SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ज्योतिनिवन्धः। यात्युदक् पार्वतीयवलशालिनां जयः । क्षत्रियाः प्रमुदिताः समायिनो भूरिधान्यमुदित्ता वसुन्धरा ॥ २ ॥ उत्तरतः स्वसुतस्य शशाङ्कः पौरजयाय सुभिसकरश्च । सस्यचयं कुरुते जनहार्दी कोशचयं च नराधिपतीनाम् ॥ ३ ॥ बृहस्पतेरुत्तरगे शशाङ्के पौरद्विजक्षत्रियपण्डितानाम् । धर्मस्य देशस्य च मध्यमस्य वृद्धिः सुभिक्षं मुदिताः प्रजाश्च ॥ ४ ॥ भार्गवस्य यदि यात्युदक् शशी कोशयुक्तगजवाजिवृद्धिदः । यायिनां च विजयो धनुष्मतां सस्यसंपदपि चोत्तमा तदा ॥ ५॥ रविजस्य शशी प्रदक्षिणं यदि कुर्यात्पुरभूभृतां जयः । शकबालिकसिन्धुपल्हवाः सुखभाजो यवनैः समन्विताः ॥ ६॥ येषामुदग्गच्छति भग्रहाणां प्रालेयरश्मिनिरुपद्रवश्च । तद्रव्यपौरेतरभक्तिदेशान्पुष्णाति याम्येन निहन्ति तांश्च ॥७॥ शशिनि फलमुदस्थे यद्ग्रहस्योपदिष्टं भवति तदपसव्ये सर्वमेतत्प्रतीपम् ॥ इति शशिसमवायः कीर्तितोऽयं ग्रहाणां न खलु भवति युद्धं साकमिन्दोग्रहः ॥८॥ इति चन्द्रग्रहसमागमः ॥ अथ ग्रहशृङ्गाटकम् ॥ यस्यां दिशि दृश्यन्ते विशन्ति तारा ग्रहा रविं सर्वे । भवति भयं दिशि तस्यामायुधकोपर्धातङ्गैः ॥१।। चक्रधनुःशृङ्गगटकदण्डपुरप्रासादवज्रसंस्थानाः । क्षुदवृष्टिकरा लोके समराय च मानवेन्द्राणाम् ॥ २॥ दृश्यते यत्र खांशे ग्रहमाला दिनकरे दिनान्तगते । तत्रान्यो भवति नृपः परचक्रोपद्रवश्च महान् ॥शायस्मिन्नृक्षे कुर्यः समागमं तज्जनान्ग्रहा हन्युः । अविभेदिनः परस्परममलमयूखाः शिवास्तेपाम् ॥ ४ ॥ ग्रहसंवर्तसमागमसंमोहसमाजसंनिपाताख्याः । कोशश्चेत्येतेषामभिधास्ये लक्षणं सफलम् ॥ ५ ॥ एकः चत्वारः सह पौरैर्यायिनोऽथवा पञ्च । संवतॊ नाम भवेच्छिखिराहुयुतः स संमोहः ॥ ६॥ पौरः पौरसमेतो यायी सह यायिना समाजाख्यः । यमजीवसमाजेऽन्यो यद्यागच्छेत्तदा कोशः ॥७॥ उदितः पश्चादेकः प्राक्चान्यो यदि स संनिपाताख्यः। अविकृततनवः स्निग्धा विपुलाश्च समागमे धन्याः ॥ ८॥ समौ तु संवर्तसमागमाख्यौ संमोहकोशौ भयदौ प्रजानाम् । समाजसंज्ञे सुसमाः प्रदिष्टा चैरप्रकोपः खलु संनिपाते।। ९ ॥ वसिष्ठः-चत्वारः पञ्च वा खेटा बलिनस्त्वेकराशिगाः। राजाहवभयं दद्युरर्घमामयभीतिदाः ॥ १० ॥ यदा प्रतीपगौ खेटौ नृपसंक्षोभदौ तदा । प्रतीपगास्त्रयो यत्र युद्धवृष्टिभयपदाः ॥ ११ ॥ राजान्यत्वं च कुर्वन्ति चत्वारो यदि Aho! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy