________________
२८
श्री शिवराजविनिर्मितो
पाः । शालीयवगोधूमैर्नयनाभिनवा घरा ।। २९ ।। दुर्मुखान्देऽग्निरोगाः स्युः प्रचुरानं तथेतयः । राजानः सप्रजास्तुष्टा निःस्वास्ते द्विजसत्तमाः || ३० ॥ हेमलम्बे नृपाः सर्वे परस्परविरोधिनः । प्रजापीडा त्वनर्घत्वं तथाऽपि सुखिनो जनाः ॥ ३१ ॥ विलम्बिवत्सरे राजविग्रहो भूरिवृष्टयः । आतङ्क-पीडितो लोकः प्रभूतं चापरं फलम् ॥ ३२ ॥ विकारिणो विकार्यब्दे पित्तरोगादिभिर्नराः । देवो वर्षति संपूर्ण समुद्ररसनक्षितौ ॥ ३३ ॥ शार्वरीवत्सरे सर्वसस्यवृद्धिरनतमा । राजानो विलयं यान्ति परस्परजयेच्छया ॥ ३४ ॥ चलिताचलसंकाशैः पयोदैरावृतं नभः । दीप्यन्ते सततं भूपाः प्लवाब्दे प्लवगा जनाः ॥ ३५ ॥ राजते पृथिवी सर्वा सततं विविधोत्सवैः । शुभकुद्वत्सरे वृद्धिः प्रजानां पशुभिः सह ॥ ३६ ॥ शोभने बत्सरे सर्वसस्यानामतिवृद्धयः । नृपाणां स्नेहमन्योन्यं प्रजानां च परस्परम् || ३७ ॥ अपि सन्तीतयः क्रोधिन्यब्दे सस्यसमृद्धयः । - दम्पत्योर्वैरमन्योन्यं प्रजानां च परस्परम् ॥ ३८ ॥ सम्यग्विश्वावसावब्दे मध्यसस्यार्घदृष्टयः । प्रचुरं घोररोगाश्च नृपा लोभाकुलीकृताः ॥ ३९ ॥ पराभवाब्दे राजानः प्राप्नुवन्ति पराभवम् । आमयः क्षुद्रधान्यानि प्रभूतानि सुवृष्टयः ॥ ४० ॥ लवङ्गाब्दे सस्यहानिश्चिररोगार्दिता जनाः । मध्यवृष्टिः क्षितीशानां विरोधश्व परस्परम् ॥ ४१ ॥ प्रचुराः पैंत्तरोगाः स्युर्मध्यदृष्टिरहेर्भयम् । कीलकान्दे स्वीतिभयं प्रजाक्षोभः परस्परम् ॥ ४२ ॥ अतिवृष्टिररोगत्वं प्रजाः स्युः स्वस्थचेतसः । सौम्येऽब्दे सततं सर्वे शान्तवैराः क्षितीश्वराः ॥ ४३ ॥ साधारणाब्दे राजानः सुखिनो गतमत्सराः । मजाथ पशवः सर्वे दृष्टिः कर्षकसंमता ॥ ४४ ॥ विरोधकृद्वत्सरे तु परस्परविरोधिनः । राजानो मध्यमा वृष्टिः प्रजाः स्वस्था निरन्तरम् ।। ४५ ।। अनर्थामयरोगेभ्यो भीतिरीतिर्निरन्तरम् । परिधाविनि वर्षे तु नृणां वृष्टिश्च मध्यमा ॥ ४६ ॥ नृपक्रोधो भवत्युग्रः प्रजापीडा त्वनर्घता । तथाऽपि दुःखं नाऽऽमोति प्रमादिवत्सरे जन : || ४७ ॥ आनन्दवत्सरे सर्व जन्तवः पशवः सदा । आनन्दयन्ति चान्योन्यमन्यथा तु कचित्कचित् ॥ ४८ ॥ अनन्ता मध्यफलदा तदधी शाहवोऽन्वहम् । निष्कृपा राक्षसाब्दे तु राक्षसा इव जन्तवः ॥ ४९ ॥ अनलाब्देऽनलभयं मध्यवृष्टिरनर्घता । नृपसंक्षोभ संभूता भूरिभीकरभूमयः ॥ ५० ॥ पिङ्गलाब्दे तु सततं दिक्पूरितघनस्वनाम् । भूभुजः स्वभुजाक्रान्तां भुञ्जते भूसतीं शुभाम् ॥ ५१ ॥ अतिवृष्टिः कालयुक्तवत्सरे सुखिनो जनाः । सन्तीतयोऽपि सस्थानि संपूर्णान्यन्यथा द्रुमाः ।। ५२ ।। सिद्धार्थिवत्सरे
१ क. "चोर"
Aho! Shrutgyanam