________________
श्रीशिवराजविनिर्मितोइदाधिपः शीतमयूखमाली । प्रजाधिपश्चाप्यनुवत्सरः स्यादुद्वत्सरः शैलसुताप. तिश्च ॥ ८ ॥ वृष्टिः समाऽऽद्ये प्रमुख द्वितीये प्रभूततोया कथिता तृतीये । पश्चाज्जलं मुञ्चति यच्चतुर्थ स्वल्पोदकं पञ्चममब्दमुक्तम् ॥ ९॥ चत्वारि मुख्यानि युगानि तेषां विविन्द्रजीवानलदैवतानि । चत्वारि मध्यानि च मध्यमानि चत्वारि चान्त्यान्यधमानि विद्यात् ॥ १० ॥ आद्यं धनिष्ठांशमभिप्रवृत्तो माघे यदा यात्युदयं सुरेज्यः । षष्टयब्दपूर्वः प्रभवः स नाना प्रपद्यते भूतहितस्तदाऽब्दः ॥११॥ पैतामहसिद्धान्ते-प्रमाथी प्रथम वर्ष कल्पादौ ब्रह्मणः स्मृतम् । तदाऽपि षष्टिहच्छाके शेपं चान्द्रोऽत्र वत्सरः ॥ १२ ॥ व्यावहारिकसंज्ञोऽयं कालः स्मृत्यादिकर्मसु । योज्यः सर्वत्र तत्रापि जैवो वा नर्मदोत्तरे ॥१३॥ आर्टिषेणिः-स्मरेत्सर्वत्र कर्मादौ चान्द्रं संवत्सरं सदा । नान्यं यस्माद्वत्सरादौ प्रवृत्तिस्तस्य कीर्तिता ॥ १४ ॥ नारदः-प्रभवो विभवः शुक्लः प्रमोदोऽथ प्रजापतिः। अङ्गिराः श्रीमुखो भावो युवा धाता तथैव च ॥ १५॥ ईश्वरो बहुधान्यश्च प्रमाथी विक्रमो वृषः । चित्रभानुः सुभानुश्च तारणः पार्थिवो व्ययः ॥ १६ ॥ सर्वजित्सर्वधारी च विरोधी विकृतिः खरः। नन्दनो विजयश्चैव जयो मन्मथदुर्मुखी ॥ १७ ॥ हेमलम्बो विलम्बश्च विकारी शार्वरी प्लवः । शुभकृच्छोभनः क्रोधी विश्वावसुपराभवौ ॥१८॥ प्लवङ्गः कीलकः सौम्यः साधारण ( णो) विरोधकृत् । परिधावी प्रमादी स्यादानन्दो राक्षसोऽनल: ॥ १९ ॥ पिङ्गलः कालयुक्तश्च सिद्धार्थो रौद्रदुमती । दुन्दुभी रुधिरोद्गारी रक्ताक्षी क्रोधनः क्षयः॥२०॥
' इति संवत्सरनामानि ।
अथ प्रभवादिसंवत्सरफलानि । कचिवृद्धिः कचिद्धानिः कचिदीतिः कचिद्गदः । तथाऽपि मोदते लोकः प्रभवाब्दे विमत्सरः॥१॥ आन्वीक्षिक्यां च निरताः सप्रजाः स्युः क्षितीश्वराः । कर्षकाभिमता वृष्टिविभवाब्दे विवैरिणः ॥ २ ॥ सकलत्रात्मजान्सम्यग्लालयन्त्यखिला जनाः। अमरस्पर्धिनः शुक्लवत्सरे विगतारयः ॥३॥ इतिव्याध्यदि. लोकाः क्षितीशाः कलहोत्सुकाः। प्रमोदाब्दे प्रमोदन्ते तथाऽपि निखिला जनाः ॥ ४ ॥ कीशाः कचिन्न व्रजन्तः स्वाधीना ह्यर्घवृष्टयः । एवं तैर्मोदते होकः प्रजापतिशरद्यतः ॥५॥ अतिथिस्वजनैः साधमन्नं बोभुज्यते मधु ।
१ ख. घ. स्यादीद।
Aho ! Shrutgyanam