________________
३८
श्रीशिवराजविनिर्मितोविकुर्निशि ॥ २६ ॥ उद्वेगाऽमृतनामा च रोगा लाभा शुभा वला । कलिर्नामानि वेलानां होरावत्सूर्यतः क्रमात् ॥ २७ ॥
इति वारप्रकरणम् ।
अथ योगप्रकरणम् । नारद:-योगेशा यमविष्ण्विन्दुधातृजीवनिशाकराः । इन्द्रतोयाहिवयर्कभूमिरुद्राङ्गतोयपाः ॥ १ ॥ गणेशरुद्रधनदत्वष्टमित्रषडाननाः । सावित्री कमला गौरी नासत्यौ पितरो दितिः ॥ २॥ सवैधतिय॑तीपातो महापातावुभौ सदा। परिघस्य तु पूर्वार्ध सर्वकार्येषु गर्हितम् ॥ ३॥ विष्कम्भे घटिकास्तिस्रो नव व्याघातवज्रयोः । गण्डातिगण्डयोः पट् च शूले पञ्च न शोभनाः॥४॥ नारदःलिखेदूर्ध्वगतामेकां तिर्यग्रेखास्त्रयोदश । तत्र खार्जुरिके चक्रे कथितं मूर्ध्नि भं न्यसेत् ॥५॥ भान्येकरेखागतयोः सूर्याचन्द्रमसोर्मिथः । एकार्गलो दृष्टिपातश्चाभिजिवर्जितानि वै ॥६॥ गण्डे मूलं मृगं शूले विष्कम्भे च तथाऽश्विनीम् । मैत्रं पेटकेऽन्तिमे त्वाष्ट्र व्याघाते दितिभं न्यसेत् ॥ ७॥ वने पुष्यं व्यतीपाते सार्प च परिघे मघाम् । एकार्गलं पतङ्गन्द्वोरेकरेखास्थयोयसेत् ॥ ८॥ साध्यहर्षणशूलान्त्यगण्डपातान्तसंस्थितम् । धिष्ण्यं चण्डायुधं शैवं शुभकार्ये विवर्जयेत् ॥९॥ लल्लः-विंशतिर्दियुतोत्पत्तौ भ्रमणे चैकविंशतिः। पतने दश नाड्यस्तु पतिते सप्त नाडिकाः ॥ १०॥ फलं लक्षघ्नमुत्पत्तौ भ्रमणे कोटिरुच्यते । पतने दश कोट्यस्तु पतिते दानमक्षयम् ॥ ११ ॥ सर्वेषां पुण्यकालानां व्यतीपातो विशिष्यते । तत्राणुमात्रं यद्दत्तं तदनन्तफलप्रदम् ॥ १२ ॥ विनाडीभिदशमी रहितं घटिकाद्वयम् । योगप्रकरणे योगाः क्रमात्ते सप्तविंशतिः ॥ १३ ॥
इति योगप्रकरणम् ।
अथ करणप्रकरणम् । नारदः-इन्द्रः प्रजापतिर्मित्रस्त्वर्यमा भूर्हरिप्रिया । कीनाशः कलिरुद्राख्यौ तिथ्यधैशास्त्वहिमरुत् ॥ १॥ बवादिवणिगन्तानि शुभानि करणानि षट् । परीता विपरीता वा विष्टिर्नेष्टा तु मङ्गले ॥२॥ स्थिराणि मध्यमान्येषां नेष्टे नागचतुष्पदे । रत्नकोशे-कुर्याद्ववे शुभचरस्थिरपौष्टिकानि धर्मक्रिया द्विज
१ ग. षष्ठेन्ति । २ क. ख. घ. 'र्गलः प.। ३ ग. 'नि शुभकर्मसु । अशुभेषु स्थिराण्येव वि,
Aho! Shrutgyanam