________________
श्री शिवराजविनिर्मितो
अथ राजफलम् ।
सूर्यस्य राज्ये जलहीनता स्यात्पयोधराणां महती च पीडा । जनस्य चोराः फलपुष्पमल्पं भवेत्तरूणां कलहो नृपाणाम् || १ || सोमस्य राज्येऽखिललोकगेहे कल्याणकार्याणि गवां विवृद्धिः । वृष्टिः प्रभूता वहुसस्यसंपत्सौख्यं जनो विन्दति रोगहीनः || २ || भौमस्य राज्येऽग्निभयं धरित्री सस्येन हीना क्वचि देव वृष्टिः । चौराः प्रभूता मनुजेश्वराणां स्याद्विग्रहोऽन्योन्यजयाय नूनम् ॥ ३ ॥ बुधस्य राज्ये धनधान्यसंकुलं महीतलं वृष्टिरनुत्तमा च । जना विवाहोत्सवय - ज्ञकाङ्क्षिणः सुभिक्षमस्मिन्बहुवातवृष्टिः || ४ || जीवस्य राज्ये कनकाम्बुधारावृष्टिश्च गावो बहुदुग्धयुक्ताः । विप्राः सदा यज्ञमहोत्सवेन प्रहृष्टचित्ताः फलपुष्पसंपत् ॥ ५ ॥ शुक्रस्य राज्ये सरितस्तडागा वाप्यश्च कूपाः परिपूर्णतोयाः । प्रभूतधान्यं फलिताच वृक्षा गावः सुदुग्धाः सुखिनश्च लोकाः || ६ || मन्दस्य राज्ये सकृदेव वृष्टिर्जने गदवोरकृता च पीडा । नृपा विनाशं युधि संप्रयान्ति दुर्भिक्षमुग्रं फलपुष्पहानिः ॥ ७ ॥
३०
अथ मन्त्रिफलम् ।
सूर्ये प्रधाने ज्वलिता धरत्री क्षुधाभिभूतं जगदल्पसस्यम् । महता रोगभयं जनानां युद्धं नृपाणामतुलं न वृष्टिः ॥ १ ॥ सोमे प्रधानेऽभ्युदयं व्रजन्ति प्रजा महीशा बहुधा च वृष्टिः । शालीक्षुगोधूमगवां विवृद्धिर्यज्ञक्रियायां निरता द्विजाः स्युः || २ || भौमे प्रधाने काचदेव वृष्टिर्धान्यं मह ज्वलन - कोपः । स्यात्तस्कराणामनयोऽतिघोरः प्रजेश्वरा युद्धविधायिनः स्युः ॥ ३॥ gr प्रधाने कमलेक्षुदुग्धगोधूमसंपत्प्रचुरा च वृष्टिः । कीलालधान्यानि पचेलिमानि नरेश्वराणामपि कोशवृद्धिः || ४ || जीवे प्रधाने मुदिताश्च सर्वे लोकाः सुभिक्षं प्रचुरं विलोक्य | अनर्घता स्याद्वहुसस्यसंपन्महीरुहाणामतुला च वृद्धिः ॥ ५ ॥ शुक्रे प्रधाने प्रचुराम्बुवर्षी सुराधिनाथः सुखिनश्च सर्वे । गावो यथा कामदुघा नृपाणामतीव सौख्यं प्रचुरं च धान्यम् || ६ || मन्दे प्रधाने ऽखिललोकपीडा वह्नेर्भर्थं धान्यविनाशनं च । रोगाभिभूता जनता न पश्येत्सौख्यं तथाऽस्मिन्न तिहीनवृष्टिः ॥ ७ ॥
अथाग्रधान्येशफलम् ।
खण्डा वृष्टिः सस्यहानिर्जनानां व्याधिर्युद्धं भूभुजां दारुणं च । चोरक्रीडा
Aho! Shrutgyanam