________________
ज्योतिर्निबन्धः ।
४५
स्वमेवाशुभमाहुरन्ये ॥ ८॥ यथा शरेणावयवैकदेशे विद्धे तु तन्न क्षमतामुपैति । तथैव धिष्ण्यं खचरेण विद्धं न शोभनं शोभनकर्मणि स्यात् ॥ ९ ॥ पटस्य देशेऽल्पतरेऽपि दग्धे दग्धः पटो यद्वदिति प्रसिद्धिः । तथैव पादे हि नभश्वरेण किद्धे भवेद्विद्धमशेषमृक्षम् ॥ १० ॥ नक्षत्रवेधे यदि पादवेधस्तदङ्घ्रिवेधाद्घटिकासु वेधः । नाडीव्यधे स्याद्विघटीषु चैनं भानां तदा क्वापि न चास्ति वेधः ॥ ११ ॥ छिद्येत शाखा यदि काचिदर्भवेत्तदानीं किमशेषनाशः । एवं स एवाशुभदो ग्रहेण यो विध्यतेऽन्ये चरणाः शुभाः स्युः ॥ १२ ॥ पादे विद्धे चेदनिष्टं भवेद्धं तत्संयोगाद्राशिरेवाशुभः स्यात् । तेनाप्येवं योगतो राशिचक्रं माङ्गल्यं तत्कर्म कार्य कथं स्यात् ॥ १३ ॥ अत्रैवमृक्षं यदसद्गृहेण विद्धं न शस्तं सकलं तु यावत् । प्रागुक्तसंख्यार्धहिमांशुभोगस्ततो विचिन्त्यः खलु पादवेधः ॥ १४ ॥ प्रागुक्तसंख्यार्धमेतत् | भौमस्य १ | शनेः २ । राहो ः १ | केतोश्च १ । यथा शरेणावयवे विभिन्ने नरोऽक्षमः सन्पटुरौषधैः स्यात् । हित्वा तथैवावयवं तथेन्दुभोगाछुभं भं चरणस्तु दुष्टः || १५ || धिष्ण्ये शुभेन शुचरेण विद्धे विद्धस्तु पादः परिवर्जनीयः । शेषं शुभं विद्धि विनेन्दुभोगं समस्तमेवाशुभकर्म विद्धम् ॥ १६ ॥ एका लोपग्रह भैरवास्त्रैर्लताहतं भं सदसद्ग्रहेण । तस्यापि पादं परिहार्य दुष्टं शेषेषु सत्कर्म कृतं हितं स्यात् ॥ १७ ॥ त्नकोशे - विषप्रदग्धेन हतस्य पत्रिणा मृगस्य मांसं सुखदं क्षतादृते । यथा तथाऽत्रायुडुपाद एवं प्रदूषितोऽन्यत्रितयं शुभावहम् ॥ १८ ॥ राजमार्तण्ड : - यस्मिन्पादे ग्रहस्तिष्ठेच्छुभो वा यदि वाऽशुभः । तेनाङ्घ्रिणा भपादो यो विद्धो नेष्टः परे शुभाः ॥ १२ ॥ लल्ल - बालग्रहदृष्टिपाताद्यद्वलक्ष्यं भिनत्ति धानुष्कः । समपादगतचैवं वेधेनाङ्घ्रि प्रदूषयति ॥ २० ॥ इति नक्षत्रवेधः ।
अथ पीडित नक्षत्रापवादः ।
कश्यपः
:- रव्यङ्गारकभास्करिभोगापन्नं विधूमितं शिखिना । ग्रह भिन्नं ग्रहयुद्धं सोपप्लुतमुल्क याऽभिहतम् || १ || ग्रहणगतं चैव तथा पश्चात्संध्यागतं च विद्धर्क्षम् । त्रिविधोत्पातैर्दुष्टं पीडितमृक्षं विजानीयात् ॥ २ ॥ फलप्रदीपे - तत्सूर्येन्द्रो - भोगात्कर्मण्यत्वं प्रयाति भूयोऽपि । धिष्ण्यं कर्म विशुद्धं तापनिकषात्सुवर्णमिव ||३|| यदूतिं भं खचरेण येन तदग्रतो वा सुरराजमन्त्री | शुक्रो यदा वा यदि रौहिणेयस्तदा विशुद्धं किल धूमितं स्यात् || ४ || ज्योतिष्प्रकाशे-दोषैर्मुक्तं तु
१ . शुभंस्था' । २६ निकल्नु ।
Aho! Shrutgyanam