________________
ज्योतिर्निबन्धः। रकरश्च ॥ १२ ॥ पित्राद्येऽवष्टब्धो हन्त्यश्मकनाविकाशबरशूद्रान् । पुण्ड्रापरान्त्यमौलिकवनवासिद्रविडसामुद्रान् ॥ १३ ॥ स्वात्यायं भत्रितयं मण्डलमेतच्चतुर्थमभयकरम् । ब्रह्मक्षत्रसुभिक्षाभिवृद्धये मित्रलाभाय ॥ १४ ॥ अत्राऽऽक्रान्ते मृत्युः किरातभर्तुः पिनष्टि चेक्ष्वाकून् । प्रत्यन्तावन्त्यपुलिन्दटकणान्सौरसेनांश्च ॥ १५ ॥ ज्येष्ठाद्यं पञ्चर्स क्षुत्तस्कररोगदं प्रबाधयते । काश्मीराश्मकमत्स्यान्सचारुदेवीमवन्ती च ॥ १६ ॥ आरोहेऽत्राऽऽभीरद्रविडाम्बष्ठत्रिगर्तसौराष्ट्रान् । नाशयति सिन्धुसौवीरकांश्च काशीश्वरस्य वधः ॥१७॥ षष्ठं षण्नक्षत्रं शुभमेतन्मण्डलं धनिष्ठाद्यम् । भूरिधनगोकुलाकुलमनल्पधान्यं कचित्सभयम् ॥ १८ ॥ अत्राऽऽरोहे चूलिकगान्धारावन्तयः प्रपीड्यन्ते । वैदेहवधः प्रत्यन्तयवनेशकदासपरिवृद्धिः ॥ १९ ॥ अपरस्यां स्वात्याचं ज्येष्ठाद्यं चापि मण्डलं शुभदम् । पित्राद्यं पूर्वस्यां शेषाणि यथोक्तफलदानि ॥ २० ॥ ज्योतिष्फलोदये-याम्याष्टकेऽम्बुदद्वारं तत्रास्तं गमिते सिते । भूरिवृष्टियुता धात्री सस्यवृद्धिः प्रजायते ॥ २१ ॥ मघाद्यं पञ्चकं वायुद्वारं शुक्रेऽस्तमागते । तत्र मेघोन्नतियुता द्यौः पयो नैव मुञ्चति ॥ २२ ॥ स्वातित्रयेऽस्तमायाते धर्मद्वारं भृगोः सुते । तत्राऽऽरोग्यसुखक्षेमयुताः स्युर्धर्मिणो जनाः ॥ २३ ॥ ज्येष्ठाचं पञ्चकं धूलिद्वारं तत्रास्तमागते । अग्निक्षद्भीतिरत्यन्तं विग्रहो दारुणः सिते ॥ २४ ॥ वासवाश्चीमपर्यन्तं काश्चनद्वारमीरितम् । तत्रास्तमागते शुक्रे सस्यवृद्धिः प्रजायते ॥ २५ ॥ भिन्दनगतोऽनलर्क कूलातिक्रान्तवारिवाहाभिः । अव्यक्ततुङ्गनिम्ना समा सरिद्भिर्भवति धरित्री ॥ २६ ॥ वसिष्ठः-भिनत्ति रोहिणीचक्रं शुक्रः पैतृभतारकम् । यदा तदा भवत्येव कपालास्थिमयी धरा ॥२७॥ दृष्टः समस्तदिवसं भयदश्वाऽऽमयः सदा । दिनार्ध प्रति दृष्टश्चेत्परेषां बलभेदकृत् ॥ २८ ॥ नारदः-पूर्वस्यां दिशि जलदः शुभकृत्पितृपञ्चके । स्वातीत्रये पश्चिमायां सम्यक् शुक्रस्तथाविधः ॥ २९ ॥ विपरीते त्वनावृष्टिवृष्टिकृबुधसंयुतः । कृष्णाष्टम्यां चतुर्दश्याममायां वा यदा सितः ॥ ३० ॥ उदयास्तमयं याति तदा जलमयी क्षितिः । मिथः सप्तमराशिस्थौ पश्चात्माग्वीथिसंस्थितौ ॥ ३१ ॥ गुरुशुक्रावनावृष्टिदुर्भिक्षमरणप्रदौं । कुजज्ञजीवरविजाः शुक्रस्याग्रे सदा यदि । युद्धातिवायुदुर्भिक्षजलनाशकरास्तदा ॥ ३२ ॥ पृथक्फलानि वराहेणोक्तानि-निहन्ति शुक्रः क्षितिजेऽग्रतः प्रजा हुताशशस्त्रक्षुदवृष्टितस्करैः । चराचरं व्यक्तमथोत्तरापथं दिशो रजोल्कादहनैश्च पीडयेत् ॥ ३३ ॥ सौम्योऽस्तोदययोः पुरो भृगुसुतस्यावस्थितस्तोयकृद्रोगान्कामलपित्तजांश्च कुरुते पुष्णाति च प्रैष्मिकान् ।
Aho! Shrutgyanam