________________
ज्योतिर्निबन्धः। दृश्यते सस्यनाथः सूर्यो यस्मिंस्तत्र गोदुग्धनाशः ॥ १ ॥ सस्यं समर्घ प्रचुराम्बुवृष्टिः सर्वाणि धान्यानि पचेलिमानि । जनाश्च सर्वे सुखसंप्रयुक्ताः सस्याधिपो यत्र निशाकरः स्यात् ॥ २ ॥ रोगाभिभूतं जगदस्ति सर्व महर्घधान्यानि न वारि भूरि । वह्नभयं तस्करजं कचित्स्यात्सस्याधिनाथे धरणीतनूजे ॥३॥ मही च सर्वा सलिलेन पूर्णा भयं विनष्टं च सुखी जनः स्यात् । नवानि धान्यानि फलैर्युतानि सस्याधिनाथो यदि चन्द्रजः स्यात् ॥ ४ ॥ आनन्दयुक्ता जनता पयोदाः सुदृष्टियुक्ताः फलपुष्पसंपत् । धान्यानि सर्वाणि शुभानि यत्र सस्याधिनाथः सुरराजमन्त्री ॥ ५ ॥ रोगमुक्ता निर्भयाः सर्वलोकाः पच्यन्ते वा सर्वधान्यानि नूनम् । वृक्षाः शश्वत्पुष्पिता भूरिवृष्टिः सस्याधीशो यत्र दैत्येन्द्रमन्त्री ॥ ६॥ धान्यक्षयः कोशविहीनता स्यानरेश्वराणामपि मन्दवृष्टिः । हुताशभीतिः प्रचुरामयः स्यात्सस्याधिनाथोऽर्कसुतो यदा स्यात् ॥ ७ ॥
-~--
____अथ मेघेशफलम् । दिव्यभ्रजालं पिहितार्कमिन्द्रः क्वचिज्जलं वर्षति मूषकतिः । महीरुहाः पुष्पफलैर्विहीना मेघाधिपो यत्र. दिवाकरः स्यात् ॥ १॥ नदीतडागादिषु भूरितोयमतीव धान्यं प्रबला जनाश्च । शालीक्षुगोवारिचराभिवृद्धिर्मेघाधिपो यत्र निशाकरः स्यात् ॥ २॥ वातः प्रचण्डोऽग्निभयं जनानामवृष्टिभीत्याकुलितं च धान्यम् । व्याधिप्रकोपोपहताश्च सर्वे मेघाधिपो यत्र धरातनूजः॥३॥ कृषीश्वराभीष्टकृदम्बुवृष्टिर्मही लतापुष्पफलैः प्रपूर्णा । अस्त्यामयः कापि कलिनुपाणां मेघाधिपो यत्र हिमांशुपुत्रः ॥ ४ ॥ पश्चाजलं भूरि महेश्वराणामन्योन्यमैत्री कलहः कचित्स्यात् । धर्मक्रियायां निरता जनाः स्युर्मेधाधिपो यत्र सुरेन्द्रमन्त्री ॥ ५॥ नित्योत्सवानन्दितमानसानां गहे द्विजानां धनधान्यसंपत् । गीर्वाणनाथो बहुवृष्टिकर्ता मेघाधिपो यत्र च भार्गवः स्यात् ॥ ६ ॥ न कापि वृष्टिधरणीश्वराणां कोशोऽल्पकः शीतभयं क्वचिच्च । अभूरि धान्यं प्रचुरामयश्च मेघाधिपो यत्र रवेः सुतः स्यात् ॥ ७ ॥
अथ रसाधिपफलम् । कार्पासतैलेक्षुगुडादिकानां महर्घता शीतभयं जनानाम् । वापीतडागादिषु तुच्छमम्बु रसाधिनाथो दिनकृयदा स्यात् ॥ १॥ गावो बहुक्षीरमभिस्रवन्त्यो
Aho! Shrutgyanam