SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ज्योतिनिबन्धः । विग्रहकर्षणम् । धात्वाकरप्रवालादिकर्म भूमिजवासरे ॥ ८॥ नृत्यशिल्पकलागीतलिपिभूरससंग्रहम् । विवादधातु संग्रामकर्म कुर्याद्विदोऽहनि ॥ ९ ॥ यज्ञपौष्टिकमाङ्गल्यस्वर्णवस्त्रादिभूषणम् । वृक्षगुल्मलतायानकर्म देवेज्यवासरे ॥१०॥ नृत्यगीतादिवादित्रस्वर्णस्त्रीरत्नभूपणम् । भूपण्योत्सवगोधान्यवाजिकर्म भृगोदिने ॥ ११ ॥ त्रपुसीसायसाश्मादि विषपापासवानृतम् । स्थिरकाखिलं वास्तुसंग्रहः सौरिवासरे ॥ १२॥ रक्तवर्णो रविश्चन्द्रो गौरो भौमस्तु लोहितः । दूर्वावर्णो बुधो जीवः पीतः श्वेतस्तु भार्गवः ॥ १३ ॥ कृष्णः सौरिः स्ववारेषु स्वस्ववर्णक्रियाः शुभाः । यस्मिन्वारे तु यत्प्रोक्तं तद्धोरावर्गयोः शुभम् ॥१४॥ श्रीपतिः - सोमसौम्यगुरुशुक्रवासराः सर्वकर्मसु भवन्ति सिद्धिदाः । भानुभौमशनिवासरेषु तु प्रोक्तमेव खलु कर्म सिध्यति ॥ १५ ॥ गर्गः-ग्रहस्योपचयस्थस्य वारे कार्य प्रसिध्यति । नैवापचयसंस्थस्य यत्नादपि कृतं नरैः ॥ १६॥ श्रीपतिः-वारप्रवृत्तिं मुनयो वदन्ति सूर्योदयाद्रावणराजधान्याम् । ऊर्च तथाऽधोऽप्यपरत्र तस्माच्चरार्धदेशान्तरनाडिकाभिः ॥ १७ ॥ चरार्धदेशान्तरयोर्वियोगयोगोत्थयाऽऽनीय पलैश्च सम्यक् । सूर्योदयादूर्ध्वमृणे धनेऽधो वारप्रवृत्ति मुनयो वदन्ति ॥ १८ ॥ महेश्वरः-होरेशा रविवर्जितोदयलवाः पञ्चेन्दुभिभाजिता नाड्यो दस्रहता हृताश्च विपयरेवं हि कैश्चित्स्मृताः । प्रोक्तोऽयं गणनाक्रमो दिनपतेोरेश्वराणां बुधैर्तिण्डास्फुजिदिन्दुपुत्रहिमकृत्सोरेज्यपृथ्वीसुताः ॥ १९ ॥ आर्टिषणिः-वारप्रवृत्तेर्या याता नाड्यः सूर्योदयादपि । द्विघ्नाः पञ्च हृता होराः स्ववारात्पूर्ववत्क्रमात् ॥ २०॥ माण्डव्यः-लाक्षाकोसम्भमाञ्जिठरागेऽकः स्वर्णकाचयोः । भौमश्चन्द्रश्च मुक्ताब्जे शनिलॊहाश्मनोमतः ॥ २१ ॥ गर्गः--लाक्षाकौसुम्भमाजिष्ठरागे काञ्चनभूषणे । प्रशस्तौ भौममार्तण्डौ रविजो लोहकर्मणि ॥ २२ ॥ नारद:-अभ्यक्तो भानुवारे यः स नरः क्लेशवान्भवेत् । ऋक्षेशे कान्तिमान्भौमे व्याधिः सौभाग्यमिन्दुजे । जीवे नैव्यं सिते हानिर्मन्दे सर्वसमृद्धिता ॥ २३ ॥ यस्य खेटस्य यत्कर्म वारे प्रोक्तं विधीयते ॥ २४ ॥ तल्लग्ने तस्य होरायां तस्य तत्कर्म सर्वदा । भूपालः-वारस्त्रिघ्नोऽत्र हृच्छेपेऽस्यैकः स्यादर्धयामकः । मैन्दवारोत्तरे भागे कुलिको येकको निशि ॥ २५ ॥ युपतेभीमजीवाभ्यां संख्या या द्विगुणा भवेत् । तत्क्षणे कण्टको जीवकुलिकोऽन्यो १ क. सैकः स्या' ख. प. सैकेस्या । २ क. मन्देवारोत्त' ख. मन्दवारोत्तो भौमे ग. मन्देवेलोत ३ ग. व्येयको। Aho! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy