SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ श्री शिवराजविनिर्मितो अथ नक्षत्रप्रकरणम् । ज्योतिष्प्रकाशे – भेशा दस्रयमौ वह्निकेन्द्रीशादितयो गुरुः । भुजङ्गपितृयोन्याख्यार्यमार्कत्वष्टृवायवः ॥ १ ॥ वह्नीन्द्रौ मित्रशक्रौ च रक्षोऽन्यो विश्ववैष्णवम् । वस्वम्बुपाजपादाहिर्बुध्न्यपूपाभिधाः क्रमात् || २ || नारदः – वस्त्रोपन - यनक्षौरसीमन्ताभरणक्रियाः । स्थापनाऽश्वेभयानास्त्र कृषिविद्यादयोऽश्विमे ॥ ३॥ वापीकूपतडागादिविषशस्त्रोग्रदारुणम् । विलप्रवेशगणितनिक्षेपा याम्यमे शुभाः || ४ || अग्न्याधानास्त्रशस्त्रोग्रसन्धिविग्रहदारुणाः । सङ्ग्रामौपधवादित्रक्रियाः शस्ताच वह्नि || ५ || सीमन्तोन्नयनोद्वाहवस्त्रभूषास्थिरक्रियाः । गजवास्त्वभिषेकाच प्रतिष्ठा ब्रह्मभे शुभाः || ६ || प्रतिष्ठाभूषणोद्वाहसीमन्तोन्नयनक्रियाः । क्षौरवास्तु गजाश्वोष्टृयात्राः शस्ता चन्द्रभे || ७ || ध्वजतोरणसङ्ग्रामप्राकारास्त्रक्रियाः शुभाः । संधिविग्रहवैतानरसाढ्या रौद्रभे शुभाः ॥ ८ ॥ प्रतिष्ठायानसीमन्तवस्त्रवास्तूपनायनम् | क्षौराश्वकर्मादिति विधेयं धान्यभूषणम् ॥ ९ ॥ यात्राप्रतिष्ठासीमन्तव्रतवन्धप्रवेशनम् । करग्रहं विना सर्व कर्म देवेज्यभे शुभम ॥ १० ॥ अनृतव्यसनद्यूतक्रोधास्त्रविषदाहकम् । विवदरसवाणिज्यकर्म कgजभे शुभम् || ११ || कृषिवाणिज्यगोधान्यरणोपकरणादिकम् । विवाहनृत्यगीताद्यं निखिलं कर्म पैतृभे || १२ || विवादविपशस्त्राग्निदारुणोग्राहवादिकम् | पूर्वात्रयेऽखिलं कर्म कर्तव्यं मांसविक्रयः ॥ १३ ॥ वस्त्राभिषेकसीमन्तविवाहव्रतवन्धनम् । प्रवेशस्थापनाश्वेभवास्तुकर्मोत्तरात्रये ॥ १४ ॥ प्रतिष्ठोद्वाहसीमन्तयानं वस्त्रोपनायनम् | क्षौरवास्त्वभिषेकाश्च भूषणं कर्म भानुभे ॥ १५ ॥ प्रवेशवस्त्रसीमन्तप्रतिष्ठाव्रतबन्धनम् । त्वाष्ट्र वास्तुविद्याथ क्षौरभूषणकर्म यत् ।। १६ ।। प्रतिष्ठोपनयोद्वाहवस्त्रसीमन्तभूषणम् । विवाहाश्वेभकृष्यादि क्षौर कर्म समीरभे ।। १७ ।। वस्त्रभूषणवाणिज्य वसुधान्यादिसंग्रहम् । इन्द्रानि नृत्यगीतशिल्पलेखनकर्म च ॥ १८ ॥ प्रवेशस्थापनोद्वाहव्रतबन्धाष्टमङ्गलम् । वस्त्रभूषणवास्त्वर्थो मित्रभे संधिविग्रहौ || १९ ॥ क्षौरास्त्रशस्त्र वाणिज्यगोमहिष्यम्बु कर्म यत् । इन्द्रभे नृत्यगीताद्यं शिल्पलोहाश्मलेखनम् || २० || विवाहकृषिवा णिज्यदारुणाहवभेषजम् । निर्ऋतौ नृत्यशिल्पास्त्रसंधिविग्रहलेखनम् || २१ | प्रतिष्ठाक्षौरसीमन्तयानोपनयनौषधम् । पुरारामगृहारम्भं विष्णुभे पट्टवन्धनम् ॥ २२ ॥ वस्त्रोपनयनक्षौरप्रतिष्ठायानभेषजम् । वसुभे वास्तुसीमन्तप्रवेशाश्वेभ भूषणम् || २३ || प्रवेशस्थापन क्षौर मौञ्जीवन्धनभेषजम् । अश्वाभरणसीमन्तवास्तुकर्म जलेशभे || २४ || विवाहव्रतवन्धाश्च प्रतिष्ठायानभूषणम् । प्रवेशव . १ व "वाहर' । ४० Aho! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy