________________
ज्योतिर्निबन्धः। वासवौ ॥ ३ ॥ महेशो वसवो नागदुर्गे दण्डधरादयः । शिवो विश्वे हरिरवी कामः शर्वकली ततः ॥ ४ ॥ शिवो विश्वे दर्शसंज्ञतिथीशाः पितरः स्मृताः । कामोमयोः केचिदूचुरधिपस्तु धनाधिपः ॥ ५॥ ज्योतिष्प्रकाशे-स्वस्वदेवप्रतिष्ठायां मन्त्रसंग्रहणे तथा । पवित्रदमनारोपे ग्राह्या तत्तत्तिथिर्बुधैः ॥ ६ ॥ श्रीपतिः- नन्दा च भद्रा च जया च रिक्ता पूर्णेति सर्वास्तिथयः क्रमात्स्युः। कनिष्ठमध्येष्टफलास्तु शुक्ले कृष्णे भवन्त्युत्तममध्यहीनाः ॥ ७॥ वृद्धिः सुमङ्गलपदा च बला खला च लक्ष्मीवती त्वथ यशा परतश्च मित्रा । तद्वद्धला सुमहती तिथिरुग्रकर्मा स्याद्धर्मिणी प्रतिपदादि तथैव नन्दा ॥ ८ ॥ क्रमाधशोवत्यपराजयोग्रा सौम्याह्वया पञ्चदशी तिथिश्च । फलानि नाम्ना सदृशानि तासां महर्षिभिनूनमुदाहृतानि ॥ ९॥ दैवज्ञवल्लभे--ज्ञानाप्तिदे कर्मणि पौष्टिके च ध्रुवे च शस्ता प्रतिपत्पादिष्टा । व्यायामशिल्पौषधमङ्गलेषु यात्राविवाहादिषु च द्वितीया ॥ १०॥ बीजोप्तिदास्यासवसंप्रयोगे ज्ञेया तृतीयोग्रविधौ चतुर्थी । माङ्गल्यकृत्येषु च पञ्चमी स्यात्षष्ठी ध्रुवे कर्मणि न प्रयाणे ॥ ११ ॥ ध्रुषं प्रयाणाभरणादिकेषु स्यात्सप्तमीष्टाऽखिलमङ्गलेषु । सेनासु यन्त्रादिषु चाष्टमीष्टा पापोग्रसिद्धौ नवमी वरिष्ठा ।। १२ ॥ दशम्यभीष्टा गमने प्रवेशमाङ्गल्यकर्मस्विह पौष्टिके च । एकादशी मङ्गलसिद्धये च ध्रुवक्रियायां च महानसे च ॥ १३ ॥ ध्रुवे सपाणिग्रहणे निधाने स्याद्वादशी सिद्धिकरी न याने । त्रयोदशी कर्मणि मङ्गलाये क्षिमे च सौभाग्यविधौ ध्रुवे च ॥ १४ ॥ चतुर्दशी सिद्धिकदुग्रकार्ये नं तु प्रयाणे न खलु प्रवेशे । माङ्गल्ययज्ञादिषु पौर्णमासी दर्शो न शस्तः पितृकर्म मुक्त्वा ॥ १५ ॥ नारदः-अष्टमी द्वादशी षष्टी चतुर्थी च चतुर्दशी । तिथयः पक्षरन्ध्राख्या दुष्टास्ता अतिनिन्दिताः ॥ १६॥ चतुर्थमनुरन्ध्रान्तत्त्वसंज्ञास्तु नाडिकाः । त्याज्या दुष्टासु तिथिषु पञ्चस्वपि च सर्वदा ॥१७॥ अमावास्यां च नवमीं त्यक्त्वा विषमसंज्ञिताः। तिथयः सुप्रशस्ताः स्युर्मध्यमा प्रतिपत्सिता ॥१८॥ दर्शे षष्ठयां प्रतिपदि द्वादश्यां प्रतिपर्वसु । नवम्यां च न कुर्वीत कदाचिद्दन्तधावनम् ॥ १९ ॥ षष्ठयां तैलं तथाऽष्टभ्यां मांसं क्षौरं तिथौ कलेः । पूर्णिमादर्शयो रीसेवनं परिवर्जयेत् ॥ २० ॥ व्यतीपाते च संक्रान्तावेकादश्यां च पर्वसु । अर्कभौमदिने षष्ठयां नाभ्यङ्गो न च वैधृतौ ॥ २१॥ यः करोति दशम्यां च स्नानमामलकैः सह । पुत्रहानिर्भवेत्तस्य द्वितीयायां न संशयः ॥२२॥ अर्थपुत्रक्षयस्तस्य द्वितीयायां न संशयः । अमायां च नवम्यां च सप्तम्यां च कुल
१ क. ख. घ. स्वस्य दे° । २ क 'म्यादया । ३ क. सुयात्रादि' ।
Aho ! Shrutgyanam