________________
ज्योतिर्निबन्धः ।
----
अकम्पो वज्र एव च । परिवेषश्च विज्ञेयो नक्षत्रा देकविंशतेः ॥ २ ॥ एतेष्विन्दुसमेतेषु कुर्यात्कर्म न शोभनम् | दहनात्रं विषैः साध्यं यत्तत्सिद्धिमुपैति च ॥ ३ ॥ नारदः – त्रयोदश स्युर्मिलने संख्यया तिथिवारयोः । क्रकचो नाम योगोऽयं मङ्गलेष्वपि गर्हितः ॥ ४ ॥ वसिष्ठ: - भानुना सप्तमी युक्ता बुधेन प्रतिपद्युता । संवर्तकस्तदा योगो निन्दितः सर्वकर्मसु ||५|| श्रीपतिः--आनन्दः कालदण्डो धूम्राख्योऽथ प्रजापतिः सौम्यः । ध्वाङ्क्षोऽथ ध्वजनामा श्रीवज्रमुद्गरौ छत्रम् || ६ || मित्रं मानसनामा पद्माख्यो लुम्बकस्तथोत्पातः । मृत्युः काणः सिद्धः शुभामृतौ मुसलमथ गदाख्यश्च ।। ७ ।। मातङ्गराक्षसचरस्थिरवृद्धा इमे योगाः । अष्टाविंशतिसंख्याः संज्ञासदृशं फलं दद्युः ॥ ८ ॥ क्रमात्स्युरेते रविवासरेऽविभाद्विधौ मृगाद्भूमिसुते भुजङ्गात् । हस्तादुधे देवगुरौ च मैत्रतः सिताद्धि वैश्वाद्रविजाद्धि वारुणात् ।। ९ ।। क्रमोत्क्रमालत्तयन्ति सूर्यपूर्णेन्दुपूर्वकाः । धिष्ण्यमक कृतित्र्यद्रिरसेष्वष्टाटू संमितम् ।। १० । माण्डव्यः -- हस्तोत्तरात्रयं मूलं धनिष्ठारेवतीद्वयम् । पुण्यप्रतिपदष्टम्यौ नवमी च शुभा वौ ॥ ११ ॥ भरणी भास्करे देया विशाखात्रित्तयं मघा । सप्तमी द्वादशी पष्ठयेकादशी च चतुर्दशी ॥ १२ ॥ द्वितीया नवमी पुष्यः श्रवणो रोहिणी मृगः । अनुराधा शुभा ज्ञेया दिने कुमुदिनीपतेः || १३ || आषाढाद्वितयं चित्रा विशाखा न शुभा भवेत् । सप्तम्येकादशी सोमे द्वादशी च त्रयोदशी || १४ || रेवती मूलमात्राभद्राऽश्विनी मृगः । त्रयोदश्यष्टमी षष्ठी तृतीयाऽभिमता कुजे ॥ १५ ॥ वर्जयेदुत्तराषाढां धनिष्ठात्रितयं कुजे । आर्द्रा प्रतिपदं चैकादशीं च दशमी तथा ॥ १६ ॥ श्रवणो रोहिणी पुण्योऽनुराधामृगकृत्तिकाः । द्वितीया द्वादशी सप्तम्यपि सिद्धिदा बुधे ।। १७ ।। न शुभाय बुधे मूलधनिष्ठारेवतीत्रयम् । तियः सचतुर्दश्यः प्रतिपन्नवमी जया || १८ || अदिते विशाखा च रेवतीद्वितयं करः । भाग्यमैत्रेज्य पूर्णेकादशी च गुरौ शुभा ॥ १९ ॥ कृत्तिकोत्तर - फाल्गुन्यो रोहिणीत्रयमष्टमी । पष्ठी शतभिषग्भद्रा चतुर्थी चाशुभा गुरौ ||२०|| पुनर्वसुश्च सावित्रं वैश्वं पौष्णद्वयं तथा । शुभा त्रयोदशी नन्दानुराधाभाग्यभं भृगौ ॥ २१ ॥ पुष्यादित्रितयं ज्येष्ठा रोहिणी शुक्रवासरे । द्वितीया सप्तमी रिक्ता तृतीया नेष्टदा सदा ॥ २२ ॥ पूर्वाफाल्गुनिरोहिण्यौ स्वाती शतभिपङ्मघा । श्रवणश्चाष्टमी रिक्ता तिथिः स्यात्सिद्धये शनौ ।। २३ ।। रेवतीमुत्तराषाढामुत्तराफाल्गुनीयम् । षष्ठीं च सप्तमी पूर्ण मन्दवारे विवर्जयेत् ॥ २४ ॥ ज्योतिष्प्रकाशे -- शुक्रवारे तिथिर्नन्दा बुधे भद्रा कुजे जया । मन्दे रिक्ता गुरौ १. 'ण्डोऽथ धू २ क ण्यकम कु' ।
Aho! Shrutgyanam
४७