________________
ज्योतिर्निवन्धः। रफकविवनामात्यहाऽर्कजोऽश्विगतः । याम्ये नर्तकवादकगेयशक्षुद्रनैक( क ) तिहा॥ ८॥ बहुलास्थे पीड्यन्ते सौरेऽग्न्युपजीविनश्च भूपाश्च । रोहिण्यां कोशलमद्रकाशिपाञ्चालशाकटिकाः॥९॥ मृगशिरसि वत्सयाजकयजमानार्यजनमध्यदेशाश्च । रौद्रस्थे पारतरमठतैलका [ २ ] रजकचौराश्च ॥ १० ॥ आदित्ये पाञ्चनदप्रत्यन्तसुराष्ट्रसिन्धुसौवीरान् । पुष्ये घाण्टिकघौषिकयवनवणिकितवकुसुमानि ॥ ११ ॥ सार्प जलरुहसर्पाः पित्र्ये बाह्रीकचीनगान्धाराः । चूलिकपारतवैश्याः कोष्ठागाराणि वणिजश्च ॥ १२ ॥ भाग्ये रसविक्रयिणः पण्यस्त्रीकन्यका महाराष्ट्राः । आर्यम्णे (मणे) नृपगुडलवणभैक्षकाम्बूनि तक्षशिलाः ॥ १३ ॥ हस्ते नापितचाक्रिकचौरभिषक्सूचिकद्विपग्राहाः । बन्धक्यः कोशलका मालाकाराश्च पीड्यन्ते ॥ १४ ॥ चित्रास्थे प्रमदाजनलेखकचित्रज्ञचित्रभाण्डानि । स्वातौ मागधचरदूतसूतपोतप्लवनटाद्याः ॥ १५॥ ऐन्द्राग्न्याख्ये गर्तचीनकौलूतकुङ्कुमं लाक्षा । सस्यान्यथ मञ्जिष्ठा कौसुम्भं च क्षयं याति ॥ १६ ॥ मैत्रे कुलूतटङ्कणखषकाश्मीराः समन्त्रिचक्रचराः । उपतापं यान्ति जना भवति विभेदश्च मित्राणाम् ॥१७॥ ज्येष्ठासु नृपपुरोहितनृपपूज्यज्येष्ठकुलश्रेण्यः । मूले तु काशिकोशलपाञ्चालफलौषधियोधाः ॥ १८ ॥ आप्येऽङ्गवङ्गकोशलगिरिव्रजान्मागधपुण्ड्रमिथिलांश्च । उपतापं यान्ति जना वसन्ति ये ताम्रलिप्त्यां च ॥१९ ॥ वैश्वे चरमर्कपुत्रश्चरन्दशार्णान्निहन्ति यवनांश्च । उज्जयनीशवरान्पारियात्रकान्कुन्तिभोजश्च ॥ २० ॥ श्रवणे राज्याधिकृतान्विप्राय्यान्भिषक् पुरोहितकलिङ्गान् । वसुभे मगधेशजयो वृद्धिश्च जनेष्वधिकृतानाम् ॥२१॥ साजे शतभिषजि भिषक्कविशौण्डिकपद्यनीतिवार्तानाम् । आहिर्बुध्न्ये नद्यो यानकराः स्त्री हिरण्यं च॥२२॥ रेवत्यां राजभृतः क्रौञ्चद्वीपाश्रिताः शरत्सस्यम् । शबराश्च निपीड्यन्ते यवनाश्च शनैश्चरे चरति ॥ २३ ॥ अण्डजहा रविजो यदि चित्रः क्षुद्भयकृद्यदि पीतमयूखः । शस्त्रभयाय च रक्तसवर्णो भस्मनिभो बहुवैरकरश्च ॥ २४ ॥ वैडूर्यकान्तिरमलः शुभदः प्रजानां बाणातसीकुसुमवर्णनिभश्च शस्तः। यं चातिवर्णमुपगच्छति तत्सवर्ण सूर्यात्मजः क्षपयतीति मुनिप्रवादः ॥ २५ ॥ मून्य॒कं च मुखे त्रीणि गुह्ये द्वे नयने तथा । हृदये पञ्च ऋक्षाणि वामहस्ते चतुर्थकम् ॥ २६ ॥ वामपादतले त्रीणि दक्षिणे त्रीणि वै तथा । चत्वारि दक्षिणे हस्ते जन्मभाद्रविजः स्थितः ॥ २७ ॥ रोगो लाभस्तथा हानिलोभः सौख्यं च बन्धनम् । आयासश्चेष्टा यात्रा च अर्थलाभः क्रमात्फलम्
१ ख. 'शबलम । २ क. तैलिकार।
Aho! Shrutgyanam