________________
ज्योतिर्निबन्धः ।
अथ केतुचारः । वराहः-गार्गीयं शिखिचारं पाराशरमसितदेवलकृतं च । अन्यांच बहून्दृष्ट्वा क्रियतेऽयमनाकुलश्चारः ॥ १॥ दर्शनमस्तमयो वा न गणितविधिनाऽस्य शक्यते ज्ञातुम् । दिव्यान्तरिक्षभौमास्त्रिविधाः स्युः केतको यस्मात् ॥२॥ अहुतांशेऽनलरूपं यस्मिंस्तत्केतुरूपमेवोक्तम् । खद्योतपिशाचालयमणिरत्नादीपरित्यज्य ॥ ३॥ ध्वजशस्त्रभवनतरुतुरगकुञ्जरायेष्वथाऽऽन्तरिक्षास्ते । दिव्या नक्षत्रस्था भौमाः स्युरतोऽन्यथा शिखिनः ॥ ४॥ शतमेकाधिकमेफे सहस्रमेके वदन्ति केतूनाम् । बहुरूपमेफमेव प्राह मुनि रदः केतुम् ॥ ५ ॥ यद्येको यदि बहवः किमने बलं तु सर्वथा वाच्यम् । उदयास्तमनैः स्थानैः स्पर्शेराधूमितैवर्णैः ॥ ६ ॥ यावन्त्यहानि दृश्यो मासास्तावन्त एवफलपाकः । मासैरन्दानि चदेत्प्रथमात्पक्षत्रयात्परतः ॥ ७ ॥ ह्रस्वतनुः प्रसन्नः स्निग्धस्त्वुजुरचिरसंस्थितः शुक्लः । उदितो वाऽप्यभिदृष्टः सुभिक्षसौख्यावहः केतुः ॥ ८॥ उक्तविपरीतरूपो न शुभकरो धूमकेतुरुत्पनः । इन्द्रायुधानुकारी विशेषतो द्वित्रिशूलो वा ॥९॥ हारमणिहेमरूपाः किरणाख्याः पञ्चविंशतिः सशिखाः । प्रागपरदिशो. द्देश्या नृपतिविरोधावहा रविजाः ॥ १० ॥ शुकवदनबन्धुजीवकलाक्षाक्षतजोपमा हुताशसुताः । आग्नेय्यां दृश्यन्ते तावन्तस्तेऽपि शिखिभयदाः ॥ ११ ॥ वक्रशिखा मृत्युसुता रूक्षाः कृष्णाश्च तेऽपि तावन्तः । दृश्यन्ते याम्यायां जनमरकावेदिनस्ते च ॥ १२ ॥ दर्पणवृत्ताकारा विशिखाः किरणान्विता धरातनयाः । क्षुद्भयदा द्वाविंशतिरैशान्यामम्बुतैलनिभाः ॥ १३ ॥ शशिकिरणहिमकुन्दकुमुदकुसुमोपमाः सुताः शशिनः । उत्तरतो दृश्यन्ते त्रयः सुभिक्षावहाः शिखिनः ॥ १४ ॥ ब्रह्मसुत एक एव त्रिशिखो वणस्त्रिभिर्युगान्तकरः । अनियतदिक्संप्रभवो विज्ञेयो ब्रह्मदण्डाख्यः॥ १५ ॥ शतमभिहितमेकसमेतमेकेन विरहिताऽन्यस्मात् । कथयिष्ये केतूनां शतानि नव लक्षणैः स्पष्टैः ॥ १६ ॥ सौम्येशान्योरुदयं शुक्रसुता यान्ति चतुरशीत्याख्याः। विपुलसिततारकास्ते स्निग्धाश्च भवन्ति तीव्रफलाः ॥ १७ ॥ स्निग्धा प्रभासमेता विशिखाः षष्टिः शनैश्चराङ्गरुहाः । अतिकष्टफला दृश्याः सर्वत्रते कनकसंज्ञाः ॥ १८ ॥ विकचा नाम गुरुसुताः सितैकताराः शिखापरित्यक्ताः । पष्टिः पञ्चभिरधिका स्निग्धा याभ्याश्रिताः पापाः ॥ १९ ॥ नातिव्यक्ताः सूक्ष्मा दीर्घाः शुक्ला यथेष्टदिनभवाः । बुधजात ( स्त) स्करसंज्ञाः पापफलास्त्वेकपश्चाशात् ॥ २०॥ क्षतजा
१ क. "न फलं । २ ख. वरतनुप्र !
Aho! Shrutgyanam