________________
श्री शिवराजविनिर्मितो
नलानुरूपास्त्रिशूलताराः कुजात्मजाः षष्टिः । नाम्ना च कौमास्ते सौम्याशा - संस्थिताः पापाः ।। २१ ।। त्रिंशत्र्यधिका राहोस्ते तामसकीलका इति ख्याताः । रविशशिगा दृश्यन्ते तेषां फलमर्कचारोक्तम् ॥ २२ ॥ विंशत्यधिकमन्यच्छतमग्नेर्विश्वरूपसंज्ञानाम् | तीव्रानलभयदानां ज्वालामालाकुलतनूनाम् || २३ ॥ श्यामारुणा विताराश्चामररूपा विकीर्णदीधितयः । अरुणाख्या वायोः सप्तसप्ततिः पापदाः पुरुषाः || २४ || पुञ्जनिकाशागणका नाम प्रजापतेरष्टौ । द्वे च शते चतुरधिके चतुरस्रा ब्रह्मसन्तानाः || २५ || कङ्का नाम वरुणजा द्वात्रिंशद्गुल्मसंस्थानाः । शशिवत्प्रभासमेतास्तीत्रफलाः केतवः प्रोक्ताः || २६ ।। षण्णवतिः कालसुताः कबन्धसंज्ञाः कबन्धसंस्थानाः । चण्डाभयप्रदाः स्युर्विरूपताराश्च ते शिखिनः ।। २७ ।। शुक्लविमलैकतारा नव विदिशां केतवः समुत्पन्नाः । एवं केतुसहस्रं विशेषमेषामतो वक्ष्ये ॥ २८ ॥ उदगायतो महान् स्निग्धमूर्तिरपरोदयी साकेतुः । सद्यः करोति मरकं सुभिक्षमप्युत्तमं कुरुते ||२९|| तलक्षणोऽस्थिकेतुः सं तु रूक्षः क्षुद्भयावहः । कथितः स्निग्धस्तादृक्प्राच्यां शस्त्राख्यो डमरमरकाय || ३० ॥ दृश्योऽमावास्यायां कपालकेतुः सधूम्ररश्मिशिखः । प्राङ्नभसोर्ध्वविचारी क्षुन्मरकारोगवृष्टिकरः ॥ ३१ ॥ प्राग्वैश्वानरमार्गे शूलाग्रः शावरूक्षताम्रार्चिः । नभसस्त्रिभागगामी रौद्र इति कपालतुल्यफलः || ३२ || अपरस्यां चलकेतुः शिखया याम्याययाऽङ्गुलोच्छ्रितया । गच्छेद्यथायथोदक् तथातथा दैर्घ्यमायाति ॥ ३३ ॥ सप्त मुनीन्संस्पृश्य ध्रुवमभिजितमेव च प्रति निवृत्तः । नभसोऽर्धमात्रमित्वा याम्येनास्तं समुपयाति ॥ ३४ ॥ हन्यात्प्रयागकूलाद्यावदवन्तीति पुष्करारण्यम् । उद्गपि च देविकामपि भूयिष्ठं मध्यदेशाख्यम् || ३५॥ अन्यानपि च स देशान्कचित्क्वचिद्धन्ति दुर्भिक्षैः । दशमासात्फलपाकोऽस्य कैश्चिदटादशे प्रोक्तः ॥ ३६ ॥ प्रागर्धरात्रदृश्यो याम्यायः श्वेतकेतुरन्यश्च । क इति युगाकृतिरपरे युगपत्तौ सप्तदिनदृश्यौ ॥ ३७ ॥ स्निग्धौ सुभिक्षभयदावथाधिकं दृश्यते कनकमयः । दश वर्षाण्युपतापं जनयति शस्त्रप्रकोपकृतम् ॥ ३८ ॥ श्वेत इति जटाकारो रूक्षः श्यामो वियत्रिभागगतिः । विनिवर्ततेऽपसव्यं त्रिभागशेषाः प्रजाः कुरुते ॥ ३९ ॥ आधूम्रया तु शिखया दर्शनमायाति कृत्तिकासंस्थः । ज्ञेयः स रश्मिकेतुः श्वेतसमानं फलं धत्ते ॥ ४० ॥ ध्रुवकेतुरनियतगतिः प्रमाणवर्णाकृतिर्भवति विष्वक् । दिव्यान्तरिक्षभौमो भवत्ययं स्निग्ध इष्टफलः ॥ ४१ ॥ सेनाङ्गेषु नृपाणां गृहतरुदेशेषु वाऽपि देशानाम् । गृहिणामुपस्करेषु च विनाशिनां दर्शनं याति ॥ ४२ ॥ कुमुद इति कुमुदकान्तिर्वारुण्यां प्राशिखामेकाम् । दृष्टः सुभिक्षमतुलं दश किल वर्षाणि स करोति ॥ ४३ ॥ सकदेकयाम
१८
Aho! Shrutgyanam