे विद्धोऽशस्तत्प्रमाणकः ॥४॥ वसिष्ठः चण्डीशचण्डायुधपादवेधः खार्जूरचक्रे समपाददोषः । शुभोऽथ यात्रादिषु सूर्यचन्द्र वलान्वितौ वा शुभवीक्षितौ वा ||५|| राजमार्तण्डे-ध्वाङ्क्षेन्द्रादिषु मुद्गरेषु घटिकास्त्याज्यास्तु पञ्चाऽऽदिमाः पद्मलुम्बकयोश्चत उदिता धू सदैका पुनः || ६ || गर्गः - उत्पाते यमघण्टे च काणे च क्रकचे शुभे । तिथौ दग्धे च पापे च प्राग्यामात्परतः शुभम् ॥ ७ ॥ रनकोशे - वारर्क्षतिथि
Aho! Shrutgyanam